सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 35, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 35

३८ ॥ काशिका ॥ १ । २ ॥
यंस्त कन्याम् । उपायस्त भार्याम् । उपायंस्त भार्याम् । उपयमनं स्वीकारणं
विवाहः दारकर्म पाणिग्रहणमित्यर्थः । उपाद्यमः स्वकरणइत्यात्मनेपदम् ॥
स्थाघ्वोरिच्च ॥ १७ ॥
सिजात्मनेपदेष्विति वर्तते । तिष्ठतेर्धातोः घुसंज्ञकानां च इकारश्चा-
न्तादेशः सिच्च किद्वद्भवति चात्मनेपदेषु परतः । उपास्थित । उपास्थिषाताम् ।
उपास्थिषत । घुसंज्ञकानाम् । अदित । अधित ॥
इत्त्व कस्य तकारस्थं दीर्घो मा भूदृतेपि सः ।
अनन्तरे प्लुतो मा भूत् प्लुतश्च विषये स्मृतः ॥
न क्त्वा सेट् ॥ १८ ॥
क्त्वाप्रत्ययः सेन्न किद्वद्भवति । देवित्वा । वर्तित्वा । सेडिति किम् ।
कृत्वा । हुत्वा* । क्त्वाग्रहणं किम् । निगृहीतिः । उपगृहीतिः । निगूहितः ॥
न सेडिति कृते ऽकित्