काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 605, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 605
६०४ ॥ काशिका ॥ ६ ॥ ३ ॥
लकागिरिः। अञ्जनागिरिः। कोटरकिंशुलकादीनामिति किम् । असिपत्रव-
नम् । कृष्णगिरिः। कोटर। मिश्रक। पुरक। सिध्रक। सारिक। कोटरादिः।
किंशुलक। साल्वक। अञ्जन। भञ्जन। लोहित। कुक्कुट। किंशुलकादिः ॥
वले ॥ ११८ ॥
वले परतः पूर्वस्य दीर्घो भवति । आसुतीवलः। कृषीवलः। दन्तावलः।
रजःकृष्यासुतिपर्षदोवलच् इति वलच्प्रत्ययो गृह्यते ॥ अनुत्साहभ्रातृपितृभ्यामि-
त्येव ॥ उत्साहवलः । भ्रातृवलः ॥ पितृवलः * ॥
मतावह्नचो ऽनजिरादीनाम् ॥ ११९ ॥
मतौ परतो बह्वचो ऽजिरादिवर्जितस्य दीर्घो भवति संज्ञायां विषये ।
उदुम्बरावती । मशकावती । वीरणवती । पुष्करावती । अमरावती । नद्यां
[L12