सामग्री पर जाएँ
सर्वकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 33, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 33

२० कर्पूरमञ्जरी :
विदूषकः—कथं पंजरगदा सारि व कुरुकुराअंती चिट्ठसि ! ण
किं पि जाणासि । ता पिअवअस्सस्स देवी पुरदो पढिस्सं । जदो
ण कत्थूरिआ कुग्गामे वणे वा विक्कीणीअदि, णेंदं सुवण्णं कसवट्टिअं
विणा कसीअदि ।
राजा—पिअवअस्स ! ता पढ । सुणीअदु ।
( विदूषकः पठति । )
फुल्लुत्करं कलमकूरसमं वहंति
जे सिंधुवारविड़वा मह वल्लहा ते ।
जे गालिअस्स महिसिदहिणो सरिच्छा
ते किं च मुद्धविअहच्छपसूनपुंजा ॥ १९ ॥
विदूषकः—
त्वं पुनः पञ्जरगता सारिकेव कुरकुरायमाणा तिष्ठसि ! न किमपि जानासि ।
तत्प्रियवयस्यस्य देव्याः पुरतः पठिष्यामि । यतो न कस्तूरिका कुग्रामे वने वा
विक्रीयते, न सुवर्णं कषपट्टिकां विना कष्यते ।
ईदृशविद्याग्रहणायोग्याया अज्ञायास्तव सन्निधौ न पठिष्यामीति भावः ।
राजा—
प्रियवयस्य ! तत्पठ । श्रूयताम् ।
अस्माभिरिति शेषः ।
फुल्ल इति ।
पुष्पोत्करं कलमकूरसमं वहन्ति
ये सिन्धुवारविटपा मम वल्लभास्ते ।
ये गालितस्य महिषीदध्नः सदृशा-
स्ते किं च मुग्धविकचच्छदप्रसूनपुञ्जाः ॥
कूर ओदनः । सिन्धुवारस्तरुभेदः । 'मम वल्लभा' इत्यनेन स्वस्य कूरभक्ष-
णुकत्वं व्यज्यते ।