कामिक आगम: पूर्व भाग (अष्टाविंशति मूल शैव आगमों का प्रथम एवं सर्वोच्च आगम महाकोश)
Kamika Agama: Purva Pada (Primary Shaiva Agama)
सद्योजात शिवमुखोद्भूत (सम्पादक: सी. स्वामीनाथ शिवचार्य) द्वारा
पृष्ठ 1035, कुल 1174 में से
संदर्भ में पढ़ें६८ प्रतिमा प्रतिष्ठा विधिः
68 pratimā pratiṣṭhā vidhiḥ
68 Directions for Installation of the Images
प्रतिमानां प्रतिष्ठां तु प्रवक्ष्यामि समासतः।
द्रव्यसंग्रहणं पूर्वं बिम्बनिर्माणं एव च॥ १
पश्चान्मण्डप निर्माणं रत्नन्यासं अतः परम्।
नयनोन्मीलनं पश्चाद्बेरशुद्धिरनन्तरम्॥ २
ग्राम प्रदक्षिणं पश्चाज्जलवेशोऽष्टमं भवेत्।
मण्डपालङ्कृतिः पश्चाद्वास्तुहोमं अतः परम्॥ ३
शय्याकॢप्तिस्ततः प्रोक्ता प्रतिमास्थापनं ततः।
ततः कौतुकबन्धस्स्याच्छयनारोहणं पुनः॥ ४
कुम्भसंस्थापनं पश्चादर्पणं तदनन्तरम्।
ततो मूर्त्यादि विन्यासो होमकार्यमनन्तरम्॥ ५
दक्षिणादानमन्ते स्यान्मन्त्रन्यासं अतः परम्।
अतः परं च स्नपनं अर्चनं स्यादतः परम्॥ ६
द्वाविंशतिः क्रिया प्रोक्तास्तासां लक्षणं उच्यते।
pratimānāṁ pratiṣṭhāṁ tu pravakṣyāmi samāsataḥ|
dravyasaṁgrahaṇaṁ pūrvaṁ bimbanirmāṇaṁ eva ca|| 1
paścānmaṇḍapa nirmāṇaṁ ratnanyāsaṁ ataḥ param|
nayanonmīlanaṁ paścādberaśuddhiranantaram|| 2
grāma pradakṣiṇaṁ paścājjalaveśo'ṣṭamaṁ bhavet|
maṇḍapālaṅkṛtiḥ paścādvāstuhomaṁ ataḥ param|| 3
śayyākḷptistataḥ proktā pratimāsthāpanaṁ tataḥ|