सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 502, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 502

॥ काशिका ॥ ६ । १ ॥ ५०१
विलेतव्यम् । विलीय ॥ निमीमिलियां ललचोः प्रतिषेधो वक्तव्यः ॥ * ॥ ईषत्प्र-
मयः । प्रमयो वर्त्तते । ईषन्निमयः । निमयो वर्त्तते । ईषद्विलयः । विलयोवर्त्तते ।
अत्र लियो व्यवस्थितविभाषाविज्ञानात्सिद्धम् । एवं च प्रलम्भनशालीनकरण-
योश्च णौ नित्यमात्वं भवति । कस्त्वामुल्लापयते । श्येनो वर्त्तिकामुल्लापयते ॥
खिदेश्छन्दसि ॥ ५२ ॥
विभाषेति वर्त्तते । खिद् दैन्यइत्यस्य धातोरिचः स्थाने छन्दसि विषये
विभाषा आकार आदेशो भवति । चित्तं चिखाद । चित्तं चिखेद । छन्द-
सीति । किम् । चित्तं खेदयति ॥
अपगुरो णमुलि ॥ ५३ ॥
गुरी उद्यमनेइत्यस्य धातोरपपूर्व्वस्य णमुलि परत एचः स्थाने विभाषा
आकार आदेशो भवति । अपगारमपगारम् । अपगोरमपगोरम् । आभीक्ष्ण्ये
णमुल्चेति णमुल् । अस्यपगारं युध्यन्ते । अस्यपगोरं युध्यन्तइत्यत्र द्वितीयायां
चेति णमुल् ॥
चिस्फुरोर्णौ ॥ ५४ ॥
चिञ् स्फुर इत्येतयोर्द्धात्वोर्णौ परत एचः स्थाने विभाषा आकारादेशो
भवति । चापयति । चापयति । स्फारयति । स्फोरयति ॥
प्रजने वीयतेः ॥ ५५ ॥
णाविति वर्त्तते । वी गतिप्रजनकान्त्यसनखादनेषु इत्यस्य धातोः प्रजने
वर्त्तमानस्य णौ परतो विभाषा आकारादेशो भवति । पुरोवातो गाः प्रवाप-
यति । पुरोवातो गाः प्रवाययति । गर्भं ग्राहयतीत्यर्थः । प्रजनो हि जन्मन
उपक्रमो गर्भग्रहणम् ॥
बिभेतेर्हेतुभये ॥ ५६ ॥
णाविति वर्त्तते विभाषेति च । हेतुरीह पारिभाषिकः स्वतन्त्रस्य प्रयो-
जकस्ततो यद्भयम्, स यस्य भयस्य साक्षाद्धेतुः, तद्भयं हेतुभयम् । तत्र वर्त्तमा-
नस्य ञिभी भयइत्यस्य धातोर्णौ परतो विभाषा आकारादेशो भवति । मुण्डो
भापयते । मुण्डो भीषयते । जटिलो भापयते । जटिलो भीषयते । भीस्म्यो-
र्हेतुभयेत्यात्मनेपदम् । भियो हेतुभये षुक् । स चात्वपक्षे न भवति । लिभि-
योरीकारप्रश्लेषनिर्देशादीकारान्तस्य भियः षुग्विधीयते । हेतुभयदि्ति किम् ।
कुञ्चिकायैनं भाययति । अत्र हि कुञ्चिकातो भयं कारणाच्च हेतोर्देवदत्तात् ॥
नित्यं स्मयतेः ॥ ५७ ॥
णाविति वर्त्तते, हेतुभयइति च । नित्यग्रहणाद्विभाषेति निवृत्तम् ।