सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 406, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 406

॥ काशिका ॥ ५ । १ ॥ ४०५
ब्राह्मणादिराकृतिगणः । आदिशब्दः प्रकारवचनः ॥ चातुर्वर्ण्यादीनां स्वार्थे-
उपसंख्यानम् ॥ * ॥ चत्वार एव वर्णाश्चातुर्वर्ण्यम् । चातुराश्रम्यम् । त्रैलो-
क्यम् । त्रैश्वर्यम् । षाड्गुण्यम् । सैन्यम् । साचिध्यम् । सामीप्यम् । औप-
म्यम् । सौख्यम् । ब्राह्मण । वाडव । माणव । चोर । मूक । आराध्य ।
विराध्य । अपराधय । उपराध्य । एकभाव । द्विभाव । त्रिभाव । अन्यभाव ।
समस्थ । विषमस्थ । परस्थ । मध्यमस्थ । अनीश्वर । कुशल । कपि । चपल ।
अचेतन । निपुण ॥ अर्हतो नुम् च ॥ आर्हन्त्यम् । संवादिन् । संवेशिन् ।
बहुभाषिन् । बालिश । दुष्पुरुष । कापुरुष । दायाद । विशसि । धूर्त्त ।
राजन् । संभाषिन् । शीर्षघातिन् । अधिपति । अलस । पिशाच । पिशुन ।
विशाल । गणपति । धनपति । नरपति । गडुल । निख । निधान । विष ॥
सर्ववेदादिभ्यः स्वार्थे ॥ चतुर्वेदस्योभयपदवृद्धिश्च ॥ चातुर्वैद्यम् * ॥
स्तेनाद्यन्नलोपश्च ॥ १२५ ॥
स्तेनशब्दात्षष्ठीसमर्थाद्भावकर्मणोर्यत्प्रत्ययो भवति, नशब्दस्य लोपश्च
भवति । स्तेनस्य भावः कर्म वा, स्तेयम् । स्तेनादिति के चिद् योगविभागं
कुर्वन्ति । स्तेनात्ष्यङ्भवति । स्तैन्यम् । ततो यन्नलोपश्च, स्तेयम् ॥
सख्युर्यः ॥ १२६ ॥
सखिशब्दाद् यः प्रत्ययो भवति भावकर्मणोरर्थयोः सख्युर्भावः कर्म
वा, सख्यम् ॥ दूतवणिग्भ्यां चेति वक्तव्यम् ॥ * ॥ दूत्यम् । वणिज्यम् । कथं
वाणिज्यम् । ब्राह्मणादित्वात् ॥
कपिज्ञात्योर्ढक् ॥ १२७ ॥
कपिज्ञातिशब्दाभ्यां ढक् प्रत्ययो भवति भावकर्मणोरर्थयोः । कपेर्भावः
कर्म वा, कापेयम् । ज्ञातेयम् ॥ यथासंख्यमर्थयोः सर्वेनैवात्र प्रकरणे नेष्यते ॥
पत्यन्तपुरोहितादिभ्यो यक् ॥ १२८ ॥
पत्यन्तात्प्रातिपदिकात्पुरोहितादिभ्यश्च यक् प्रत्ययो भवति भावकर्म-
णोरर्थयोः । सेनापतेर्भावः कर्म वा, सेनापत्यम् । गार्हपत्यम् । प्राजापत्यम् ।
पौरोहित्यम् । राज्यम् । पुरोहित । राजन् । संयामिक । एषिक । वर्मित ।

  • स्वभाव । निघातिन् । विघातिन् । राजपुत्र । विशस्ति । विप्राय । विप्रात । विश्वा-
    स । नयात । सुझित । दीन । विदग्ध । उचित । शमथ । श्लो । तत्पर । इदंपर । अवातपा ।
    पुरस् । पुनःपुनर् । अभीक्ष्ण । सरतम । प्रकाम । यथाकाम । निकुल । स्वराज । महाराज ।
    युवराज । सबाहु । अविदूर । अपिशुन । अयशस । अयवातथ । अयथापुर । स्वधर्म । अनुकूल ।
    परिमण्डल । विमण्डल । असिच्यु । उदासीन । ईश्वर । प्रतिभू । साक्षि । मानुष । काशिक ।
    नास्तिक । पुगपत् । पूर्वापर । उत्तराधर । एते शब्दा अत्र गणे अधिकाः पुस्तकान्तरे ।