सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 639, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 639

लोपार्थं वचनम् । अन्त्यस्य हि टेरित्येव सिद्धः । लुगित्येतदत्र नानुवर्त्तते ।
तथाहि सति न लुमताङ्गस्येति प्रतिषेधाद् गुणो न स्यात् । इमनिज्यहण-
मुत्तरार्थम् । इतरौ तु तुश्छन्दसीति भवतः ॥
टेः ॥ १५५ ॥
भस्य टेर्लोपो भवति इष्ठेमेयस्सु परतः । पटु । पटिष्ठः । पटिमा ।
पटीयान् । लघु । लघिष्ठः । लघिमा । लघीयान् ॥ णाविष्ठवत्प्रातिपदिकस्य
कार्यं भवतीति वक्तव्यम् ॥ * ॥ किं प्रयोजनम् । पुंवद्भावरभावटिलोपयणा-
दिपरार्थम् । पुंवद्भावः । एनीमाचष्टे, एतयति । श्येतयति । तसिलादिष्वाक-
त्वसुच इति इष्ठे पुंवद्भाव उक्तः । रभावः । पृथुमाचष्टे, प्रथयति । म्रदयति ।
टिलोपः । पटुमाचष्टे पटयति । लघयति । यणादिपरम् । स्थूलमाचष्टे, स्थव-