सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 602, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 602

॥ काशिका ॥ ६ ॥ ३ ॥ ६०१
तृणे च जातौ ॥ १०३ ॥
तृणशब्दउत्तरपदे जातावभिधेयायां कोः कदादेशो भवति । कत्तृणा
नाम जातिः । जाताविति किम् । कुत्सितानि तृणानि कुतृणानि ॥
का पथ्यक्षयोः ॥ १०४ ॥
पथिन् अक्ष इत्येतयोरुत्तरपदयोः कोः का इत्ययमादेशो भवति ।
कापथः । काक्षः ॥
ईषदर्थे ॥ १०५ ॥
ईषदर्थे वर्तमानस्य कोः का इत्ययमादेशो भवति । कामधुरम् ।
कालवणम् । काम्लम् । अजादावपि परत्वात् कादेश एव भवति । कोष्णम् ॥
विभाषा पुरुषे ॥ १०६ ॥
पुरुषशब्दउत्तरपदे विभाषा कोः का इत्ययमादेशो भवति । कापुरुषः ।
कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति ।
ईषत्पुरुषः, कापुरुषः ॥
कवञ्चोष्णे ॥ १०७ ॥
उष्णशब्दउत्तरपदे कोः कवदित्ययमादेशो भवति का च विभाषा ।
कवोष्णम् । कदुष्णम् ॥
पथि चच्छन्दसि ॥ १०८ ॥
पथिन्शब्दउत्तरपदे छन्दसि विषये कोः कव का इत्येतावादेशौ भवतो
विभाषा । कवपथः । कापथः । कुपथः ॥
पृषोदरादीनि यथोपदिष्टम् ॥ १०९ ॥
पृषोदरादीनि शब्दरूपाणि येषु लोपागमवर्णविकाराः शास्त्रेण न
विहिता दृश्यन्ते च तानि यथोपदिष्टानि साधूनि भवन्ति । यानि यथोप-
दिष्टानि शिष्टैरुच्चारितानि प्रयुक्तानि तथैवानुगन्तव्यानि । पृषदुदरं यस्य,
पृषोदरम् । पृषद् उद्वानं यस्य, पृषोद्वानम् । अत्र तकारलोपो भवति । वारि-
वाहको, बलाहकः । पूर्वशब्दस्य बशब्द आदेश उत्तरपदादेश्च लत्वम् ।
जीवनस्य मूतो, जीमूतः । वनशब्दस्य लोपः । शवानां शयनं, श्मशानम् ।
शवशब्दस्य श्मादेशः । शयनशब्दस्यापि शानशब्द आदेशः । ऊर्ध्वं खमस्येति,
उलूखलम् । ऊर्ध्वखशब्दयोहलू खल इत्येतावादेशौ भवतः । पिशिताशः,
पिशाचः । पिशिताशशब्दयोर्यथायोगं पिशाचशब्दावादेशौ । ब्रुवन्तोऽस्यां
सीदन्तीति, बृसी । सदेरधिकरणे किट् प्रत्ययः । ब्रुवच्छब्दस्य चोपपदस्य