कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 121, कुल 172 में से
संदर्भ में पढ़ेंचतुर्थं जवनिकान्तरम् ११५
विदूषकः—एवं णेदं । ण हु मअलंछणमंतरेण अण्णो मिअं-
कमणिपुत्तलिअं पञ्जरावेदि । ण हु सरजसमीरमंतरेण सेहालिआकुसु-
म्मुक्करं विकासेदि ।
( ततः प्रविशति भैरवानन्दः । )
भैरवानन्दः—इअं सा वडतरुमूले णिम्मिणस्स सुरंगदुआरस्स
धाणे चामुंडा । ( हस्तेन प्रणम्य पठति । )
कप्पंतकेलिभवणे फालस्स पुरोऽसुराण रुहिरसुरं ।
जयइ पिवंती चंडी परमेट्ठिकपालचसएण ॥ १८ ॥
प्रविश्योपविश्य ।) अज्ज विण णिग्गच्छदि सुरंगदुवारेण कप्पूरमंजरी ।
( ततः प्रविशति सुरंगोद्घाटितकेन कर्पूरमञ्जरी । )
कर्पूरमञ्जरी—भअवं । पणमिज्जसि ।
भैरवानन्दः—उइदं वरं लहेसु । इह ज्जेव उपविस ।
( कर्पूरमञ्जरी तथा करोति ।)
विदूषकः—
एवमेतत् । न खलु मृगलाञ्छनमन्तरेणान्यो मृगाङ्कमणिपुत्तलीं प्रस्वेदयति ।
न खलु शरत्समीरमन्तरेण शेफालिकाकुसुमोत्करं विकासयति ।
भैरवानन्दः—
इयं सा वटतरुमूले निर्मितस्य सुरङ्गाद्वारस्य विधाने चामुण्डा ।
कल्पान्तकेलिभवने कालस्य पुरान्तकरुधिरसुराम् ।
जयति पिबन्ती चण्डी परमेष्ठिकपालचषकेण ॥
अद्यापि न निर्गच्छति सुरङ्गाद्वारेण कर्पूरमञ्जरी ।
कर्पूरमञ्जरी—
भगवन् ! प्रणम्यते ।
भैरवानन्दः—
उचितं वरं लभस्व । इहैवोपविश ।
१ पुरान्तकरुधिरसुरं' इति टीकादृष्टः पाठः ।