कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 538, कुल 709 में से
संदर्भ में पढ़ेंमहाश्वेतोदन्तोपसंहारवर्णना ७६ ] चन्द्रकला-विद्योतिनीसहिता । ४६६
तन्तं^१ तमेवानुसरन्नन्तरिक्षमुदगात् । पश्यन्त्या एव च मे सर्व एव ते तारागणमध्यम्^२ अविशन् ।
मम तु तेन द्वितीयेनेव प्रियतममरणेन कपिञ्जलगमनेन द्विगुणीकृतशोकायाः सुतरा-
मदीर्यत हृदयम् । किंकर्त्तव्यतामूढा च तरलिका मब्रवम्^३— 'अयि ! जानासि ?^४ कथय
किमेतदिति । सा तु तदवलोक्य स्त्रीस्वभावकातरतया तस्मिन् क्षणे शोकाभिभाविना भये-
नाभिभूता वेपमानाङ्गयष्टिर्मम मरणशङ्कया च वराकी विषण्णहृदया सकरुणमवादीत्— भर्तृ-
दारिके ! न जानामि पापकारिणी, किन्तु महदिदमाश्चर्य्यम्, अमानुषाकृतिरेष पुरुषः, समा-
श्वासिता चानेन गच्छता सानुकम्पं पित्रेव भर्तृदारिका । प्रायेण चैवंविधा दिव्याः स्वप्नेऽप्य-
विसंवादिन्यो भवन्त्या^५कृतयः किमुत साक्षात्^७ । न चाल्पमपि, विचारयन्ती कारणमस्य मि-
थ्याभिधाने पश्यामि, अतो युक्तं विचार्योत्मानमस्मात्^८ प्राणपरित्याग-व्यवसायान्निवर्त्तयितुम्,
करं कटिदेशं बध्नन् बन्धनं कुर्वन् । तमेव शशिमण्डलविनिर्गतपुरुषमेव अनुसरन् अनुगच्छन् अन्तरि-
क्षम् आकाशम् । पश्यन्त्या अवलोकयन्त्या एव मे अवलोकयन्तीमेव मामनादृत्येत्यर्थः । इहानादरे षष्ठी ।
ते पुरुषपुण्डरीककपिञ्जलाः तारागणमध्यं नक्षत्रवृन्दमध्यम् अविशन् प्रवेशं चक्रुः ।
ममेति । तेन कपिञ्जलगमनेन द्वितीयेन अपरेण प्रियतममरणेन वक्ष्यमाणपरतेनेव, सर्वथा नैराश्या-
दित्याशयः । सुतरां नितान्तम् । अदीर्यत विदीर्णं बभूव । जानासि अवबुध्यसे इति काकुः, जानासि कि-
मित्यर्थः । कथय निवेदय ।
सेति । वराकी दीना, सा तरलिका, तत् तेषां गमनम् । स्त्रीस्वभावकातरतया नारीप्रकृतिमभीरुतया
शोकाभिभाविना शोकविरुद्धिना शोकात् प्रबलेनेत्यर्थः, भयेन त्रासेन अभिभूता पराजिता वेपमाना कम्प-
माना अङ्गयष्टिः । विषण्णहृदया खेदखिन्नचित्ता ।
भर्त्रेति । समानुषाकृतिः दिव्याकृतिः । सानुकम्पं सदयम् । समाश्वासिता परितोषमुत्पादिता ।
एवंविधा दिव्याः स्वर्गीया आकृतयो मूर्त्तयः स्वप्नेऽपि स्वप्नावस्थायामपि प्रायेण बाहुल्येन अविसंवादिन्यः
अव्यभिचारिण्यो भवन्ति नासत्यं ब्रुवत इत्याशयः ।
ननु यद्यसत्यं ब्रूवीत तदा किमित्यत आह—नचेति । विचारयन्ती विमर्शं कुर्वन्ती सती, अस्य
पुरुषस्य मिथ्याभिधाने असत्यभाषणे अल्पं स्तोकमपि कारणं हेतुं न पश्यामि नावलोकयामि । प्राणपरि-
त्यागस्य असुपरिसृञ्जनरूपस्य व्यवसाय उद्योगस्तस्मात्, आत्मानं मनः निवर्त्तयितुं युक्तं न्याय्यम् ।
इदं 'न परित्याज्यास्त्वया प्राणा' इत्यादिकम् अस्य वचनम्, आश्वासस्य स्थानं हेतुरित्यर्थः ।
मेरे मित्रको लेकर तुम कहाँ भागे जा रहे हो?' इस प्रकार कहकर क्रुद्ध हो ऊंचा मुखकर, वेगसे अपने उत्तरीय-
वल्कळद्वारा कटिदेशमें बन्धन (कमरमें फेंटा) बांध, उस उड़ते हुए पुरुषका अनुसरण करते-करते आकाशमें उड़
गया, और मेरे देखते-देखते ही वे सभी तारागणोंके मध्यमें प्रवेश कर गये ।
परन्तु द्वितीय प्रियतमके मृत्युके समान उस कपिञ्जलके जानेसे मेरा शोक द्विगुणित बढ़ गया और उससे
मेरा हृदय अत्यन्त विदीर्ण हो (फट) गया। उस समय किंकर्त्तव्य-विमूढ़ होकर मैंने तरलिकासे कहा-'अरी, तू
नहीं जानती है, —कहो यह क्या हुआ ? परन्तु वह इस घटनाको देखकर, स्त्री-स्वभावसे कातर-उस समय
शोकसे भी अधिक हुए भयसे अभिभूत हुई-कंपमान शरीर-यष्टिवाली, मेरे मर जानेकी आशङ्कासे खिन्न हृदय हुई,
शोकके साथ बोली-'राजकन्ये ! मैं पापिनी इस घटनाके सम्बन्धमें कुछ भी नहीं जानती, किन्तु यह बहुत ही
आश्चर्य हो गया ! उस व्यक्तिकी आकृति अलौकिक थी और उस समय वह जाते-जाते पिताके समान दयाके साथ
आपको आश्वासन दिया था। प्रायः इस प्रकारके दिव्य पुरुष स्वप्नमें भी मिथ्या नहीं कहते हैं यदि साक्षात् कहें
तो कहना ही क्या है ? मैं विचार कर इसके मिथ्या कहनेमें थोड़ासा भी कारण नहीं देखती हूँ, इसलिए विचार
कर आपको भी इस प्राण-परित्यागके उद्यमसे मनको निवृत्त करना ही उचित है, विशेषतः इस अवस्था में उसका
१. ग्चोत्तानन्दम् ।
२. तारागणाधिगमध्यम् ।
३. अब्रुवन् ।
४. न जानासि ।
५. क्वचिद् 'कदय' इति पदं नोपलभ्यते ।
६. अत्र 'भारतयः' इत्यापेकः पाठः क्वचित् समुपनम्यते ।
७. साक्षात्कृताः ।
८. युक्तविचारमात्मानम् ।