सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 500, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 500

॥ काशिका ॥ ६ ॥ १ ॥ ४९९
लिटीत्यनुवर्तते । वेञ् तन्तुसंतानइत्यस्य धातोर्लिटि परतः संप्रसारणं
न भवति । ववौ । ववतुः । ववुः । किति यजादित्वाद् धातोः प्राप्तमकि-
त्यपि लिट्यभ्यासस्योभयेषामित्यभ्यासस्यात उभयं प्रतिषिध्यते ॥
ल्यपि च ॥ ४१ ॥
वेञ इत्यनुवर्तते । ल्यपि च परतो वेञः संप्रसारणं न भवति ।
प्रवाय । उपवाय । पृथग्योगकरणमुत्तरार्थम् ॥
ज्याश्च ॥ ४२ ॥
ल्यपीत्येव । ज्या वयोहानिरित्यस्य धातोर्ल्यपि परतः संप्रसारणं न
भवति । प्रज्याय । उपज्याय ॥
व्यश्च ॥ ४३ ॥
ल्यपीत्येव । व्येञ् संवरणादित्येतस्य धातोर्ल्यपि परतः संप्रसारणं न
भवति । प्रव्याय । उपव्याय । योगविभाग उत्तरार्थः ॥
विभाषा परेः ॥ ४४ ॥
[L1