सामग्री पर जाएँ
सर्वकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 437, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 437

३६८ | कादम्बरी- | [कथायाम्-

प्रविष्टां हरस्य, हारलतयेव^१ प्राप्तकण्ठयोगया ग्रहपङ्क्त्येव ध्रुवप्रतिबद्धया क्रुद्धयेव रक्तै^२-मुखव-र्णया मत्तयेव घूर्णित-मन्द^३-तारया उन्मत्तयेव अनेकै^४कृततालया मीमांसयेव अनेकभावनाव-विद्धया गीत्या देवं विरूपाक्षमुपवीणयन्तीम्^५, अतिमधुरगीतावकृष्टैर्ध्यानमिवाभ्यस्यद्भिर्निश्च-लकर्णपुटैर्मृग-वराह-वानर-वारण-शरभ-सिंहप्रभृतिभिर्वनचरैराबद्धमण्डलैराकर्ण्यमानगीतानु-विद्धविपञ्ची-घोषाम्, अमरापगामिव नभसोऽवतीर्णाम्, दीक्षितवाचमिवाप्राकृताम्,

हृदयं यस्यास्तस्या भावस्तया कारणेन, अतिप्रवलभक्त्या अत्युत्कृष्टाराधनेन आराधितस्य सेवितस्य हरस्य महेशस्य हृदयं चित्तं प्रविष्टां प्रवेशं कृतवतीमिव विद्यमानाम् । क्रियोत्प्रेक्षा ।

हरेति । हारलतयेव मुक्तामालयेव प्राप्तकण्ठयोगया लब्धगलसम्बन्धया, पक्षद्वयेऽपि तुल्यमिदम् । ग्रहाणां सूर्यादीनां पङ्क्त्या वीथ्येव, ध्रुवेण गानाङ्गविशेषेण प्रतिवद्धया नियमितया, पक्षे तु ध्रुवाभ्यां तत्संज्ञ-कतारकाभ्यां प्रतिवद्धया संयतया । गानाङ्गध्रुवस्वरूपमभिहितं सङ्गीतनारायणे—

'उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चमः स्मृतः।
कनिष्ठश्च चतुर्भिः स्याद् ध्रुवकोऽयं मयोदितः ॥'

ग्रहमण्डलस्य ध्रुवतद्द्वययोर्बन्धन-मभिहितं ज्योतिषे—

'भचक्रं ध्रुवयोध्बद्धमाक्षिप्तं प्रवहणानिलैः ।
पर्येट्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥'

क्रुद्धया कुपितया स्त्रिया योषित्तेव, रक्ताः श्रीरागादिसहिता मुखवर्णा वदनोच्चारितान्यक्षराणि यस्यां तया, पक्षे तु रक्तस्ताम्रो मुखवर्णो यस्यास्तया । मत्तया सुरादिपानाज्जातमदया स्त्रियेव, घूर्णितः मण्डपिकायां समन्तात्प्रसृतः मन्दो मृदुः तारो दीर्घश्च स्वरो यस्यास्तया, पक्षे तु घूर्णिते मदोद्रेकाच्चञ्चले मन्दे अलसे तारे कनीनिकायुगलं यस्यास्तया । उन्मत्तया उन्मादवायुग्रस्तया स्त्रियेव, अनेके बहवः कृताः विहिताः तालाः कालक्रियामानरूपाः करतलध्वनयश्च यस्यां यया च तया । मीमांसया जैमिनिकृत-पूर्वमीमांसा ( विचार ) शास्त्रेणेव, अनेकाभिः अनेकप्रकाराभिः भावनाभिर्मूच्छ्‌र्छनाभिः अनुविद्धया युष्टया, पक्षे-अनेकतया द्विपकारया भावनया भावयितुर्व्यापारेण तत्प्रतिपादनेनेत्यर्थः, अनुविद्धया स्यूतया । श्रीरागादिलक्षणमुक्तं संगीत रत्नाकारे । मीमांसाप्रसिद्धा भावना द्विविधा-शाब्दी आर्थी चात्र ज्ञेया । तथा च एवंभूतया गीत्या गानेन, विरूपाणि अग्निसूर्यचन्द्ररूपया वपुष्याणि अक्षीणि नयनानि यस्य तं तादृशं देवं महादेवम् उपवीणयन्तीं वल्लक्या उपगायन्तीम् । पूर्णा मालोपमा ।

अतिमधुरेति । अतिमधुरेण कर्णसुखदेन गीतेन गानेन अवकृष्टैराकृष्य प्रापितैः, निश्चलकर्णपुटैः स्तिमित-कर्णयुगलैः, अत एव ध्यानं चित्तवृत्तिनिरोधं अभ्यस्यद्भिः शिक्षमाणैरिव विद्यमानैः, आबद्धं रचितं मण्डलं वलयाकारेणावस्थानं यैस्तैः, मृगा हरिणाः वराहाः शूकराः वानरा गोलाङ्गूलाः कपर्यश्च वारणा हस्तिनः शरभाः सिंहघातिनोऽष्टपदा जन्तुविशेषाः, एते प्रभृतय आद्या येषां तैः, वनचरैः अरण्यचारिभिः आकर्ण्यमानः श्रूयमाणः गीतानुविद्धः गानसंयुक्तः विपञ्चीघोषः सप्ततन्त्रीयुक्तवीणा निनादो यस्यास्ताम् । क्रियोत्प्रेक्षा ।

अमरेति । नभसः आकाशात् अवतीर्णाम् आगताम् अमरापगां मन्दाकिनीमिव विद्यमानाम् । द्रव्योत्प्रेक्षा ।

दीक्षितेति । दीक्षितस्य यागादौ नियमिनः वाचं वाक्यमिव, अप्राकृताम् अमर्त्यां दिव्याम्, पक्षे तु-


गई थी । वीणाध्वनिके साथ-साथ वह शङ्करकी स्तुतिका गान करती थी, वह गान मुक्तामय हारके समान उसके कण्ठमें संलग्न था, ग्रहपंक्ति जिस प्रकार ध्रुव नक्षत्र (तारा) संयुक्त रहती है, वह गान भी उसी प्रकार गानाङ्गध्रुव-लक्षणसे युक्त था एवं कुपित सुन्दरीके मुखका रङ्ग जिसप्रकार रक्तवर्ण होता है, उस गानमें भी उसी प्रकार मुखसे नानाविध राग-रागिणीयुक्त अक्षर उच्चारित होते थे; मदसे उन्मत्त सुन्दरी की जिसप्रकार नयनकी तारा अलस होकर घूमती रहती है, उस गानके स्वर भी उसीप्रकार कभी मन्द कभी तार होकर मण्डपिका मध्यमें विचरण करते रहते थे; उन्मत्त सुन्दरी जिसप्रकार बहुत करतल-ध्वनि करती है, उस गानमें भी उसी प्रकार बहुत ताल किये जाते थे; एवं जैमिनीप्रणीत मीमांसादर्शन जिसप्रकार शाब्दी और आर्थी नामकी द्विविध भावनासे युक्त है, वह गान भी उसीप्रकार बहुत मूर्च्छना-युक्त था। अत्यन्त मधुर गानसे आकृष्ट होकर हरिण, शूकर, वानर, हाथी, शरभ, सिंह आदि वनचर पशुगण निश्चल कर्णपुटसे मण्डल बांधकर उसके गानके साथ-साथ वीणाकी ध्वनि सुनते थे, इससे प्रतीत होता था कि मानो वे भी ध्यानका अभ्यास कर रहे हैं। और वह कन्या आकाशमें उतरी मन्दाकिनीके समान देखनेमें आती थी; यज्ञमें दीक्षित व्यक्ति जिसप्रकार प्राकृतभाषा नहीं


१. हारलेखयेव । २. रागरक्तः.... । ३. ...'पूर्णितमन्द्र'... । ४. उन्मत्तयानेक... । ५. उपवर्जयन्तीम ।