कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
पृष्ठ 5, कुल 353 में से
संदर्भ में पढ़ेंश्रीश्रीहरिः शरणम् ।
द्वितीयसंस्करणोपसंहारः ।
विज्ञापयाम्येतद् विशेषशास्त्ररसज्ञमहोदयान्, यद् बहुवर्षेभ्यः पूर्व-
मुम्बईस्थनिर्णयसागरयन्त्रालयाध्यक्षेण स्वीययन्त्रालये कामशास्त्रे शेष-
स्यार्षग्रन्थस्य वात्स्यायनसूत्रस्य पुस्तकं कामतन्त्ररहस्यमधिजिगमि-
षूणामतिभूमिं गताभिस्तद्ग्रन्थदर्शनोत्कण्ठाभिर्विलम्बमसहमानेनेव व्यु-
त्क्रान्तप्रक्षिप्तपरिष्कृतताऽऽदिदोषदूषितमप्रदर्शितसूत्रसंख्याविभागं ता-
दृशैव षष्ठाधिकरणान्तमुपलब्धया यशोधरकृतया जयमङ्गलाख्यया टी-
कया सह मुद्रयित्वाऽनीयत प्रकाशम् ,
परं तु निर्द्दिष्टदोषैरेतद्ग्रन्थपर्यालोचने पानकरसास्वादे सिकतारे-
णुभिरिवारुन्तुदतां सहृदयधुरीणानामवगम्य; यथाशक्तेनां प्रतिचिकी-
र्षुणा चौखम्भासंस्कृतसीरीजाध्यक्षेण मदीयजनकेन बाबूहरिदासगुप्तेन
शोधकस्य प्राचीनं प्रायः शुद्धं सटीकं कामसूत्रपुस्तकमेकं, द्वितीयं च
विविधग्रन्थसंग्रहरसिककाशीस्थबाबूश्रीयुक्तगोबिन्ददासमहोदयस्य स-
टीकं शुद्धं तत्पुस्तकमवलम्बय्य; सूत्राणामङ्काँश्च यथास्थानं समावेशय्य;
सुमुद्रणाय पुनरेतच्छोधनं प्रारम्भिंतम् ,
टीकाशून्यं च सप्तममौपनिषदिकमधिकरणं बहुयत्नैरासादितेन
तट्टीकाऽवशिष्टांशेन संयोज्य प्राचीकटं, तथाऽपि ग्रन्थमात्रमुद्रणमे-
वावसितमियत्समयावधि, विशिष्टा भूमिकाऽऽदयः परिशिष्टाश्चान्येऽधि-
ग्रन्थपर्यालोचनवेलमुपकारकाः विशेषसूच्यादयो विषया नूनमवश्य-
सन्धेयं परिशिष्टत्वेन समाविवेशयिषितव्यं सन्धाय; सन्धाप्य; च ना-
तिचिरायैव प्रकाशयिष्यन्ते; तावच्चिररात्रायोत्पन्नचरीदमीया बलवती
दिदृक्षा दर्शकैः फलवती विधेया, मानुष्यकनान्तरीयकानवधानजनिता-
शुद्धयश्चात्रत्यानिजतिशिक्षागुणगरिम्णो मर्षणीया इति ।
चौखम्भासंस्कृतसीरीजाध्यक्षौ—
हरिदासगुप्तजयकृष्णदासगुप्तौ—