सामग्री पर जाएँ
सर्वकोश
कल्कि पुराण (संस्कृत मूल एवं हिन्दी अनुवाद)

कल्कि पुराण (संस्कृत मूल एवं हिन्दी अनुवाद)

Kalki Purana with Sanskrit Original & Hindi Translation

महर्षि कृष्णद्वैपायन वेदव्यास द्वारा

DevanagariHindipublished259 पृष्ठ

पृष्ठ 4, कुल 259 में से

संदर्भ में पढ़ें
पृष्ठ 4

कल्किपुराण
प्रथम अंश
प्रथम-अध्याय
सेन्द्रा देवगणा मुनीश्वरजना लोकाः सपांलाः सदा ।
स्व स्व कर्म सुसिद्धये प्रतिदिन भक्त्या भजन्त्युत्तमाः ।
तं विघ्नेशमनन्तमच्युतमजं सर्वज्ञसर्वाश्रयं ।
वन्दे वैदिकतान्त्रिकादिविविधैः शास्त्रैः पुरोध्वन्दितम्॥१॥
नारायणं नमस्कृत्य नरञ्चैव नरोत्तमम् ।
देवीं सरस्वतीञ्चैव ततो जयमुदीरयेत् ॥ २ ॥
यद्दोर्दण्डकरालसर्पकवलज्वालाज्वलद्विग्रहाः
नेतुः सत्करवालदण्डदलिता भूपाःक्षितिक्षोभकाः ।
शश्वत् सैन्धववाहनो द्विजजनिः कल्किः परात्मा हरिः
पायात्सत्ययुगादिकृत्स भगवान्धर्मप्रवृत्तिप्रियः ॥ ३ ॥
इति सूतवचः श्रुत्वा नैमिषारण्यवासिनः ।
शौनकाद्या महाभागाः पप्रच्छुस्तं कथामिमाम् ॥ ४ ॥
हे सूत! सर्वधर्मज्ञ ! लोमहर्षणपुत्रक ! ।
त्रिकालज्ञ ! पुराणज्ञ ! वद भागवतीं कथास् ॥ ५ ॥
क कलिः ? कुत्र वा जातो जगतामीश्वरं प्रभुः ।
कथ वा नित्य धर्म्मस्य विनाश कलिना कृतः ? ॥ ६ ॥
इति तेषा वचः श्रुत्वा सूतो ध्यात्वा हरिं प्रभुम् ।
सहर्षपुलकोद्भिन्न सर्वाङ्गः प्राह तान्मुनीन् ॥ ७ ॥