कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 420, कुल 709 में से
संदर्भ में पढ़ेंविश्रामगीतश्रवणवर्णनम् ४९ ] चन्द्रकला-विद्योतिनीसहिता । ३८१
शरप्रहारात्तुर इवोरसि निधाय नलिनीदलोत्तरीयम्, अरण्यगज इव शीकराईपुष्करोपशो-
भितकरः सरः सलिलादुदगात् । प्रत्यग्रमग्नशिशिरैश्च समृणालकैरजलकणिकाचितैः कमलि-
नीपलाशैर्लतामण्डपपरिक्षिप्ते शिलातले संस्तरम् आस्तीर्य, निधाय शिरसि पिण्डीकृतमुत्त-
रीयं न्यषदात् ।मुहूर्त्तं विश्रान्तश्च तस्य सरस उत्तरे तीरप्रदेशे समुच्चरन्तम्, उन्मुक्तकवलेन निश्चल-
श्रवणपुटेन तन्मुखीभूतेनोद्ग्रीवेणेन्द्रायुधेन प्रथममाकर्णितं श्रुतिसुभगं वीणातन्त्रीझङ्कारमिश्र-
ममानुषं गीतशब्दमशृणोत् । श्रुत्वा च 'कुतोऽत्र विगतमर्त्यसंपाते प्रदेशे गीतध्वनेः सम्भू-
तिः' इति समुपजातकौतुकः कमलिनीदलसंस्तरात् उत्थाय तामेव गीतसम्पात-सूचितां
दिशं चक्षुः प्राहिणोत् । अतिदवीयस्तया तु तस्य प्रदेशस्य प्रयत्नव्यावृतलोचनोऽपि विलोक-
उपरिवस्त्रम् उरसि वक्षःस्थले निधाय संस्थाप्य, अरण्यगज इव वन्यहस्तीव शीकरैः अम्बुकणैः आई
क्लिन्नं यत् पुष्करं कमलं तेन उपशोभितः करः पाणिः शुण्डा च यस्य स तादृशो युवराजश्चन्द्रापीडः, सरः-
सलिलात् कासारजलात् उदगात् उदतिष्ठत् । इह सर्वथाप्य एव पूर्णोपमालङ्कारः ।
प्रत्यग्रेति । क्रियेति शेषः । प्रत्यग्रम् अभिनवम् अचिरं यथा स्यात्तथा मग्नानि सङ्गितानि च
तानि, अत एव शिशिराणि शीतनानि च तैस्तादृशैः, समृणालकैः सबिसैः जलकणिकाभिः सलिलबि-
न्दुभिः चितैर्व्याप्तैः, कमलिनीपलाशैः नलिनीपत्रैः लतामण्डपपरिक्षिप्ते मण्डपाकारं प्राप्ताभिर्लताभिः परि-
वेष्टिते शिलातले कस्मिंश्चिद्विस्तीर्णप्रस्तरोर्ध्वप्रदेशे संस्तरम् आस्तरणम् आस्तीर्य प्रसार्य पातयित्वा, पिण्डी-
कृतं मूरीकृतं पिण्डतां प्रापितमित्यर्थः, उत्तरीयम् उपरितनवस्त्रं शिरसि निधाय मस्तकाधःप्रदेशे दत्त्वा
न्यषदात् सुप्तवान् ।
मुहूर्तमिति । मुहूर्तं क्षणं विश्रान्तः विहितविश्रामः सन्, तस्य सरसः पम्पासरोवरस्य उत्तरे उत्तर-
दिक्सम्बन्धिनि तीरप्रदेशे तटप्रदेशे समुच्चरन्तम् उदगच्छन्तम्, उन्मुक्तकवलेन परित्यक्तग्रासग्रासेन, निश्चले
स्थिरे श्रवणपुटे कर्णयुगलं यस्य तेन तादृशेन गीतमाधुर्यादित्याशयः । तन्मुखीभूतेन तदभिमुखीभूतेन
उद्ग्रीवेण ऊर्ध्वकन्धरेण इन्द्रायुधेन, प्रथमं पूर्वम् आकर्णितं श्रुतं श्रुतिसुभगं कर्णमनोहरं वीणातन्त्रीझङ्का-
रमिश्रं वल्लकीतन्मयीनिनादसंसृक्तम् अमानुषं दिव्यं गीतशब्दं गेयध्वनिम् अशृणोत् आकर्णयत् ।
श्रुत्वेति । श्रुत्वा निशम्य । विगतो मर्त्यानां मानवानां संपातः सञ्चारो यतस्तस्मिंस्तादृशे प्रदेशे-
ऽविजने गीतध्वनेः गीतशब्दस्य सम्भूतिरुत्पत्तिः । इति विभाव्य समुत्जातकौतुकः समुत्पन्नकौतूहलः
चन्द्रापीडः, कमलिनीदलसंस्तरात् नलिनीपत्रशयनीयाद् उत्थाय, गीतसंपातेन गेयोत्पत्त्या सूचितां
ज्ञापितां तामेव दिशं ककुभं प्रति चक्षुर्नैत्रं प्राहिणोत् प्रेषयामास ।
अतीति । तु किन्तु तस्य प्रदेशस्य पूर्वोक्तगीतस्थलस्य अतिदवीयस्तया अतिदूरत्तया प्रयत्नेन उद्यो-
मनुष्यके समान वक्षःस्थल (छाती) पर कमलनयनी वस्त्र रख कर एवं वन्य-हस्तीके समान जलबिन्दुसे आर्द्र
पुष्कर (शुण्डाग्र, कमल) से शोभित कर (शुण्ड, हाथ) सहित सरोवरके जलमेंसे बाहर निकला । उसी क्षण
डोरे लगेके कारण शीतल, मृणालसहित और जलबिन्दुओसे व्याप्त कमल-पत्रोंका आस्तरण (बिछौना) मन्दवा-
कारके लतासे वेष्टित किसी बृहद् पाषाणके ऊपरमें बिछाकर, उसके ऊपरमें, मस्तकके नीचे अपने उत्तरीय वस्त्र
(दुपट्टे) को लपेटकर रखकर वहीं शयन किया ।
इस प्रकार मुहूर्त भर विश्राम करनेके बाद उसने उस सरोवरके उत्तर तीरसे उत्थित, वीणातन्त्रीके झङ्कारसे
मिश्रित एवं श्रवण करनेमें कानोंको मधुर लगनेवाली अलौकिक गीतध्वनि सुनी । इधर इन्द्रायुधने घास चरना
छोड़कर, कानोंको निश्चलरूपसे (खड़े करके) रखकर, उत्तर दिशाकी ओर मुँह फेर, ऊँची गर्दन कर उस
गीतध्वनिको पहले सुना था । उस गीतध्वनिको सुनकर मन ही मन सोचने लगा कि—'यहाँ मनुष्योंके पादपात
नहीं हैं तब फिर कहाँ से इस गीतध्वनिकी उत्पत्ति हुई है?' इस प्रकार उसे कौतूहल उत्पन्न हुआ । उस समय
वह उस कमल-पत्रकी शय्यासे उठकर, जिस दिशासे गीतध्वनि आती थी, उसीकी ओर देखने लगा । किन्तु
वह स्थान अत्यधिक दूर था इसलिए विशेष यत्नपूर्वक आँख फेर-फेरकर देखनेसे भी उसे कुछ दिखलाई नहीं
१. निषसाद । २. क्वचित् 'संस्तरं' न विद्यते । ३. ००नटदेशिकेरेण । ४. मण्डपपरिक्षिप्तांशिलातले ।
५. संस्तरम्, प्रस्तारम् । ६. शोधन् । ७. 'श्रुत्वा च' इति पदं क्वचिन्न विद्यते । ८. समुत्पादकौतुकः !
९. ००दलसंस्तरात्, पत्रसंस्तरात् ।