काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 105, कुल 828 में से
संदर्भ में पढ़ें६८ ॥ काशिका ॥ २ ॥ २ ॥
विशिष्टलिङ्गस्येदं ग्रहणम् । अर्द्धमित्येतद् नपुंसकमेकदेशिनैकाधिकरणेन सम-
स्यते, तत्पुरुषश्च समासो भवति । षष्ठीसमासापवादोयं योगः । अर्द्धं पिप्प-
ल्याः, अर्द्धपिप्पली । अर्द्धकोशातकी । नपुंसकमिति किम् । यामार्द्धः । नग-
रार्द्धः । एकदेशिनेत्येव । अर्द्धं पशोर्देवदत्तस्य । देवदत्तेन सह समासो न भव-
ति । एकाधिकरणइत्येव । अर्द्धं पिप्पलीनाम् ॥
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ॥ ३ ॥
एकदेशिनैकाधिकरणइति वर्तते । षष्ठीसमासापवादोयं योगः । अन्यतर-
स्यांग्रहणात् सोपि भवति । पूरणेति प्रतिषेधश्चात एवान्यतरस्यांग्रहणसाम-
र्थ्यान्न प्रवर्तते । द्वितीयादीनि शब्दरूपाणि एकदेशिनैकाधिकरणेन सहान्यत-
रस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति । द्वितीयं भिक्षायाः, द्वितीय-
भिक्षा । षष्ठीसमासपक्षे भिक्षाद्वितीयं वा । तृतीयं भिक्षायाः, तृतीयभिक्षा ।
भिक्षातृतीयं वा । चतुर्थं भिक्षायाः, चतुर्थभिक्षा । भिक्षाचतुर्थं वा । तुर्यं
भिक्षायाः, तुर्यभिक्षा । भिक्षातुर्यं वा । तुरीयशब्दस्यापीष्यते ॥ तुरीयं भिक्षायाः,
तुरीयभिक्षा । भिक्षातुरीयं वा * । एकदेशिनेत्येव । द्वितीयं भिक्षाया भिक्षुकस्य ।
एकाधिकरणत्येव । द्वितीयं भिक्षाणाम् ॥
प्राप्तापन्ने च द्वितीया ॥ ४ ॥
एकदेशिनैकाधिकरणइति निवृत्तम् । द्वितीयासमासे प्राप्ते वचनमिदम् ।
विधानसामर्थ्यात्सोपि भवति । प्राप्त आपन्न इत्येतौ द्वितीयान्तेन सह सम-
स्येते, तत्पुरुषश्च समासो भवति । प्राप्तो जीविकां, प्राप्तजीविकः । जीविका-
प्राप्त इति वा । आपन्नो जीविकाम्, आपन्नजीविकः । जीविकापन्न इति वा ॥
कालाः परिमाणिना ॥ ५ ॥
परिमाणमस्यास्तीति परिमाणी तद्वाचिना सुबन्तेन सह सामर्थ्यात्परि-
माणवचनाः कालशब्दाः समस्यन्ते, तत्पुरुषश्च समासो भवति । षष्ठीसमासविषये
योगारम्भः†। मासो जातस्य, मासजातः । संवत्सरजातः । द्व्यहजातः । त्र्यहजातः ॥
नञ् ॥ ६ ॥
नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । न
ब्राह्मणो, ऽब्राह्मणः । अवृषलः ॥ नञो नलोपस्तिङि क्षेपे ॥ * ॥ अपचसि
त्वं जाल्म‡॥
ईषदकृता ॥ ७ ॥
- तुरीयशब्दस्येत्यारभ्य भिक्षातुरीयं वेत्यन्तः पाठो बहुषु पुस्तकेषु नोपलभ्यते ।
† षष्ठीसमासापवादो ऽयं योगः इति पा० ३ ।
‡ नञो नलोपेत्यारभ्य जाल्मेत्यन्तः पाठो बहुषु पुस्तकेषु नोपलभ्यते ।