सामग्री पर जाएँ
सर्वकोश
कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)

Kamasutram of Vatsyayana with Hindi Commentary

महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा

DevanagariSanskritpublished353 पृष्ठ

पृष्ठ 31, कुल 353 में से

संदर्भ में पढ़ें
पृष्ठ 31

२ अध्याये ] त्रिवर्गप्रतिपत्तिप्रकरणम् । १९

तेर्दर्शनाद्, वर्णाश्रमाचारस्थितिलक्षणत्वाच्च लोकयात्रायाः, हस्त-
गतस्य च बीजस्य भविष्यतः सस्यस्यार्थे त्यागदर्शनात्, चरेद्धर्मा-
निति वात्स्यायनः ॥ ३१ ॥

शास्त्रस्येति। धर्मस्यालौकिकत्वात्तदभिधायकं शास्त्रं युक्तम्, तच्छा-
स्त्रं पौरुषेयमपौरुषेयं च, तत्र पूर्वमभिशङ्कनीयं-“किमिदं सत्यं मिथ्या
वे”ति पुरुषा हि रागादिभिरविद्यया चोपप्लुता वितथमपि ब्रुवन्ति, अपौ-
रुषेयं च वेदाख्यं पुरुषसम्बन्धाभावाददुष्टमनभिशङ्कनीयम्, यथोक्तम्-

'दोषाः सन्ति न सन्तीति पौरुषेयस्य युज्यते ।
वेदे कर्तुरभावात्तु दोषशङ्कैव नास्ति नः ॥' इति,

अपौरुषेयत्वसाधनमन्य(१)त्रोक्तमिति नेहोपन्यस्तं ग्रन्थगौरवभया-
त्, तस्मादनभिशङ्क्यत्वात् तच्चोदितेऽर्थे न संशयीतेति चरेद् धर्मानिति
सम्बन्धः, तेन संशयितत्वादित्येतदसिद्धम् अभिचारः=हिंसाऽऽत्मकं कर्म,
अनुव्याहारः=शान्तिकपौष्टिकं, तयोश्चोदितयोः, अभिचरञ्श्येनेन यजेते-
त्यादिना यत्र प्रयुज्यते तत्र हिंसाशान्तिपुष्टिफलदर्शनाच्छेषस्याप्यग्निहो-
त्रादेः स्वर्गादि फलं भविष्यतीति चरेद्धर्मान्, न ह्यपौरुषेयत्वेनाभिन्नयोर्वि-
तथावितथत्वभेदो युज्यते वितथत्वे चेतरस्यापि वितथत्वप्रसङ्गात्,
अदृष्टसाधनमाह-नक्षत्रेति। नक्षत्राण्यश्विन्यादीनि चन्द्रसूर्यौ प्रसिद्धौ
ताराग्रहा अङ्गारकादयः पञ्च तेषां चक्रमिव चक्रं संनिवेशविशेषो द्वादशराशिविभक्तं तस्य; लोकार्थं नात्मार्थम्, बुद्धिपूर्वकमिवेति । बुद्धिपूर्व-
कस्येव, यथा कश्चित्पुरुषो बुद्धिपूर्वं प्रवर्तते तद्वदेवैते सूर्यादयो नक्ष-
त्रेण युज्यमाना अन्यथाऽन्यथा प्रवर्तमाना दृश्यन्ते न च तथैवेतीवार्थः,
तथा ह्येषां न 'लोकस्येदं करिष्यामः'इति प्रवृत्तिः, सा च शास्त्रान्तरे ब-
हुप्रकारोक्ता, दर्शनादितिवचनात्प्रत्यक्षप्रमाणसिद्धेति दर्शयति, तस्यां च
प्रवृत्तौ लोकस्य शुभाशुभात्मकं फलं द्विविधम्-साधारणमसाधा-
रणं च, तत्र साधारणं सुभिक्षदुर्भिक्षादि तच्च ग्रहवारे द्रष्टव्यम्, असा-
धारणं तु प्रतिसत्त्वं प्रतिनियतं लाभालाभसुखदुःखादि, तच्च जातके
द्रष्टव्यम्, सैव द्विधा प्रवृत्तिः कारणान्तरमदृष्टं गमयति, तच्च लोकस्य
शुभाशुभात्मकर्मणः; अन्यथैषामेकरूपाणां कारणान्तरनिरपेक्षाणां सदा-
प्रवृत्तिरप्रवृत्तिर्वा स्यात्, कालानियम इति चेत् ? सोऽपि कारणनिरपेक्षः


( १ ) वाचा विरूपनित्ययेति श्रुतिः । अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवेति स्मृतिश्च ।