कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 62, कुल 172 में से
संदर्भ में पढ़ें५४ कर्पूरमञ्जरी
मुणाली बाणाली जलइ अ जलद्धा तणुलदा
वरिठ्ठा जं दिट्ठा कमलवअणा सा सुणअणा ॥ ११ ॥
राजा—वअस्स ! तुमं पि थोएण चंदणरसेण समालिहिज्जसि ।
ता कहेसु तग्गदं किं पि वुत्तंतं । अध अंतेउरे णइअ देवीए किं किदं
तिस्सा ?
विदूषकः—विअक्खणे ! किं किदं ?
विचक्षणा—देव ! मंडिदा टिक्किदा भूसिदा तोसिदा अ ।
राजा—कधं विअ ?
विचक्षणा—
घणमुव्वट्टिदमंगं कुंकुमरसपंकपिंजरं तिस्सा ।
मृणाली बाणाली ज्वलति च जलाद्री तनुलता
वरिष्ठा यदृष्टा कमलवदना सा सुनयना ॥
क्षते क्षार इवेत्यर्थः; तस्यात्यन्तदुःसहत्वात् । 'रजनिवदनाः' इत्यनेन तेषामति-
शीतत्वं व्यक्तम्, देहे तपन्ना इवेत्यर्थः; अत्यन्तदाहकत्वात् । बाणालीवेत्यर्थ ;
अत्यन्तखेदप्रदत्वात् । अत्रोपमोत्प्रेक्षारूपकादयोऽर्थालंकाराः । छेके लाटानुप्रासा-
दयश्च शब्दालंकारा ऊह्याः । तल्लक्षणं चोक्तं प्राक् ।
राजा—
वयस्य ! तत् त्वमपि स्तोकेन चन्दनरसेन समालभ्यसे । तत्कथय तद्गतं
किमपि वृत्तान्तम् । अधान्तःपुरे नीत्वा देव्या किं कृतं तस्याः ?
विदूषकः—
विचक्षणे ! किं कृतम् ?
विचक्षणा—
देव ! मण्डिता तिलकिता भूषिता तोषिता च ।
राजा—
कथमिव ?
विचक्षणा—
घनमुद्वर्तितमङ्गं कुङ्कुमरसपङ्कपिञ्जरं तस्याः ।