सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 52, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 52

इतरेतरो ऽन्योन्य इत्येवमुपपदाद्धातोः कर्मव्यतिहारे चात्मनेपदं न भव-
ति । इतरेतरस्य व्यतिलुनन्ति । अन्योन्यस्य व्यतिलुनन्ति । परस्परोपपदाच्चेति
वक्तव्यम् ॥ * ॥ परस्परस्य व्यतिलुनन्ति ॥
नेर्विशः ॥ १७ ॥
शेषात्कर्तरीति परस्मैपदे प्राप्ते निपूर्वाद्दिश आत्मनेपदं विधीयते नेः पर-
स्माद्विश आत्मनेपदं भवति । निविशते । निविशन्ते । नेरिति किम् । प्रविश-
ति । यदागमास्तद्गुणेन गृह्यन्ते तेनाटा नास्ति व्यवधानम् । न्यविशत ।
नेरुपसर्गस्य ग्रहणम् अर्थवद्ग्रहणे नानर्थकस्येति तस्मादिह न भवति । मधुनि
विशन्ति भ्रमराः ॥
परिव्यवेभ्यः क्रियः ॥ १८ ॥
डुक्रीञ् द्रव्यविनिमये ञित्त्वात्कर्त्रभिप्राये क्रियाफले सिद्धमात्मनेपदम्,
अकर्त्रभिप्रायोऽर्थोयमारम्भः । परिव्यवेभ्य उत्तरात्क्रीणातेरात्मनेपदं भवति ।
परिक्रीणीते । विक्रीणीते । अवक्रीणीते । पर्य्यादय उपसर्गा गृह्यन्ते तेनेह
न भवति । बहुविक्रीणाति धनम् ॥
विपराभ्यां जेः ॥ १९ ॥
शेषात्कर्त्तरि परस्मैपदमित्यस्यापवादः । विपरापूर्वान्जयते र्धातोरात्म-
नेपदं भवति । विजयते । पराजयते । विपराशब्दावुपसर्गौ गृह्येते साहचर्या-
त्, तेनेह न भवति । बहु विजयति धनम् । परा जयति सेनेति ॥
आङो दो ऽनास्यविहरणे ॥ २० ॥
अकर्त्रभिप्रायोऽर्थोयमारम्भः । आङ्पूर्वाद्ददातेरनास्यविहरणे वर्त्तमानादा-
त्मनेपदं भवति । विद्यामादत्ते । अनास्यविहरणइति किम् । आस्यं व्याद-
दाति ॥ आस्यविहरणसमानक्रियादपि प्रतिषेधो वक्तव्यः ॥ * ॥ विपादिकां व्या-
ददाति । कूलं व्याददाति । स्वाङ्गकर्मकाच्चेति वक्तव्यम् ॥ * ॥ इह मा भूत् ।
व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥
क्रीडो ऽनुसंपरिभ्यश्च ॥ २१ ॥
क्रीडृ विहारे एतस्माद् अनु सम् परि इत्येवंपूर्वाद् आङ्पूर्वाच्चात्मने-
पदं भवति । अनुक्रीडते । संक्रीडते । परिक्रीडते । आङः खल्वपि । आक्रीडते ।
समो ऽकूजने इति वक्तव्यम् ॥ * ॥ संक्रीडन्ति शकटानि । समासाहचर्याद-
न्वादयउपसर्गा गृह्यन्ते तेनेह कर्मप्रवचनीयप्रयोगे न भवति । माणवकमनुक्री-
डति । आगमः समायामात्मनेपदं वक्तव्यम् ॥ * ॥ समा उपेक्षा कालहरण-
मिति यावत् । आगमयस्व तावन्माणवकम् । चित्तेर्जिज्ञासायाम् ॥ * ॥ वि-