सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 69, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 69

६२ ॥ काशिका ॥ १ ॥ ४ ॥
ग्रामणीः । सेनानीः । खलपूः । स्त्र्याख्याग्रहणं किम् । शब्दार्थे स्त्रीत्वएव यथा
स्यात् पदान्तराख्ये मा भूत् । ग्रामण्ये स्त्रियै । खलप्वे स्त्रियै । नदीप्रदेशां
आङ्नद्या इत्येवमादयः ॥
नेयङुवङ्स्थानावस्त्री ॥ ४ ॥
पूर्वेणातिप्रसक्ता नदीसंज्ञा प्रतिषिध्यते । स्थितिः स्थानम् । इयडुवङोः
स्थानमनयोरितीयह्डुवङ्स्थानौ तौ यू नदीसंज्ञौ न भवतः स्त्रीशब्दं वर्जयित्वा ।
हे श्रीः । हे भूः । अस्त्रीति किम् । हे स्त्रि ॥
वा ऽऽमि ॥ ५ ॥
पूर्वेण नित्ये प्रतिषेधे प्राप्ते आमि विकल्पः क्रियते । इयडुवङ्स्थानौ
यू आमि परतो वा नदीसंज्ञौ न भवतः । श्रियाम् । श्रीणाम् । भुवाम् ।
भूषाम् । अस्त्रीत्येव । स्त्रीणाम् ॥
ङिति ह्रस्वश्च ॥ ६ ॥
दीर्घस्य नदीसंज्ञा विहिता ह्रस्वस्य न प्राप्नोति इयडुवङ्स्थानयोश्च
प्रतिषिद्धा । तस्मान्ङिति वा विधीयते । ङिति परतो ह्रस्वश्च व्योः संबन्धी
यः स्त्र्याख्यः इयडुवङ्स्थानौ च यू वा नदीसंज्ञौ भवतः । मत्यै । मतये ।
धेन्वै । धेनवे । श्रियै । श्रिये । भुवै । भुवे । अस्त्रीत्येव । स्त्रियै । स्त्र्याख्या-
नित्येव । अग्नये । वायवे । भानवे ॥
शेषो घ्यसखि ॥ ७ ॥
ह्रस्व इति वर्तते । शेषोत्र घिसंज्ञो भवति सखिशब्दं वर्जयित्वा ।
कश्च शेषः । ह्रस्वमिवर्णोवर्णान्तं यच्च स्त्र्याख्यं स्त्र्याख्यं च यन्न नदीसंज्ञकं स
शेषः । अग्नये । वायवे । कृतये । धेनवे । असखीति किम् । सख्या । सख्ये ।
सख्युः । सख्यौ * ॥
पतिः समासएव ॥ ८ ॥
पतिशब्दस्य घिसंज्ञायां सिद्धायामयं नियमः क्रियते पतिशब्दः समास-
एव घिसंज्ञो भवति । प्रजापतिना । प्रजापतये । समासइति किम् । पत्या ।
पत्ये । एवकार इष्टतो ऽवधारणार्थः । दृढमुष्टिना । दृढमुष्टये ॥
षष्ठीयुक्तश्छन्दसि वा ॥ ९ ॥
पतिरिति वर्तते । पूर्वेण नियमेनासमासे न प्राप्नोतीति वचनमारभ्यते ।
षष्ठन्तेन युक्तः पतिशब्दः छन्दसि विषये वा घिसंज्ञो भवति । कुलुञ्चानां

  • इत उत्तरं “घिप्रदेशाः द्वन्द्वे चीत्येवमादय" इत्यपि क्व चित्पाठः ॥