काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 57, कुल 828 में से
संदर्भ में पढ़ें५० ॥ काशिका ॥ १ ॥ ३ ॥
रात्मनेपदं भवति । शरीरं प्राणिकायः तदेकदेशोऽपि शरीरम् । क्रोधं विनयते ।
मन्युं विनयते कर्तुस्थइति किम् । देवदत्तो यज्ञदत्तस्य क्रोधं विनयति । अश-
रीरइति किम् । गण्डं विनयति । घाटां विनयति । कर्म्मणीति किम् । बुद्ध्या
विनयति । प्रज्ञया विनयति ॥
वृत्तिसर्गतायनेषु क्रमः ॥ ३८ ॥
शेषात्कर्त्तरि परस्मैपदे प्राप्ते वृत्त्यादिष्वर्थेषु क्रमेर्धातोरात्मनेपदं भवति ।
वृत्तिरप्रतिबन्धः । सर्ग उत्साहः । तायनं स्फीतता । वृत्तौ तावत् । ऋक्ष्वस्य क्रमते
बुद्धिः । न प्रतिहन्यतइत्यर्थः । यजुःष्वस्य क्रमते बुद्धिः । सर्गे । व्याकरणाध्य-
यनाय क्रमते । उत्सहतइत्यर्थः । तायने । अस्मिन् शास्त्राणि क्रमन्ते । स्फीती-
भवन्तीत्यर्थः । एतेष्विति किम् । अपक्रामति ॥
उपपराभ्याम् ॥ ३६ ॥
वृत्तिसर्गतायनेष्विति वर्त्तते । उपपरापूर्वात्क्रमतेर्वृत्त्यादिष्वर्थेषु वर्त्तमा-
नादात्मनेपदं भवति । किमर्थं तर्हीदमुच्यते, उपसर्गनियमार्थं सोपसर्गादुपपरापू-
र्वादेव नान्यपूर्वादिति । उपक्रमते । पराक्रमते । उपपराभ्यामिति किम् । संक्रा-
मति । वृत्त्यादिष्वित्येव । उपक्रामति । पराक्रामति ॥
आङ उद्गमने ॥ ४० ॥
आङ्पूर्वात् क्रमतेरुद्गमने वर्त्तमानादात्मनेपदं भवति । आक्रमतआदि-
त्यः । आक्रमते चन्द्रमाः । आक्रमन्ते ज्योतींषि । उद्गमनइति किम् । आक्रामति
माणवकः कुतपम् । ज्योतिरुद्गमनइति वक्तव्यम् ॥ * ॥ इह मा भूत् । आक्रा-
मति धूमो हर्म्यतलात् ॥
वेः पादविहरणे ॥ ४१ ॥
विपूर्वात्क्रमतेः पादविहरणेऽर्थे वर्त्तमानादात्मनेपदं भवति । विहरणं
विक्षेपः । सुष्ठु विक्रमते । साधु विक्रमते । अश्वादीनां गतिविशेषो विक्रमश्चे-
त्युच्यते । यद्यपि क्रमिः पादविहरणएव पठ्यते क्रमु पादविक्षेपइति तथाप्यनेका-
र्थत्वाद्धा McNamara/द्धा तूनामेवमुक्तम् । पादविहरणइति किम् । विक्रामत्यग्निसमिधः ॥
प्रोपाभ्यां समर्थाभ्याम् ॥ ४२ ॥
प्र उप इत्येताभ्यां परस्मात् क्रमतेरात्मनेपदं भवति, तौ चेत् प्रोपौ
समर्थौ तुल्यार्थौ भवतः । क्व चानयोस्तुल्यार्थता, आदिकर्म्मणि । प्रक्रमते भोक्तु-
म् । उपक्रमते भोक्तुम् । समर्थाभ्यामिति किम् । पूर्वेद्युः प्रक्रामति । गच्छती-
त्यर्थः । अपरेद्युरुपक्रामति । आगच्छतीत्यर्थः । अथोपपराभ्यामित्यनेनात्मनेपद-
मत्र कस्मान्न भवति, वृत्त्यादिग्रहणं तत्रानुवर्त्तते, ततोऽन्यदिदं प्रत्युदाहरणम् ॥