काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 17, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ १ ॥ १ ॥
मणीवोष्ट्रस्य लम्बेते प्रियो वत्सतरौ मम ।
दम्पतीव जम्पतीव रोदसीव ॥
अदसो मात् ॥ १२ ॥
अदसः संबन्धी यो मकारस्तस्मात्परौदूदेतः प्रगृह्यसंज्ञा भवन्ति । अमी
अत्र । अमी आसते । अमू अत्र । अमू आसते । एकारस्य नास्त्युदाहरणम् ।
अदस इति किम् । शम्यत्र । दाडिम्यत्र । मादिति किम् । अमुके ऽत्र ॥
शे ॥ १३ ॥
शे इत्येतत्प्रगृह्यसंज्ञं भवति । किमिदं शे इति । सुपामादेशश्छन्दसि ।
न युष्मे वाजबन्धवः । अस्मे इन्द्राबृहस्पती । युष्मे इति । अस्मे इति । त्वे
रायः । मे रायः । त्वे इति । मे इति । छान्दसमेतदेवैकमुदाहरणम् अस्मे
इन्द्राबृहस्पती इति । तत्र तथा पाठात् । इतरत्तु लौकिकमनुकरणम् । युष्मे
इति । अस्मे इति त्वे इति । मे इति ॥
निपात एकाजनाङ् ॥ १४ ॥
एकश्चासावच्च एकाच् निपातो य एकाच् चाङ्वर्जितः स प्रगृह्यसंज्ञो
भवति । आ अपेहि । इ इन्द्रं पश्य । उ उत्तिष्ठ । आ एवं नु मन्यसे । आ एवं
किल तत् । निपात इति किम् । चक्रात्र । एकाजिति किम् । प्राग्नये वाच-
मीरय । अनाङिति किम् । आ उदकान्तात् श्रोदकान्तात् ।
ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः ।
एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् ॥
ओत् ॥ १५ ॥
निपात इति वर्तते । तस्यौकारेण तदन्तविधिः । ओदन्तो यो निपातः
स प्रगृह्यसंज्ञो भवति । आहो इति । उताहो इति ॥
संबुद्धौ शाकल्यस्येतावनार्षे ॥ १६ ॥
ओदिति वर्तते । संबुद्धिनिमित्तो य ओकारः स शाकल्यस्याचार्यस्य मतेन
प्रगृह्यसंज्ञो भवति । इतिशब्दे ऽनार्षे अवैदिके परतः । वायो इति । वायवि-
ति । भानो इति । भानविति । संबुद्धाविति किम् । गवित्ययमाह । अत्राऽनु-
कार्यानुकरणयोर्भेदस्याविवक्षितत्वात् । असत्यर्थवत्त्वे विभक्तिर्न भवति । शाक-
ल्यग्रहणं विभाषार्थम् । इताविति किम् । वायोत्र । अनार्षेदिति किम् । एताँ
मा ब्रह्मबन्धवित्यब्रवीत् ॥
उञः ॥ १७ ॥