सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 38, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 38

॥ काशिका ॥ १ ॥ २ ॥ ३१
स्थाने नीचभागे निष्पन्नो ऽच् अनुदात्तः। यस्मिन्नुच्चार्यमाणे गात्राणामन्वव-
सर्गो भवति । मार्दवम् । स्वरस्य मृदुता स्निग्धता । कण्ठविवरस्योहुता
महत्ता । त्वसमसिमनेमेत्यनुच्चानि । नमस्ते रुद्र नीलकण्ठ सहस्राक्ष । अनु-
दात्तप्रदेशा अनुदात्तौ सुप्पित्तावित्येवमादयः ॥
समाहारः स्वरितः ॥ ३१ ॥
अजिति वर्तते । उदात्तानुदात्तस्वरसमाहारो योऽच् स स्वरित-संज्ञो
भवति । सामर्थ्याच्चात्र लोकवेदयोः प्रसिद्धौ गुणावेव वर्णधर्मावुदात्तानुदात्तौ
गृह्येते नाचौ । तौ समाह्रियेते यस्मिन्नचि तस्य स्वरित इत्येषा संज्ञा विधीयते ।
शिक्यम् । कन्या । सामन्यः । क्व । स्वरितप्रदेशाः तित्स्वरितमित्येवमादयः ॥
तस्यादित उदात्तमर्धह्रस्वम् ॥ ३२ ॥
उदात्तानुदात्तस्वरसमाहारः स्वरित इत्युक्तम् । तत्र न ज्ञायते कस्मि-
न्नंशे उदात्तः कस्मिन्ननुदात्तः, कियान्वा उदात्तः कियान्वा अनुदात्त इति ।
तदुभयमनेनाख्यायते । तस्य स्वरितस्य आदावर्धह्रस्वमुदात्तम् । परिशिष्टमनु-
दात्तम् । अर्धह्रस्वमिति चार्धमात्रोपलक्ष्यते । ह्रस्वग्रह्णमतन्त्रम् । सर्वेषामेव
ह्रस्वदीर्घप्लुतानां स्वरितानामेष स्वरविभागः, शिक्यमित्यत्रार्धमात्रादित उदात्ता
ऽपरार्धमात्रा ऽनुदात्ता, एकश्रुतिर्वा । कन्या इत्यत्रार्धमात्रा ऽऽदित उदात्ता
ऽर्धमात्रा ऽनुदात्ता । माणवका ३ माणवकेत्यत्रार्धमात्रा ऽऽदित उदात्ताऽर्ध-
तृतीयामात्रा अनुदात्ता ॥
एकश्रुति दूरात्संबुद्धौ ॥ ३३ ॥
त्रैस्वर्ये पदानां प्राप्ते दूरात्संबुद्धावेकश्रुत्यं विधीयते । एका श्रुतिर्यस्य
तदिदमेकश्रुति । एकश्रुति वाक्यं भवति । दूरात्संबोधयति येन वाक्येन तत्सं-
बोधनं संबुद्धिः, नैकवचनं संबुद्धिः । स्वराणामुदात्तादीनामविभागे ऽभेदः
तिरोधानमेकश्रुतिः । आगच्छ भो माणवक देवदत्ता ३ । दूरादिति किम् ।
आगच्छ भो माणवक देवदत्त ॥
यज्ञकर्मण्यजपन्यूङ्खसामसु ॥ ३४ ॥
त्रैस्वर्येण वेदे मन्त्राः पठ्यन्ते तेषां यज्ञक्रियायामपि तथैव प्रयोगे प्राप्ते
एकश्रुतिर्विधीयते । अपन्यूङ्खसामानि वर्जयित्वा यज्ञकर्मणि मन्त्राणामैकश्रुत्यं
भवति । अग्निमूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्व-
तो३म् । यज्ञकर्मणीति किम् । संपाठे मा भूत् । अजपेष्विति किम् । ममाग्ने
वर्चो विहवेष्वस्तु । जपो ऽनुकरणमन्त्रः । उपांशुप्रयोगः । अन्यूङ्खेष्विति किम् ।
न्यूङ्ख ओकारः षोडश । तेषु के चिदुदात्ताः के चिदनुदात्ताः । असामस्विति