काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 25, कुल 828 में से
संदर्भ में पढ़ें९८ ॥ काशिका ॥ १ ॥ १ ॥
ङ्कद्भवति । प्रकृत्य । प्रहृत्य । ल्यबादेशे कृते ह्रस्वस्य पिति कृति तुगिति तुग्भ-
वति । तद्धितादेशस्तद्धितवद्भवति । दाधिकम् । अद्यतनम् । कृत्तद्धितसमासा-
श्चेति प्रातिपदिकसंज्ञा भवति । अव्ययादेशो ऽव्ययवद्भवति । प्रस्तुत्य । प्रहृत्य
उपस्तुत्य । अव्ययादिति सुब्लुग् भवति । सुबादेशः सुब्बद्भवति । वृक्षात् । प्ल-
क्षाय । सुपि चेति दीर्घत्वं भवति । तिङादेशस्तिङ्वद्भवति । अकुरुतम् । अकु-
रुत । सुप्तिङन्तं पदमिति पदसंज्ञा भवति । पदादेशः पदवद्भवति । ग्रामो वः
स्वम् । जनपदो नः स्वम् । पदस्येति रुत्वं भवति । वत्करणं किम् । स्थानि-
आदेशस्य संज्ञा मा विज्ञायीति स्वाश्रयमपि यथा स्यात् । आङो यमहन्ः
आहत । आङिद्विषेत्यात्मनेपदमुभयत्रापि भवति । आदेशग्रहणं किम् । आनु-
मानिकस्याप्यादेशस्य स्थानिवद्भावो यथा स्यात् । पचतु । एहः । अनल्विधा-
विति किम् । द्युपथिदादेशा न स्थानिवद्भवन्ति । द्यौः । पन्थाः । स इति
दश्शब्दादिति सुलोपो न भवति ॥
अचः परस्मिन्पूर्वविधौ ॥ ५७ ॥
पूर्वेणानल्विधौ स्थानिवद्भाव उक्तः । अल्विध्यर्थमिदमारभ्यते । आदेशः
स्थानिवदिति वर्तते । अच इति स्थानिनिर्देशः । परस्मिन्निति निमित्तसप्तमी ।
पूर्वविधाविति विषयसप्तमी । अजादेशः परनिमित्तकः पूर्वविधौ कर्तव्ये स्था-
निवद्भवति । पटयति । अवधीत् । बहुखट्वकः । पटुमाचष्ट इति णिचि टिलोपे
कृते तस्य स्थानिवद्भावादत उपधाया इति वृद्धिर्न भवति । अवधीत् । अतो
लोपस्य स्थानिवद्भावादतो हलादेर्लघोेरिति हलन्तलक्षणा वृद्धिर्न भवति । बहु-
खट्वक इति आपोऽन्यतरस्यामिति ह्रस्वस्य स्थानिवद्भावाद् ह्रस्वान्ते ऽन्त्यात्पूर्व-
मिति स्वरो न भवति । अच इति किम् । प्रश्नः । अक्राष्टाम् । आगत्य ।
प्रश्न इति प्रच्छेर्नङ्प्रत्यये छोः शूडनुनासिके चेति छकारस्य शकारः परनिमि-
त्तकस्तुकि कर्तव्ये न स्थानिवद्भवति । अक्राष्टामिति झलो झलीति सिचो लोपः
परनिमित्तकः कृषेः षकारस्य षढोः कः सीति ककारे कर्तव्ये न स्थानिवद्भवति ।
आगत्येति वा ल्यपीति अनुनासिकलोपः परनिमित्तकस्तुकि कर्तव्ये न स्थानि-
वद्भवति । परस्मिन्निति किम् । युवजानिः । वधूटेजानिः । वैयाघ्रपद्यः । आदी-
ध्ये । युवजानीरिति जायाया निङ् न परनिमित्तकस्तेन यलोपे न स्थानिव-
द्भवति । वैयाघ्रपद्य इति न परनिमित्तकः पादस्यान्तलोपः पद्भावं न प्रतिषे-
धाति । आदीध्ये इति दीधीङ उत्तमपुरुषैकवचने टैरित्वस्यापरनिमित्तकत्वा-
च्छीङोर्दीधीवेव्योरिति लोपो न भवति । पूर्वविधाविति किम् । हे गौः ।
वाभ्रवीयाः । नैषेयः । हे गौरिति सुब्लुगादेशः संबुद्धिलोपे कर्तव्ये न स्थानिव-
द्भवति । वाभ्रवीया इति वाभ्रव्यस्यामीच्छात्रा इति वृद्धाच्छ इति छः इयन्तात्