सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 409, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 409

४०६ ॥ काशिका ॥ ५ ॥ १ ॥
खण्डिक । दण्डिक । कुत्रिक । मिलिक । पिण्डिक । बाल । मन्द । स्तनिक ।
चूडितिक । ह्वषिक । पूतिक । पर्णिक । प्रतिक । अजानिक । सलनिक ।
सूचिक । राहुर । सूचक । पत्तिक । सारथिक । जलिक । सूतिक । अञ्ज-
लिक । सूचक * ॥
प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यो ऽञ् ॥ १२६ ॥
प्राणभृज्जातिवाचिभ्यः प्रातिपदिकेभ्यो वयोवचनेभ्य उद्गात्रादिभ्यश्चाञ्
प्रत्ययो भवति भावकर्मणोरर्थयोः । अश्वस्य भावः कर्म वा, आश्वम् ।
औष्ट्रम् । वयोवचनेभ्यः । कौमारम् । कैशोरम् । उद्गात्रादिभ्यः । औद्गात्रम् ।
औन्नेत्रम् । उद्गातृ । उन्नेतृ । प्रतिहर्तृ । रथगणक । पतिगणक † । सुष्ठु ।
दुष्ठु । अध्वर्यु । वधू ॥ सुभगमन्त्रे ‡ ॥
हायनान्तयुवादिभ्योऽण् ॥ १३० ॥
हायनान्तेभ्यः प्रातिपदिकेभ्यः युवादिभ्यश्चाण् प्रत्ययो भवति भाव-
कर्मणोरर्थयोः । द्विहायनस्य भावः कर्म वा, द्वैहायनम् । त्रैहायनम् । युवा-
दिभ्यः । यौवनम् । स्थाविरम् ॥ श्रोत्रियस्य यलोपश्च वाच्यः ॥ * ॥ श्रोत्रि-
यस्य भावः कर्म वा, श्रौत्रम् । युवन् । स्थविर । होतृ । यजमान । कमण्डलु ॥
पुरुषासे ॥ सुहृत् । यातृ । श्वशुर । कुस्त्री । सुस्त्री । सुहृदय । सुभ्रातृ ।
वृषल । दुर्भातृ ॥ हृदयासे ॥ चेतञ्ज । कृतक । परिव्राजक । कुशल । चपल ।
निपुण । पिशुन । सब्रह्मचारिन् । कुतूहल । अनुशंस § । युवादिः ॥
इगन्ताच्च लघुपूर्वात् ॥ १३१ ॥
इगन्ताच्च लघुपूर्वादण् प्रत्ययो भवति भावकर्मणोः । लघुपूर्वग्रहणेन
प्रातिपदिकसमुदायो विशेष्यते । लघुः पूर्वो ऽवयवो ऽस्येति लघुपूर्वः । कुतः
पुनरसौ लघुः पूर्वः । इक्स्संनिधानादिक इति विज्ञायते । लघुपूर्वोयस्मादिकः
तदन्तात्प्रातिपदिकादित्ययमर्थो विवक्षितः । अपरे तत्पुरुषकर्मधारयं वर्ण-
यन्ति । इक्चासावन्तश्चेतीगन्तः । लघुपूर्वग्रहणेन स एव विशेष्यते । पश्चा-
त्तेन प्रातिपदिकस्य तदन्तविधिरिति । अस्मिन्व्याख्याने ऽन्तग्रहणमतिरिच्यते ।
लघुपूर्वादिक । इत्येतावदेव वाच्यं स्यात् । शुचेर्भावः कर्म वा, शौचम् ।

  • शर्मिक । चर्मिक । कर्मिक । शोलिक । मूलिक । तिलिका । तिखिक । अजातिका ।
    खण्डिक । पुत्रक । पर्णिका । प्रच्छिक । प्रविक । परिच्छक । पूजनिक ॥ राजासे ॥ सूचिक । स्व-
    स्तिक । चुडिक । एते शब्दा अत्र गणे पुस्तकान्तरे ऽधिकाः ।
    † पक्षिगणक । पा० २ ।
    ‡ प्रशास्तृ । पोतृ । नेष्टृ । कर्तृ । एते ऽत्र गणे ऽधिकाः कुत्र चित् ।
    § भ्रातृ । कुण्डुक । कन्दुक । दुःस्त्री । दुर्हृदय । दुर्भर्तृ । मिथुन । कुलटी । मण्डप ।
    कतक । कितव । पोत । एते ऽत्र गणे ऽधिकाः पुस्तकान्तरे ।