सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 67, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 67

६० ॥ काशिका ॥ १ । ३ ॥
न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ॥ ८९ ॥
पूर्वेण योगद्वयेन कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः पर-
स्मैपदं विहितं तस्य प्रतिषेधोऽयमुच्यते । यत्कर्त्रभिप्रायविषयमात्मनेपदं तदव-
स्थितमेव न प्रतिषिध्यते । पादमि आङ्यम आङ्यस परिमुह रुचि नृति वद वस
इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं न भवति । णिचश्चेत्यात्मनेपदं भवति । तत्र
पिबतिर्निगरणार्थः । दमिप्रभृतयश्चित्तवत्कर्तृकाः । नृतिश्चलनार्थोऽपि । इषां
परस्मैपदं न भवति । पा । पाययते । दमि । दमयते । आङ्यम । आयामयते ।
यमोऽपरिवेषणे इति मित्संज्ञा प्रतिषिध्यते । आङ्यस । आयासयते । परिमुह ।
परिमोहयते । रुचि । रोचयते । नृति । नर्तयते । वद । वादयते । वस ।
वासयते । पादिषु धेट उपसंख्यानम् ॥ * ॥ धापयेते शिशुमेकं समीची ॥
वा क्यषः ॥ ९० ॥
लोहितादिडाज्भ्यः क्यषिति वक्ष्यति तदन्ताद्धातोर्वा परस्मैपदं भवति *।
लोहितायति । लोहितायते । पटपटायति । पटपटायते । यद्यात्र परस्मैपदेन
मुक्ते कथमात्मनेपदं लभ्यते । यावता ऽनुदात्तङित इत्येवमादिना प्रकरणेन
तन्नियतम् । एवं तर्हि चात्मनेपदमेवात्र विकल्पितं विधीयते, तच्चानन्तरं परस्मै-
पदप्रतिषेधेन सन्निधापितमिह संबध्यते । तेन मुक्ते शेषात्कर्त्तरि परस्मैपदं भवति ॥
द्युद्भ्यो लुङि ॥ ९१ ॥
वेत्येव । द्युत दीप्तौ तत्साहचर्याद् लुतादयोऽपि लृप्पर्यन्तास्तथैव व्यप-
दिश्यन्ते । बहुवचननिर्देशादादर्यो भवति । अनुदात्तेत्त्वान्नित्यमेवात्मनेपदे
प्राप्ते द्युतादिभ्यो लुङि वा परस्मैपदं भवति । व्यद्युतत् । व्यद्योतिष्ट । अलु-
ठत् । अलोठिष्ट । लुङीति किम् । द्योतते ॥
वृद्भ्यः स्यसनोः ॥ ९२ ॥
द्युतादिष्वेव वृतादयः पठ्यन्ते । वृतु वर्तने । वृधु वृद्धौ । शृधु शब्दकु-
त्सायाम् । ष्यन्दू प्रस्रवणे । कृपू सामर्थ्य । एतेभ्यो धातुभ्यः स्ये सनि च परतो
वा परस्मैपदं भवति । वृत । वर्त्स्यति । अवर्त्स्यत् । विवृत्सति । वर्तिष्यते ।
अवर्तिष्यत । विवर्तिषते । वृध । वर्त्स्यति । अवर्त्स्यत् । विवृत्सति । वर्धिष्यते ।
अवर्धिष्यत । विवर्धिषते । स्यसनोरिति किम् । वर्तते ॥
लुटि च कॢपः ॥ ९३ ॥
वृतादित्वादेव स्यसनोर्विकल्पः सिद्धः । लुटि विधीयते । चकारस्तार्द-

  • शेषादिति नित्ये प्राप्ते विकल्पार्थं वचनमित्यपि क्वचित्पाठः ।