सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 59, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 59

५२ ॥ काशिका ॥ १ ॥ ३ ॥
वद इति वर्तते । व्यक्तवाचां समुच्चारणं सहोच्चारणं तत्र वर्तमानाद्व-
दतेरात्मनेपदं भवति । ननु वद व्यक्तायां वाचीत्येव पठ्यते तत्र किं व्यक्तवा-
चामिति विशेषणेन । प्रसिद्धोपसंग्रहार्थमेतत् । व्यक्तवाच इति हि मनुष्याः प्रसि-
द्धाः तेषां समुच्चारणे यथा स्यात् । संप्रवदन्ते ब्राह्मणाः । संप्रवदन्ते क्षत्रियाः ।
व्यक्तवाचामिति किम् । संप्रवदन्ति कुक्कुटाः । समुच्चारणइति किम् । ब्राह्म-
णो वदति । क्षत्रियो वदति ॥
अनोरकर्मकात् ॥ ४९ ॥
वद इति व्यक्तवाचामिति च वर्तते । अनुपूर्वाद्बदतेरकर्मकाद्व्यक्तवाग्विष-
यादात्मनेपदं भवति । अनुवदते कठः कलापस्य । अनुवदते मोदः पैप्पलादस्य ।
अनुः सादृश्ये । यथा कलापोऽधीयानो वदति तथा कठ इत्यर्थः । अकर्मकादिति
किम् । पूर्वमेव यजुरुदितमनुवदति । व्यक्तवाचामित्येव । अनुवदतिवीणा ॥
विभाषा विप्रलापे ॥ ५० ॥
वद इति वर्तते । व्यक्तवाचां समुच्चारण इति च । विप्रलापात्मके
व्यक्तवाचां समुच्चारणे वर्तमानाद्वदतेरात्मनेपदं भवति विभाषा । प्राप्तविभा-
षेयम् । विप्रवदन्ते सांवत्सराः । विप्रवदन्ति सांवत्सराः । विप्रवदन्ते मौहूर्त्ताः ।
विप्रवदन्ति मौहूर्त्ताः । युगपत्परस्परप्रतिषेधेन विरुद्धं वदन्तीत्यर्थः । विप्रलाप-
इति किम् । संप्रवदन्ते ब्राह्मणाः । व्यक्तवाचामित्येव । विप्रवदन्ति शकुनयः ।
समुच्चारणइत्येव । क्रमेण मौहूर्त्ता मौहूर्तेन सह विप्रवदन्ति ॥
अवाद्गृः ॥ ५१ ॥
गृ निगरणइति तुदादौ पठ्यते तस्येदं ग्रहणं, न तु गृ शब्दइति क्रयादि-
पठितस्य । तस्य ह्यवपूर्वस्य प्रयोग एव नास्ति । शेषादिति परस्मैपदे प्राप्ते ।
अवपूर्वाद्गिरतेरात्मनेपदं भवति । अवगिरते । अवगिरेते । अवगिरन्ते । अवा-
दिति किम् । गिरति ॥
समः प्रतिज्ञाने ॥ ५२ ॥
गृ इति वर्तते । संपूर्वाद्गिरतेः प्रतिज्ञाने वर्त्तमानादात्मनेपदं भवति ।
प्रतिज्ञानमभ्युपगमः । शतं संगिरते । नित्यं शब्दं संगिरते । प्रतिज्ञानइति किम् ।
संगिरति ग्रासम् ॥
उदश्चरः सकर्मकात् ॥ ५३ ॥
शेषात्कर्त्तरि परस्मैपदे प्राप्ते उत्पूर्वाच्चरतेः सकर्मकक्रियावचनादात्म-
नेपदं भवति । गेहमुच्चरते । कुटुम्बमुच्चरते । गुरुवचनमुच्चरते । उत्क्रम्य गच्छ-
तीत्यर्थः । सकर्मकादिति किम् । बाष्पमुच्चरति ॥