जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
३७० सटीकजातकपारिजाते-
चतुष्के) यदा द्वौ ग्रहौ वीर्यवन्तौ = बलशालिनौ, स्याताम्, तदा नाशानाशफलप्रदौ सम-
तया भवतः । अर्थात् यावदशुभदौ तावदेव शुभदावपीति । अत्र चतुर्षु ग्रहेषु द्वौ बलिनौ
द्वौ बलरहितौ च तुल्यमेव शुभमशुभञ्च कुरुत इति तात्पर्यम् । चेद्यदि चतुर्षु ग्रहेषु त्रयो
ग्रहा वीर्याधिकाः स्युस्तदा स्वल्पसहोदरक्षयकरा भवन्ति । तत्र शुभफलमधिकमशुभफलं
किञ्चिदेवेति । अथ तत्र यदि स्त्रीग्रहा ( योगकारकाः) दुःस्थानगता भवेयुस्तदाऽल्पा-
नुजवृद्धिदा भवन्ति । तदानीमल्पा एव अनुजा जायन्त इत्यर्थः । तदनुजस्वाम्यंशसङ्ख्या-
नुजा इति । तस्य जातस्यानुजस्वामी (तृतीयेशः) यत्र तत्र भावे यावन्मिते नवांशे
विद्यमानः स्यात्तावन्तस्तस्यानुजा भवन्तीति ॥ १९ ॥
भ्रातृस्थानेश, भ्रातृदर्शी, भ्रातृस्थानगत और भ्रातृकारक इन चारोंमें यदि दो भी पूर्ण
बली हों तो भाइयोंकी हानि और लाभ बराबर ही करते हैं। उन चारोंमें यदि तीन बल-
वान् ग्रह हों तो थोड़े भाइयोंका संहार करते हैं और स्त्रीग्रह दुःस्थानमें हों तो थोड़े
भाइयोंकी वृद्धि करें । उसके छोटे भाईकी संख्या तृतीयेशके नवांशके तुल्य होवे ॥ १९ ॥
भूमिजे सहजस्थाने यावतां विद्यते बलम् ।
शत्रुनीचग्रहं त्यक्त्वा तावन्तः सहजाः स्मृताः ॥ २० ॥
भूमिजे = मङ्गले, सहजस्थाने = तृतीयभावे, शत्रुनीचग्रहं त्यक्त्वा = स्वशत्रुग्रहं नीचगत-
ग्रहं च विहाय यावतां = यत्सङ्ख्यकानां ग्रहाणां, फलं = अष्टकवर्गसम्बन्धि शुभफलं विद्यते ।
अत्र किलैतदुक्तं भवति । सहजभावगतो भौमो यावन्मितेभ्यो ग्रहेभ्यः शुभफलो भवति
परं शत्रुग्रहं नीचगतग्रहं त्यक्त्वेति । तावन्तः = तत्सङ्ख्यकाः, सहजाः = सोदराः, स्मृताः =
कथितास्तस्य जातस्येति ॥ २० ॥
मंगल तृतीयमें जितने ग्रहोंसे शुभफल वाला (अष्टकवर्गमें) हों, उनमें शत्रु और नीच
गत ग्रहोंको छोड़कर शेषग्रहोंके तुल्य भाई कहे ॥ २० ॥
भ्रात्रीदौ स्त्रीग्रहर्क्षस्थौ भ्रातृदौ पुंग्रहर्त्तगौ ।
सोदरेशकुजौ स्यातां भ्रातृभ्रात्रीसुखप्रदौ ॥ २१ ॥
सोदरेशकुजौ = तृतीयभावेशो मङ्गलश्च यदि स्त्रीग्रहर्क्षस्थौ = स्त्रीग्रहौ शुक्रशशिनौ,
तयोः ऋक्षाणि वृषतुलाकर्कटास्तेषु स्थितौ भवेतां तदा, भ्रात्रीदौ = भगिनीप्रदौ स्याताम्
तौ यदि पुंग्रहर्क्षगौ = पुंग्रहा भानुक्षितिजगुरुवस्तेषां राशयः = सिंह-मेष-वृश्चिक-धनुः-
मीना-स्तेषु स्थितौ तदा, भ्रातृजन्मकरौ भवेताम् । अर्थादेव तौ यदि पुरुषस्त्रीराशिगतौ
( एकः पुरुषराशिस्योऽन्यः स्त्रीराशिस्थश्च) भवेतां तदा भ्रातृभ्रात्रीसुखप्रदौ = भ्रातृभगिन्योः
सुखदायिनौ भवेतामिति ॥ २१ ॥
तृतीयेश और मंगल स्त्रीग्रहकी राशिमें हों तो बहिनको देते हैं। यदि दोनों पुरुष
ग्रहकी राशिमें हों तो भाईको देवें । ये ही दोनों ग्रह भाई और बहिनका सुख देते हैं ॥२१॥
स्त्रीहोरया वा युवतिग्रहेण युक्ते यदि भ्रातृगृहे विलग्नात् ।
सहोदरीलाभमुपैति जातः सहोदरं तत्परतोऽन्यथा चेत् ॥ २२ ॥
विलग्नात् = जन्मलग्नात्, भ्रातृगृहे = तृतीयभावे, यदि स्त्रीहोरया = चन्द्रहोरया युक्ते
(विषमराशेरपरार्द्धे, समराशेः पूर्वार्द्धे च तृतीयभाव इत्यर्थः) वा युवतिग्रहेण = स्त्रीग्रहेण
(चन्द्रेण शुक्रेण वा) युक्ते सति जातो नरः सहोदरीलाभमुपैति । सहोदरं तत्परतोऽन्यथा
चेत् । भ्रातृगृहे पुरुषहोरया युक्ते वा पुरुषग्रहेण युक्ते सति जातः सहोदरमुपैति । तत्परत
इति स्वकीयजन्मानन्तरं सहोदरीलाभः सहोदरलाभो वा वाच्य इत्यर्थः ॥ २२ ॥
यदि ३ रे भावमें चन्द्रमाकी होरा वा स्त्री ग्रह (चं. शु.) विद्यमान हो तो जातकको
orभ्रात्र्(sandhi of भ्रातुः + अनिष्ट = भ्रातुरनिष्ट! But here it'sभ्रात्रनिष्टorभ्रातुरनिष्ट? Wait, let's look at line 30: लग्नेशकुजसोत्थेशा भ्राthen is thatतwithुandर? Let's zoom into line 30: लग्नेशकुजसोत्थेशा भ्राThen the next letter:तwith aु? And on top of निis there aर्? YES! Look at नि: there is a repha on नि!! भ्रा तु र्नि ष्ट शु भ प्र दाः! WOW, look at that! भ्रातुर्निष्टशुभप्रदाः! Wait, let's re-examine line 30: भ्रा तु र्नि ष्ट शु भ प्र दाः! Yes, भ्रातुर्निष्टशुभप्रदाः` (भ्रातुः + अनिष्ट = भ्रातुरनिष्ट, or भ्रातुः + निष्ट/अनिष्ट? Wait, in line 33: "भ्रातुरनिष्टशुभप्रदाः").
Wait, in line 30,
३७२ सटीकजातकपारिजाते-
= मित्रग्रहौ, सन्तौ लग्ने, अथवा सहजभे स्थितौ भवेतां तदा सहोदराणां, विभागं = पार्थ-
क्यं ( Portition ) न आहुरायाः । ईदृग्योगे जातस्य सहोदरैः सह प्रेमविच्छेदो न
भवत्युत विपुलः प्रेमा भवतीति भावः ॥ २६ ॥
लग्नेश और तृतीयेश यदि एकत्र हों तो भाइयोंमें विशेष प्रेम हो । यदि दोनों
परस्पर दृष्टग्रह और बलवान् होकर लग्नस्थ वा तृतीयस्थ हों तो भाइयोंमें विभाग ( भेद )
नहीं होता है ॥ २६ ॥
अथ भ्रात्ररिष्टम् ।
लग्नेशाऽनुजनायकौ विबलिनावव्योऽन्यशत्रुग्रहौ
दुश्चिक्यस्थितकारको च यदि वा दुःस्थानगौ दुर्बलौ ॥
तत्पाके सहजप्रमादकलहं तन्नाशमर्थक्षयं
तत् खेटोपगकोपहेतुकलहस्नेहादि सर्वं वदेत् ॥ २७ ॥
लग्नेश-तृतीयेशौ, विबलिनौ, परस्परं शत्रुग्रहौ भवेताम् , यदि वा दुश्चिक्यस्थित-
कारकौ = तृतीयगतो ग्रहः, भ्रातृकारकश्च, दुःस्थानगौ = षडष्टव्ययगतौ, दुर्बलौ च भवेतां
'तदा, तत्पाके = योगकर्तृग्रहयोर्दशाकाले सहजप्रमादकलहं भ्रातृणां वैमनस्यात्मककटकं,
तन्नाशं = भ्रातृनाशं, अर्थक्षयं = धनहानिं वदेत् । तत्खेटोपगकोपहेतुकलहस्नेहादि सर्वं =
तत्तत्खेटनिमित्तकं कलहं प्रेमादि च सकलं ब्रूयादिति ॥ २७ ॥
यदि लग्नेश और तृतीयेश निर्बल तथा परस्पर शत्रु ग्रह हों अथवा तृतीय भावमें स्थित
और ३रे भावका कारक यदि दुष्टस्थानमें निर्बल हों तो उनकी दशामें भाइयोंमें प्रमाद तथा
कलह हो उनका नाश और धनका क्षय हो । उस ग्रहके कोपसे कलह और प्रेम कहे ॥२७॥
गुरुदृष्टेऽनुजे शुक्रे भ्रातृरक्षणतत्परः ॥
रविदृष्टे बुधे सौम्ये सुहृन्नाशकरो भवेत् ॥ २८ ॥
शुक्रे अनुजे = तृतीयभावगते तस्मिन् गुरुणा दृष्टे च जातो भ्रातृरक्षणौ तत्परो भवेत् ।
बुधे सौम्ये = तृतीयभावगते तस्मिन् रविणा दृष्टे च सुहृन्नाशकारको भवतीति ॥ २८ ॥
३येमें शुक्र हो उसे गुरु देखता हो तो भाईकी रक्षामें तत्पर रहे । तृतीयस्थ बुधको
सूर्य देखे तो मित्रका नाश करनेवाला हो ॥ २८ ॥
भ्रातृस्थतन्नायककारकाणां नीचारिदुःस्थानसमन्वितानाम् ॥
भुक्तौ दशायां धनसत्त्वनाशं पराजयं भ्रातृविनाशमाहुः ॥ २६ ॥
भ्रातृस्थः = तृतीयभावगतः, तन्नायकस्तृतीयेशः, कारको भ्रातृकारक इत्येषां त्रयाणां,
नीचे, अरौ ( शत्रुस्थाने ) दुःस्थाने ( षडष्टव्यये ) समन्वितानां सतां भुक्तौ = अन्तरे,
दशायां च धनसत्त्वनाशं = ऐश्वर्य-पराक्रमाणां नाशं, पराजयं, भ्रातृविनाशं च मनीषिण
आहुः ॥ २९ ॥
भ्रातृभावस्थ, भ्रातृभावेश और भ्रातृकारक ये यदि नीच, शत्रुराशि तथा दुःस्थानमें हों
तो उनकी दशान्तर्दशामें धन-बलका नाश, पराजय, और भाईयोंका नाश होता है ॥२९॥
लग्नेशस्फुटतो विशोध्य सहजस्थानाधिपस्य स्फुटं
तन्नक्षत्रगते शनौ तु मरणं तत्सोदराणां वदेत् ॥
तस्माद्धि स्फुटतस्तु मानगृहपे भौमे च संशोधिते
राशौ भानुसुते तथैव च चतुर्योगस्फुटांशेऽथवा ॥ ३० ॥
इदानीं शनिस्थित्या भ्रात्ररिष्टमाह-लग्नेशेति । सहजस्थानाधिपस्य = तृतीयभावेश-
स्य, स्फुटं राश्यादि, लग्नेशस्फुटतो विशोध्य शेषं कलीकृत्याष्टाविशतभक्तं तदा यन्नक्षत्रं लब्धं
स्यात्तन्नक्षत्रे गते शनौ सति, तत्सोदराणां = तत्र योगे जातस्य भ्रातॄणां मरणं वदेत् । सह०
जेशोनलग्नेशमानजन्यनक्षत्रे गतवति मन्दे जातस्य भ्रातरो न जीवन्तीति भावः । तस्मा-
दिति । तस्माद्धि स्फुटतः = लग्नेशस्पष्टराश्यादितस्तु मानगृहपं = दशमभावेशं, भौमं च
विशोध्य तस्मिन्संशोधिते राशौ, भानुसुते = शनैश्चरे याते सति तथैव फलमर्थात्सोदराणां
मरणं स्यादिति । अथवा चतुर्योगस्फुटांशे = चतुर्णां ( कारकः सहजाधीशस्तद्दर्शी तत्र
संस्थित इति चतुर्णाम् ) योगस्फुटांशे गतवति शनौ तथैव फलं वाच्यमिति ॥ ३० ॥
Notes—विद्यमाने भ्रात्ररिष्टे उक्तलक्षणलक्ष्णिते शनौ भ्रातृमरणं वाच्यमिति ॥ ३० ॥
स्पष्ट लग्नेशमेंसे स्पष्ट सहजेशको घटाकर शेष राशि आदिसे जो नक्षत्र हो उस नक्षत्रमें
शनिके होनेपर उसके सहोदर भाइयोंका मरण कहे। उसी स्पष्ट लग्नेशमें दशमेश और
मंगलको घटाकर शेष राशिमें शनि होवे या सहजेश, सहजदर्शी, सहजस्थ और सहजकारक
इन चारोंके योग करने
३७४ सटीकजातकपारिजाते-
कारके बलहीने वा क्रूरषष्ठ्यंशसंयुते ॥
शुभदृग्योगसम्बन्धे विजयी विक्रमेश्वरे ॥ ३४ ॥
विक्रमाधिपतौ = तृतीयभावेशे, स्वकीयोच्चराशौ, नाशस्थे = अष्टमभावगते, तस्मिन्पा-
पग्रहसंयुक्ते तथा चरराशौ चरराशिनवांशे च गतवति जातो युद्धात् पूर्वं सङ्ग्रामाारम्भा-
त्प्रथम एव दृढो भवेत् ।
कारके = तृतीयभावकारकग्रहे, बलहीने, अथवा क्रूरषष्ठ्यंशसंयुते, विक्रमेम्वरे=तृत्ती-
यभावपतौ, शुभदृग्योगसम्बन्धे=शुभग्रहाणां दृष्टियोगसम्बन्धेनान्विते सति जातः संग्रामे
विजयी भवेत् ॥ ३३-३४ ॥
तृतीयभावका स्वामी उच्च स्थानमें होकर अष्टममें हो, पापग्रहसे युक्त हो, चर राशिमें
चर नवांशमें हो तो युद्धके पहिले दृढ हो जाय ॥ ३३ ॥
भ्रातृ-कारक बलहीन हो, क्रूरषष्ठ्यंशकमें हो और तृतीयेश शुभग्रहसे दृष्ट युत हो तो
युद्धमें विजयी होवे ॥ ३४ ॥
शौर्याधिपे भानुयुतेऽत्र वीरश्चन्द्रान्विते मानसधैर्यजातः ॥
दुष्टो जडो भौमयुते प्रकोपी सौम्यान्विते सात्त्विकबुद्धियुक्तः ॥ ३५ ॥
जीवान्विते धीरगुणाभिरामः समस्तशास्त्रार्थविशारदः स्यात् ॥
कामातुरः शुक्रसमन्विते तु तन्मूलकोपात् कलहप्रवीणः ॥ ३६ ॥
जडो भवेद्वासरनाथसूनुयुक्तेऽतिभीतो फणिसंयुते स्यात् ॥
बहिर्गदो हृद्रदजाड्ययुक्तः केत्वन्विते मान्दियुते तथैव ॥ ३७ ॥
इदानीं सूर्यादिग्रहयुतस्य तृतीयभावेशस्य फलमाह—शौर्याधिप इत्यादिभिस्त्रिभिः श्लो-
कैः । श्लोकाः सरलार्था इत्यलम् ॥ ३५-३७ ॥
तृतीयेश सूर्यसे युक्त हो तो वीर होवे । चन्द्रमासे युक्त हो तो मानसधैर्ययुक्त हो ।
मंगलसे युक्त हो तो दुष्ट, जड़ और क्रोधी हो । बुध से युक्त हो तो सात्विक बुद्धिवाला हो ।
बृहस्पतिसे युक्त हो तो धीरगुणयुक्त और सम्पूर्णशास्त्रमें विशारद् हो । शुक्रसे युक्त हो तो
कामी और कामके ही कारण कलहमें दक्ष हो । शनिसे युक्त हो तो जड़, राहुसे युक्त हो तो
डरपोक हो । केतुसे युक्त हो तो बाहरी और हृदय रोगसे युक्त हो और गुलिकसे युक्त हो तो
भी यही फल हो ॥ ३५-३७ ॥
लग्ने गुरौ विक्रमनाथयुक्ते चतुष्पदानां प्रवदन्ति भीतिम् ॥
गवां भयं वा जलराशिलग्ने जलप्रमादं समुपैति जातः ॥ ३८ ॥
बृहस्पतिस्तृतीयेशेन सहितो यदि लग्ने भवेत्तदा चतुष्पदानां = गजाश्वादीनां भीतिं =
भयं प्रवदन्ति । वा गवां = गोवृषमहिषादीनां भयं वाच्यम् । जलराशिलग्ने ( जलराशयः
पूर्वमुक्तास्तेषामन्यतमे लग्ने ) जातो नरः जलप्रमादं = जले प्रप्लवनादिभयं समुपैति ॥ ३८ ॥
लग्नमें बृहस्पति तृतीयेशसे युक्त हो तो चतुष्पदोंका या गौवोंका भय हो । जलचर लग्न
हो तो जातक जलका प्रमादी हो याने उसे जलमें डूबनेका सन्देह रहे ॥ ३८ ॥
कुजेन युक्ते खचरे बलिष्ठे सत्त्वं बलं गानसुखं समेति ॥
कुजानुजस्यानुजराशिनाथास्त्रयो बलिष्ठा रणरङ्गशूराः ॥ ३६ ॥
तेषां त्रयाणामपहारकाले पाकेऽथवा मूलफलादिसौख्यम् ॥
श्रोत्रद्वयं भूषणसत्कथादिसम्पत्करं भ्रातृसुतादिलाभम् ॥ ४० ॥
यस्मिंस्तस्मिन् बलिष्ठे=वीर्यशालिनि खचरे कुजेन युक्ते सति जातः सत्त्वं, बलं, गानसुखं
च समेति = प्राप्नोति । अथ- कुजो भौमः, अनुजस्यतृतीयभावगतः, अनुजराशिनाथ-
तृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥ ३७५
स्तुतीयेश इति त्रयो ग्रहा यदि जन्मकाले बलिष्ठाः स्युस्तदा जातः रणरङ्गशूरः = रणरङ्गे
( सङ्ग्रामस्थले ) शूरो महाबलो भवतीति ॥ ३९ ॥
तेषां त्रयाणां ( कुजानुजराशिनाथानाम् ) ग्रहाणामपहारकाले = अन्तर्दशायामथवा
पाके = महादशाकाले मूलफलादिसौख्यमुपैति जातक इति । अन्यत्स्पष्टमित्यलम् ॥ ४० ॥
मंगलसे युक्त ग्रह बली हो तो पराक्रम, बल और गान-सुख प्राप्त हो । मंगल, तृतीयेश
और सहज राशिस्थ तीनों ग्रह बलवान् हों तो रणभूमिमें वीर हो । उन तीनोंकी अन्तर्दशा
वा दशामें मूल आदिका सुख हो, दोनों कर्णमें सत्कथाका श्रवण तथा धारणार्थ भूषण प्राप्त
हों, तथा भ्रातृ पुत्रका लाभ हो ॥ ३९-४० ॥
सात्त्विको भवति सोदराधिपे सौम्यवर्गसहिते बलान्विते ॥
नीचमूढरिपुपापराशिगे पापखेचरयुते तु साहसी ॥ ४१ ॥
सोदराधिपे = तृतीयेशे, सौम्यवर्गसहिते = शुभग्रहस्य वर्गे गतवति, बलान्विते च जातः
सात्त्विकः = सत्त्वगुणयुक्तो ( क्षमाशीलः ) भवति । तस्मिन् सोदराधिपे नीचे, अस्तमये,
पापराशिगे तथा पापग्रहेण सहिते च जातः साहसी = रजोगुणी (उद्यमकृद्) भवति ॥४१॥
बलवान् भ्रातृस्थानश शुभ वर्गमें हो तो सात्विकी हो। यदि तृतीयेश नीच, मूढ, शत्रु-
राशिमें हो पापग्रहसे युक्त हो तो साहसी होवे ॥ ४१ ॥
अथ कण्ठविचारः ।
शौर्याधिपे राहुसमेतराशिनाथान्विते राहुयुते विलग्ने ।
सर्पाद्भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगभाक् स्यात् ॥ ४२ ॥
इदानीं सर्पभय-गलरोगवाह-शौर्याधिप इति । तृतीयेशे राह्वधिष्ठितराशीशेन सहिते,
विलग्ने राहुयुते । अत्र तृतीयेशो लग्नेशेनान्वितो भवेत् राहुर्लग्नगतो भवेदिति तात्पर्यम् ।
अथवा तृतीयेशो राहाक्रान्तराशिपतिना सहितः स्याद्वा राहुर्लग्नगतः स्यादिति । तदा
जातः सर्पाद्भयं प्राप्नोति । तृतीयेशे बुधेन युक्ते सति बातो गलरोगभाक् स्यादस्मिन्योगे
जातस्य गलदेशे रोगो भवतीत्यर्थः ॥ ४२ ॥
तृतीयेश राहुस्थित राशिपतिसे युत हो, लग्न राहुयुक्त हो तो सर्पका भय होवे । तृती-
येश बुधसे युक्त हो तो जातकको गलरोग होवे ॥ ४२ ॥
पापे तृतीये गलरोगमत्र वदन्ति मान्द्यादियुते विशेषात् ॥
भौमान्विते भानुसुते बलाढ्ये तृतीयराशौ यदि कण्डुरोगम् ॥ ४३ ॥
विक्रमेशगुरू लग्नं गतौ गोभीतिसूचकौ ।
राहुणा वा फणिक्रान्तराशिपेन युतौ यदि ॥ ४४ ॥
सबुधो विक्रमपतिर्गलरोगकरो भवेत् ।
सोत्थेऽरिनीचगे पापे सोत्थाभावो विषादिभुक् ॥ ४५ ॥
बुधेन जीवेन युतेक्षिते वा तृतीयराशौ बलसंयुते च ।
तत्केन्द्रगे मन्त्रिणि बोधने वा कण्ठस्वरं चारुतरं समेति ॥ ४६ ॥
सरलार्थाश्चैते श्लोका इत्यलम् ॥ ४३-४६ ॥
पापग्रह तीसरे हो तो गलरोग होवे । गुलिक आदि उपग्रहसे युक्त हो तो विशेष गल-
रोग हो । तृतीय भावमें मङ्गल, शनि बली हों तो खुजली रोग होवे ॥
यदि राहुसे वा राहु जिस राशिमें हों उसके स्वामीसे युक्त तृतीयेश और वृहस्पति दोनों
लग्नमें हों तो बैल, गायका भय हो ॥ ४४ ॥
बुधके साथ तृतीय भावका स्वामी हो तो गलरोग उत्पन्न करे । तृतीय भावमें शत्रु
गृहका वा नीचका पापग्रह हो तो विष आदिके द्वारा भाईका अभाव होवे ॥ ४५ ॥
३७६ सटीकजातकपारिजाते-
तृतीयभवन बली हो, वा बुधसे और गुरुसे युत वा दृष्ट हो वा उसके (३रे भावके)
केन्द्रमें बृहस्पति या बुध हो तो रमणीय कण्ठस्वर होवे ॥ ४६ ॥
अथ श्रुतिभूषणविचारः ।
तृतीये सौम्यसंयुक्ते सौम्यखेचरवीक्षिते ।
तदीशे शुभसंयुक्ते कर्णयोर्भूषणं वदेत् ॥ ४७ ॥
शुक्रे तृतीये यदि मौक्तिकं तु जीवे तुलस्याभरणं वदन्ति ।
सरक्तमानीलमयं दिनेशे चन्द्रे बहु त्वाभरणं बलाढ्ये ॥ ४८ ॥
सौम्ये श्यामं कुजक्षेत्रे विचित्राभरणं वदेत् ।
तत्पतौ स्वोच्चवर्गस्थे दिव्यमाभरणं लभेत् ॥ ४९ ॥
इदानीं कर्णभूषणविचारमाह—तृतीय इत्यादिश्लोकत्रयेण । श्लोकाः किल स्पष्टार्था
इत्यपेक्षिताः ॥ ४७-४९ ॥
तृतीय भवनमें शुभग्रह हो उसे शुभग्रह देखते भी हों और तृतीयेश शुभग्रहसे युक्त
हो तो कानोंमें भूषण होवे ॥ ४७ ॥
तीसरे भावमें शुक्र हो तो मोतीका भूषण, गुरु हो तो तुलसीका आभरण, सूर्य हो तो
लाल नील भूषण, बली चन्द्रमा हो तो बहुत आभरणका होना कहते हैं । बुध हो तो
श्याम वर्णका, तृतीय भाव मङ्गलका क्षेत्र हो तो विचित्र आभरण कहे । तृतीय भावका पति
उच्च स्थानमें हो तो दिव्य भूषण प्राप्त होवे ॥ ४८-४९ ॥
अथ वस्त्रविचारः ।
मानस्थे तुरगेऽथवाऽनुजपतौ सौम्यर्क्षगे तद्युते
दिव्यं वस्त्रमपूर्वमेति सहजे सौम्ये सुवस्त्रं लभेत् ।
वीर्याढ्यौ बहुवस्त्रभूषणकरौ शुक्रानुजस्थानपौ
स्यातां धर्मकथारसश्रवणदौ जीवज्ञयुक्तेक्षितौ ॥ ५० ॥
इदानीं वस्त्रविचारमाह—मानस्थ इति । अनुजपतौ = तृतीयभावेशे, मानस्थे = दशम-
भावगते, अथवा तुरगे = तुरगोऽश्वः, अश्वशब्दः सप्तसङ्ख्याबोधक इति तुरगे = सप्तमभावे,
सौम्यर्क्षगे तद्युते = शुभग्रहान्विते शुभराशौ गतवति च जातः अपूर्वम् = अद्भुतं, दिव्यं =
मनोरमं वस्त्रमेति = प्राप्नोति । सहजे = तृतीये भावे सौम्ये = शुभग्रहे सति सुवस्त्रं लभेत् ।
शुक्रोऽनुजस्थानपतिस्तृतीयेशश्चैतौ, वीर्याढ्यौ = सबलौ स्यातां तदा बहुवस्त्रभूषणकरौ भवतः।
तौ सबलौ शुक्रानुजस्थानपौ, जीवज्ञयुक्तेक्षितौ = गुरुबुधाभ्यां सहितौ दृष्टौ वा भवेतां तदा
धर्मकथारसश्रवणदौ भवतः । अत्र योगे जातो धर्म-(पुराणेतिहासपुण्यमार्गीय) कथारसा-
स्वादनलोलुपो भवति ॥ ५० ॥
तृतीयेश दशवें या ७ वे भावमें हो सौम्य ग्रहके क्षेत्रमें हो वा शुभग्रहसे युक्त हो तो
दिव्य अपूर्व वस्त्र प्राप्त हो । तृतीय बुध हो तो सुन्दर वस्त्र मिले । शुक्र और तृतीयेश बल-
वान् हों तो बहुत वस्त्र और भूषण देवें । यदि वे दोनों बृहस्पति तथा बुधसे युक्त वा दृष्ट
हों तो धर्म कथाओंके श्रवण करानेवाले होते हैं ॥ ५० ॥
अथ धैर्यविचारः ।
धैर्यान्वितो विक्रमेशे सौम्यग्रहनवांशके ।
शुभेक्षिते शुभयुते वैशेषिकसमन्विते ॥ ५१ ॥
धैर्याधिपे पातयुतेक्षिते वा दुःस्थानगे धैर्यविनाशमेति ।
केन्द्रत्रिकोणे शुभखेटयुक्ते शुभेक्षिते वा यदि धैर्यशाली ॥ ५२ ॥
तृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥ ३७७
इदानीं जातस्य धैर्य्यविचारमाह - धैर्यान्वितौ इति श्लोकयुगलेन । तत्र श्लोकौ स्पष्टा-
र्थावित्यलम् ॥ ५१-५२ ॥
तृतीयेश शुभग्रहके नवांशमें हो तो शुभदृष्टयुत वैशेषिकांशमें हो तो धैर्यवान् होवे ॥५१॥
तृतीय भावका स्वामी पापग्रहसे युत वा दृष्ट हो वा दुष्ट स्थानमें हो तो धैर्यका नाश
हो । यदि केन्द्रमें वा त्रिकोणमें शुभयुत वा शुभदृष्ट तृतीयेश हो तो धैर्यवान् हो ॥ ५२ ॥
अथ बलविचारः ।
वीर्याधिपे भूमिसुतेन युक्ते पापर्क्षगे वीर्यविनाशहेतुः ।
केन्द्रत्रिकोणे ससिते बलाढ्ये वीर्याधिको भोगगुणप्रकाशः ॥ ५३ ॥
श्लोकेनानेन जातस्य बलविचारः क्रियते । वीर्याधिपे = तृतीयेरो, मङ्गलेन युक्ते पाप-
र्क्षके = पापराशिगते सति वीर्यविनाशहेतुः = बलहानिकारणं भवति । अत्र जातो निर्बलो
भवतीत्यर्थः ।
अथ तृतीयेगे ससिते = शुक्रेण सहिते बलाढ्ये च जातो वीर्याधिकः = महाबलो भोग-
गुणप्रकाशश्च भवति ॥ ५३ ॥
तृतीय का स्वामी मङ्गलसे युक्त होकर पापग्रहकी राशिमें हो तो बलका विनाशक होता
है, और बलवान् तीसरेका स्वामी शुक्रके साथ केन्द्र या कोणमें हो तो अधिक वीर्यवान्
तथा भोग आदि गुणसे प्रकाशित होवे ॥ ५३ ॥
अथ अशनविचारः ।
शुक्लं निशाकरं त्यक्त्वा लग्नात्सोदरभे शुभे ।
शुभराश्यंशगे जातः समेति सुखभोजनम् ॥ ५४ ॥
इदानीमशनविचारमाह - शुक्रमिति । शुक्लं, निशाकरं = चन्द्रं च त्यक्त्वा लग्नात्सोद-
रभे = तृतीयभावे शुभे = शुभग्रहे, शुभराशिनवांशे च गतवति जातः सुखभोजनं समेति =
प्राप्नोति । चन्द्रे शुक्रे च तृतीये सति न सुखभोजनमिति शुक्लं निशाकरं त्यक्त्वेत्युक्तमिति ॥
लग्नसे तृतीय स्थानमें चन्द्रमा और शुक्रके अतिरिक्त शुभ (बु० वृ०) ग्रह शुभराशि
के नवांशमें हों तो जातक शुभ भोजनसे युक्त होवे ॥ ५४ ॥
जीवस्य राशिनवभागदृक्काणसंस्थे वीर्याधिपे यदि सुरार्चितवीक्षिते वा ।
तत्केन्द्रकोणगृहगेऽवनिजे बलाढ्ये जातस्तु कन्दफलमूलरसप्रियः स्यात् ॥५५॥
वीर्याधिपे = तृतीयभावेशे, जीवस्य = गुरोः, राशौ ( धनुर्मीनान्यतरे ) नवभागे =
नवांशे, दृक्काणे वा स्थिते यदि सुरार्चितेन = गुरुणा वीक्षिते = अवलोकिते, अथवा तत्केन्द्र-
कोणगृहगे = तत्तृतीयभावेशात् केन्द्रकोणे ( १।४।७।१०, ९।५ ) गृहे गतवति बलाढ्ये =
सबले, अवनिजे = भौमे सति जातः कन्दफलमूलरसप्रियः स्यात् ॥ ५५ ॥
यदि तृतीय भावका स्वामी बृहस्पतिसे दृष्ट बृहस्पतिके राशि, नवांश या द्रेष्काणमें
हो, वा बलवान् मंगल उसके ( ३ भावके ) केन्द्र-कोणमें हो तो जातक कन्द, मूल, फलके
रसका प्रिय हो ॥ ५५ ॥
सोदरारातिगः शुक्रः शोकरोगभयप्रदः ।
तत्रैव शुभकारी स्यात्पुरतो यदि भास्करात् ॥ ५६ ॥
शुक्रः, सोदरारातिगः = तृतीये षष्ठे वा भावे स्थितः जातस्य शोकरोगभयप्रदो
भवति । तत्रैव = तृतीये षष्ठे वा, भास्करात् पुरतः = सूर्यादग्रे विद्यमानः सन्शुभकारी
भवति । अर्थात्छुकस्तृतीये षष्ठे वा भवेत्तथा सूर्यो द्वितीये पञ्चमे वा भवेदिति ॥ ५६ ॥
तृतीय तथा छठें स्थानमें शुक्र हो तो शोक-रोग-भय देनेवाला होता है। यदि वही
शुक्र सूर्यके आगे हो तो शुभ होता है ॥ ५६ ॥
३७८ सटीकजातकपारिजाते-
*गुरुशुक्रयुते भुक्तौ नाथे सौम्ययुतेक्षिते ।
बलवच्छुभदृष्टे वा त्वन्नदाता भवेन्नरः ॥ ५७ ॥
सौम्ये स्वोच्चं गते भुक्तौ सौम्यग्रहनिरीक्षिते ।
नाथे वैशेषिकांशे वा सुखभुक्तिप्रदो भवेत् ॥ ५८ ॥
भुक्तौ = द्वितीयभावे, गुरुशुक्रयुते, नाथे = भुक्तिनाथे = द्वितीयेरो, सौम्ययुतेक्षिते=शुभ-
ग्रहेण युतदृष्टे वा केनचिद्बलवता शुभेन दृष्टे जातो नरः परेषामन्नदाता भवति ॥
सौम्ये = बुधगुरुशुक्रान्यतमे स्वोच्चं गते सति भुक्तौ = द्वितीयभावे स्थिते, तस्मिन्
केनचित् सौम्यग्रहेण निरीक्षिते, वा नाथे = द्वितीयभावेशे, स्ववैशेषिकांशे गतवति जातः
सुखभुक्तिप्रदो भवति ॥ ५७-५८ ॥
गुरु और शुक्रसे युक्त भुक्ति (२ रा भाव) हो या द्वितीयेश शुभग्रहसे युक्त वा दृष्ट हो
वा बलवान् शुभ
तृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥ ३०६
भावेषु ) स्थिताः, अथवा, नीचारिगाः = नीचे, शत्रुगृहे वा स्थिता यदि भवेयुस्तदा जातस्य
विद्याबुद्धिविवेकेषु हीनफलदा भवन्ति । अस्मिन् योगे जातो विद्याबुद्धिविवेकैर्हीनो भवती-
त्यर्थः । ते विद्यास्थानपजीवचन्द्रतनयाः यदि स्वोच्चे, स्वक्षेत्रे, लग्नात् त्रिकोण-( ५।९ )
गृहे स्थिता वा लग्नात् केन्द्रेषु ( १।४।७।१० ) स्थिता भवेयुस्तदा जातो नरः श्रीविद्या-
विनयादियुक्तिषु निपुणः, राजाधिराजप्रियश्च भवति ॥ ६०-६१ ॥
चतुर्थ स्थानमें चतुर्थेश शुभग्रहसे युत वा दृष्ट हो और बुध बलवान् हो तो जातक
विद्या-विनय-से युक्त चतुर होवे । यदि चतुर्थेश दुष्टस्थानमें पापग्रहसे युक्त हो और पापदृष्ट
हो वा पापराशिमें हो तो मनुष्य विद्यासे हीन हो ॥ ६० ॥
चतुर्थेश, बृहस्पति और बुध षष्ठ, तृतीय, द्वादश या अष्टम स्थानमें स्थित हों तो
विद्या-बुद्धि-विवेककी हानि करते हैं और उक्त ग्रह नीच या शत्रुस्थानमें हों तो भी उक्त
फल देते हैं। यदि वे उक्त ग्रह स्वगृही, स्वोच्च स्थान या त्रिकोणमें हों वा केन्द्रमें हों तो
जातक श्री-विद्या-विनय आदिसे युक्त निपुण, तथा राजाधिराजका प्रिय होवे ॥ ६१ ॥
अथ मातृविचारः
शुक्रे बलिष्ठे यदि वा शशाङ्के सौम्येक्षिते शोभनभागयुक्ते ॥
चतुष्टये, मातृगृहे बलाढ्ये मातृश्चिरायुष्ट्वमुदाहरन्ति ॥ ६२ ॥
मातृस्थानाधिपे षष्ठे व्यये वा बलवर्जिते ॥
लग्ने पापे पापद्गष्टे मातृनाशं वदेद् बुधः ॥ ६३ ॥
क्षीणे चन्द्रेऽष्टमे षष्ठे व्यये वा पापसंयुते ॥
पाताले पापसंयुक्ते मातृहानिर्न संशयः ॥ ६४ ॥
मातृस्थानगते मन्दे पापग्रहनिरीक्षिते ।
रन्ध्रनाथेऽरिनीचस्थे मातृनाशं विनिर्दिशेत् ॥ ६५ ॥
भ्रातृपुत्रगते पापे पातालेशेऽरिनीचगे ।
चन्द्रे पापसमायुक्ते मातृरोगं विनिर्दिशेत् ॥ ६६ ॥
इदानीं मातृविचारः क्रियते-शुक्रे इत्यादिश्लोकपञ्चकेन । यदि शुक्रे, वा शशाङ्के =
चन्द्रे, बलिष्ठे = पूर्णबले, सौम्येक्षिते = शुभग्रहावलोकिते, शुभग्रहभागयुक्ते, चतुष्टये=लग्ना-
त्केन्द्रे गतवति, मातृगृहे = चतुर्थभावे, बलाढ्ये सति जातस्य मातुः चिरायुष्ट्वं (दीर्घायुष्ट्वं)
विद्वांसः समुदाहरन्ति । अन्ये श्लोकाः स्पष्टार्था एवेति ॥ ६२-६६ ॥
यदि शुक्र वा चन्द्रमा बलवान् होकर शुभग्रहसे देखा जाता हो और शुभवर्गमें हो तथा
केन्द्रमें हो, मातृगृह (चतुर्थ) सबल हो तो जातककी माता दीर्घायु होवे ॥ ६२ ॥
बलहीन सुतेश षष्ठ स्थानमें हो वा द्वादश स्थानमें हो लग्नमें पापदृष्ट पापग्रह हो तो
पण्डित लोग माताका नाश ( मृत्यु ) कहते हैं ॥ ६३ ॥
क्षीण चन्द्रमा अष्टम, षष्ठ वा व्ययमें पापग्रहसे युक्त हो और चतुर्थ भाव पापग्रहसे युक्त
हो तो माताकी हानि ( मृत्यु ) निःसंदेह होवे ॥ ६४ ॥
४ थे स्थानमें शनि हो, पापग्रह उसे देखता हो, अष्टमेश शत्रुगृहमें वा नीच स्थानमें
हो तो माताका नाश होता है ॥ ६५ ॥
तृतीय और पञ्चम भावमें पाप ग्रह हो चतुर्थेश शत्रु राशिमें वा नीच राशिमें हो तथा
चन्द्रमा पापग्रहके साथ हो तो माताको रोग हो ॥ ६६ ॥
षष्ठेश्वरेण सहितः सुखराशिनाथो धर्मस्थितो जनकमत्र विटं करोति ।
भाग्याधिपेन सहितो यदि मातृनाथः सौख्यस्थितो जनकमत्र विटं करोति ॥६७॥
षष्ठमातृपौ पितृस्थाने पितुश्च व्यभिचारदौ ।
मातृतातारिदेहेशैरेकस्थैः परजातकः ॥ ६८ ॥
१८० सटीकजातपारिजाते-
इदानीं पितुर्विटत्वमाह—षष्ठेश्वरेणेति। सुखराशिनाथः = चतुर्थेश्वरः षष्ठेश्वरेण सहितो
यदि धर्म-(नवम) स्थितो भवेत्तदात्रास्मिन् योगे जातस्य जनकं = पितरं विटं धूर्तं कामुकं
करोति। यदि मातृनाथः = चतुर्थेशः भाग्याधिपेन नवमेशेन सहितः सन् सौख्यस्थितः =
चतुर्थे एवं गतः स्यात्तदात्र जनक विट करोति। अत्र योगे जातो विटेनोत्पादितोऽपि वा
जातस्य पिता विटो ज्ञेय इति ॥ ६७ ॥
षण्मातृपौ = षष्ठेश-चतुर्थेशौ, पितृस्थाने = लग्नान्नवमे भावे भवेतां तदा पितुः व्य-
भिचारदौ भवतः। अस्मिन् योगे जातस्य पिता व्यभिचारी (परदारसक्तः) भवति। मातृ-
तातारिदेहेशैः = चतुर्थेश-नवमेश-षष्ठेश-लग्नेशैश्चतुर्भिग्रहैरेकस्थः यत्र तत्रैकभावगतैर्जा-
तः, परजातकः = अन्यपुरुषोत्पादितः भवति ॥ ६८ ॥
सुखेश षष्ठेशके साथ धर्म भावमें स्थित हो तो जातकका पिता धूर्त होवे। यदि सुखेश
नवमेशके साथ सौख्य स्थानमें हो तो पिता विट (धूर्त) हो ॥ ६७ ॥
षष्ठेश और सुखेश ९ वें में हों तो जातकके पिताको व्यभिचारी बनावें। सुखेश, नव-
मेश, षष्ठेश और लग्नेश एक भवनमें हों तो दूसरेसे जायमान जातकको जाने ॥ ६८ ॥
[कुंडली १]
| भाव | राशि / ग्रह / विवरण |
|---|---|
| १ | १ |
| २ | २ |
| ३ | ३ |
| ४ | ४, विटो जनकः १ |
| ५ | ५ |
| ६ | ६ |
| ७ | ७ |
| ८ | ८ |
| ९ | सु. षु. ९ |
| १० | १० |
| ११ | ११ |
| १२ | १२ |
[कुंडली २]
| भाव | राशि / ग्रह / विवरण |
|---|---|
| १ | १ |
| २ | २ |
| ३ | ३ |
| ४ | ४ चं. गु., विटो जनकः २ |
| ५ | ५ |
| ६ | ६ |
| ७ | ७ |
| ८ | ८ |
| ९ | ९ |
| १० | १० |
| ११ | ११ |
| १२ | १२ |
[कुंडली ३]
| भाव | राशि / ग्रह / विवरण |
|---|---|
| १ | २, व्यभिचारी-पिता |
| २ | ३ |
| ३ | ४ |
| ४ | ५ |
| ५ | ६ |
| ६ | ७ |
| ७ | ८ |
| ८ | ९ |
| ९ | १० सू. शु. |
| १० | ११ |
| ११ | १२ |
| १२ | १ |
[कुंडली ४]
| भाव | राशि / ग्रह / विवरण |
|---|---|
| १ | १, परजातः |
| २ | २ |
| ३ | ३ |
| ४ | ४ चं. गु. बु. मं. |
| ५ | ५ |
| ६ | ६ |
| ७ | ७ |
| ८ | ८ |
| ९ | ९ |
| १० | १० |
| ११ | ११ |
| १२ | १२ |
एतानि कल्पितोदाहरणानि बालावबोधार्थं प्रदर्शितानीति ।
पापेक्षिते पापयुते शशाङ्के दिवाकरे वा यदि केन्द्रराशौ।
क्रूरे सुखे वा यदि पापद्ष्टे जातो नरः स्याद्यदि मातृगामी ॥ ६९ ॥
चन्द्रे भृगौ वा केन्द्रस्थे पापद्दष्टेऽथवा द्वयोः।
क्रूरे सुखे मातृगामी यदि वा गुरुदारभाक् ॥ ७० ॥
इदानीं जातस्य मातृगामित्वमाह—पापेक्षित इति। चन्द्रे वा सूर्ये पापग्रहेण दृष्टे युते
वा यदि केन्द्रराशौ गते, यदि वा क्रूरे = पापग्रहे सुखे तस्मिन् पापद्ष्टे च जातो नरः मातृ-
गामी = मात्रा सह पापकृद्भवेत्।
चन्द्रे वा भृगौ = शुक्रे, केन्द्रस्थे तस्मिन् पापेन दृष्टे च, अथवा द्वयोः = चन्द्रशुक्रयोः
केन्द्रस्थयोः सुखे = चतुर्थस्थाने क्रूरे = पापाक्रान्ते सति जातो मातृगामी यदि वा गुरुदार-
भाक् = गुरुपत्नीगामी भवतीति ॥ ६९-७० ॥
चन्द्रमा, वा सूर्य पापग्रहसे दृष्ट या युत केन्द्रमें हो वा क्रूर ग्रह चतुर्थमें हो और पापग्रह
सुखको देखता हो तो वह जातक मातृगामी होवे ॥ ६९ ॥
चन्द्रमा वा शुक्र केन्द्रमें हो उसे पापग्रह देखता हो अथवा दोनोंसे ४ थे पाप ग्रह हों
तो वह जातक मातृगामी वा गुरुपत्नी-गामी हो ॥ ७० ॥
सुखस्थे सारषष्ठेशे चन्द्रे माताऽन्यमैथुनी ।
व्यभिचारप्रदो मातुः सराहुर्दिननायकः ॥ ७१ ॥
शीतांशौ राहुकेतुभ्यां युक्ते नीचेन सङ्गमः ।
मन्दयुक्ते च शूद्रेण वैश्येन बुधयोगतः ॥ ७२ ॥
रवियुक्ते क्षत्रियेण मन्त्रिभ्यां द्विजसङ्गमः ।
एवं चन्द्रः कुजारीशयुक्तस्तत्फलदो भवेत् ॥ ७३ ॥
इदानीं मातृव्यभिचारयोगानाह—सुखस्थ इति त्रिभिः श्लोकैः । चन्द्रः भौम-षष्ठे-
शाभ्यां सहितश्चतुर्थे भवेत्तदा माता परपुरुषेण ( जारेण ) मैथुनमुपयाति । सूर्यो राहुणा
सहितश्चतुर्थे मातुः व्यभिचार-(परपुरुषसङ्ग ) प्रदो भवति । चन्द्रे राहुणा केतुना वा
युक्ते सुखस्थे सति मातुः नीचेन = हीनजातिपुरुषेण सह सङ्गमो वाच्यः । तथाभूते ( सुख-
स्थे ) चन्द्रे मन्देन = शनिना युक्ते सति शूद्रेण, बुधयोगतः = बुधेन सहिते चन्द्रे वैश्येन,
रविणा युक्ते क्षत्रियेण, मन्त्रिभ्यां = गुरुणा, शुक्रेण च युक्ते सति द्विजेन = ब्राह्मणेन मातुः
सङ्गो वाच्यः । एवं कुजारीशयुक्तः = भौमषष्ठेशाभ्यां सहितश्चतुर्थे स्थितश्चन्द्रस्तत्फलदः =
व्यभिचारित्त्वकरः स्यादिति पूर्वमेव ( ७१ श्लो० ) कथितः ॥ ७१-७३ ॥
मङ्गलके सहित षष्ठेश और चन्द्रमा सुखमें हों तो उसकी माता दूसरेसे मैथुन करावे ।
राहुके साथ सूर्य ४ थे में हो तो भी उसकी माताको व्यभिचारिणी बनावे ॥ ७१ ॥
चन्द्रमा राहु या केतुसे युक्त ४ थे में हो तो नीचसे सङ्गम करे । शनिसे युक्त हो तो
शूद्रसे । बुधसे युक्त हो तो वैश्यसे । सूर्यसे युक्त हो तो क्षत्रियसे और बृहस्पति या शुक्रसे
युक्त हो तो ब्राह्मणसे जातककी माता मैथुन करावे । इसी प्रकार चन्द्रमा, मङ्गल और षष्ठेश
से युक्त होनेका भी फल है ॥ ७१-७३ ॥
चन्द्रोऽनिष्टस्थानगः सानुजेशो जातस्यान्यस्तन्यपानं करोति ।
दुःस्थानस्थौ मातृपितृघ्नानाथौ पित्रोर्मृत्युर्लग्ननाथे बलाढ्ये ॥ ७४ ॥
इदानीं पित्रोरनिष्टयोगानाह—चन्द्र इत्यादिभिः । सानुजेशः = तृतीयभावपतिना
सहितश्चन्द्रः, अनिष्टस्थानगतः स्यात्तदा जातस्यान्यस्तन्यपानं करोति । अस्मिन्योगे समुद्भूतो
नरो मातृहीनो भवति । मातृपितृघ्नानाथौ = चतुर्थनवमभावपती, दुःस्थानगतौ स्याताम्, लग्न-
नाथे = लग्नेशे च बलाढ्ये सति, पित्रोः = मातुः पितुश्च मृत्युः = मरणं भवतीति ॥ ७४ ॥
तृतीयाेशके साथ चन्द्रमा अनिष्ट(८)स्थानमें हो तो जातक दूसरेका दूध पीता है ।
सुखेश और नवमेश दुष्ट स्थानमें हों तथा लग्ननाथ बली हो तो माता और पिता की
मृत्यु होवे ॥ ७४ ॥
पितृकर्माधिपे दुःस्थे लग्नेशे बलसंयुते ।
पित्रोरनिष्टकारी स्यात् सीमन्तरहितोऽथवा ॥ ७५ ॥
पितृकर्माधिपे = पितुः ( नवमभावस्य ) कर्माधिपो दशमेशो लग्नात्षष्ठभावपतिरिति
यावत्तस्मिञ्जन्मलग्रात् षष्ठेशे, दुःस्थे = षडष्टव्ययान्यतमगते, लग्नेशे = जन्मलग्नपतौ,
बलसंयुते सति जातः पित्रोः = मातुः पितुश्चानिष्टकारी स्यात्, अथवा स्वयं सीमन्तनाम्ना
गर्भसंस्कारेण रहितः स्यात् ॥ ७५ ॥
३८२ सटीकजातकपारिजाते-
पितृआपका दशमेश ( याने षष्ठभावेश ) दुष्ट स्थानमें हो लग्नेश बलयुक्त हो तो माता
और पिताका अनिष्ट करता है, वा वह जातक सीमन्तसे रहित होता है ॥ ७५ ॥
मातृस्थानेशलग्नेशौ तत्र कोणगतौ यदि ।
तदीशो लग्नगो माता पित्रा सह मृता भवेत् ॥ ७६ ॥
मातृस्थानेश-लग्नेशौ = यदि कोण-( ५।९ ) गतौ स्यातां, तदीशः = त्रिकोणेशः
( पञ्चमेशो नवमेशो वा ) लग्नगतः स्यात्तदा जातस्य माता पित्रा सह मृता भवेत् । तत्र
दम्पत्योर्मरणं वाच्यमिति । ७६ ॥
यदि सुखेश और लग्नेश कोणमें हों उस कोणका स्वामी यदि लग्नमें हो तो जातककी
माता पिताके साथ मरे ॥ ७६ ॥
मातुलग्नेशपितृपाः केन्द्रकोणस्थिता यदि ।
तद्दशान्तर्दशाकाले जनन्यास्त्वनुमृत्युदाः ॥ ७७ ॥
मातुलग्नेशपितृपाः=चतुर्थ-प्रथम-नवमभावेशाः यदि केन्द्रकोण-( १।४।७।१०।५।९)
स्थिताः भवेयुस्तदा तद्दशान्तर्दशाकाले ( त्रयाणां मध्ये यो बलीयांस्तद्दशान्तर्दशायामिति )
जनन्यास्त्वनुमृत्युदा भवन्ति । तत्र मातुरनुपश्चात्पितुरग्रे मरणमित्यर्थः ॥ ७७ ॥
यदि सुखेश, लग्नेश और नवमेश केन्द्र वा कोणमें स्थित हों तो उसकी दशा-अन्तर्दशा
के समय माताकी मृत्यु होवे ॥ ७७ ॥
रवीन्दू पितृमातृस्थौ यदि तावनुमृत्युदौ ।
तदीशेक्षितयुक्ता वा रविसम्बन्धिनस्तथा ॥ ७८ ॥
यदि रवीन्दू = सूर्याचन्द्रमसौ, पितृमातृस्थौ = नवमगतौ, चतुर्थगतौ वा भवेतां तदा
तौ अनुमृत्युदौ = जनन्याः पश्चात्पूर्वं पितुः मरणकारको भवतः । वा रविसम्बन्धिनः =
सूर्यसम्बन्धिनः ( सूर्यस्य मित्रं, सूर्येण दृष्टः, सूर्ययुक्तः, सूर्यगृहस्थश्चैतेषां केचित् ) तदीशे-
क्षितयुक्ताः = चतुर्थेशनवमेशान्यतरेण दृष्टा युक्ताश्च तथाऽर्यादनुमृत्युदा भवन्ति ॥ ७८ ॥
यदि सूर्य और चन्द्रमा पिता माताके गृह ( नवम-चतुर्थ ) में हों तो दोनोंकी मृत्यु
करें। वा उसके स्वामीसे दृष्ट या युत तथा सूर्य सम्बन्धी हों तो भी वही फल कहे ॥ ७८ ॥
ये मातृभावपतिकारकतत्समेता-स्तन्मातृराशिगतवीक्षितखेचरेन्द्राः ।
तेषामनिष्टकरखेटदशापहारे-जातस्य मातृमरणं प्रवदन्ति सन्तः ॥ ७९ ॥
इदानीं मातुः मरणदशामाह-ये इति । मातृभावपतिः = चतुर्थेशः, कारकः = मातृ-
कारकग्रहः ( चन्द्रः ) तत्समेतः = मातृभावगतश्चैते ये ग्रहास्तथा तन्मातृराशिगतग्रहेण
वीक्षिता ये खेचरेन्द्राः=ग्रहाः, तेषां मध्ये अनिष्टकरस्य खेटस्य ( यो ग्रहो मातरिष्टदो भवति
तस्य ) दशापहारे जातस्य मातुः मरणं सन्तः प्रवदन्ति ॥ ७९ ॥
चतुर्थेश, मातृकारक, उसके सहचर, चतुर्थस्थ और चतुर्थदर्शी इन ग्रहोंके बीच जो ग्रह
सबसे अधिक अनिष्ट सूचक हो उसकी दशा अन्तर्दशामें जातककी माता मरण प्राप्त करती
है ऐसा पण्डितोंने कहा है । सु. शा० कारः ॥ ७९ ॥
मार्त्तण्डस्फुटतो विशोध्य शशिनं तच्छेषराश्यंशके
जीवे भानुसुते च मातृमरणं तत्कोणगे वा नृणाम् ।
संशोध्यं यमकण्टकं हिमकराद्रन्ध्राधिपस्य स्फुटं
तद्राशौ रविनन्दने मृतिमुपैत्यम्बा तदंशे रवौ ॥ ८० ॥
मार्त्तण्डस्फुटतः शशिनं विशोध्य = सूर्यस्पष्टराश्यादितश्चन्द्रस्पष्टराश्यादिकमूनीकृत्य,
तच्छेषराश्यंशके = तदवशेषमिते राशौ तन्नवांशे च गते जीवे = गुरौ, भानुसुते = शनैश्चरे
तृतीयचतुर्थभावफलाध्यायः ॥ १२ ॥ ३८३
च, अथवा तत्कोणगे = तच्छेषराशोः कोणगे ( ९।५ ) च गते जीवे शनौ च नृणां मातुर्मरणं
भवति । अत्रेदं विचिन्त्यम् । चन्द्रेण विरहिते सूर्ये यच्छेषं भवति तस्मिन् राशौ गतवति
शनौ तच्छेषांशके गतवति गुरौ च जातस्य मातृमृत्युं विन्द्यात् । अथ हिमकराच्चन्द्राद्-
न्ध्राधिपस्याष्टमस्थानपतेः स्फुटे ( जन्मकालीनचन्द्रादष्टमराशीशस्फुटराश्यादितः ) यम-
कण्टकः संशोध्य, तद्राशौ = शेषमिते राशौ सजाते रविनन्दने = शनैश्चरे, तदंशे=शेषमिते-
ऽशे गतवति रवौ च तस्य जातस्याम्बा = जननी, मृतिं = मरणमुपैति ॥ ८० ॥
स्पष्ट सूर्यमें स्पष्ट चन्द्रमाको घटाकर जो हो उसके राश्यंशमें वा इस शेषके कोणमें जब
बृहस्पति, शनि हों तो माताका मरण कहे। चन्द्रमासे आठवें राशिके स्वामीमें यमकण्टकको
घटाकर जो शेष बचे उस राशिमें शनि और उस अंशमें सूर्य जब प्राप्त हो तब माता मृत्यु
को प्राप्त होती है ॥ ८० ॥
अथ सुखविचारः ।
गोपुराद्यंशके जीवे सुखस्थानगतेऽपि वा ।
धनायवृद्धिभावेषु खेटेषु च सुखी भवेत् ॥ ८१ ॥
बुधदृष्टियुते सौख्ये सौम्यमध्यगतेऽथवा ॥
जीवराश्यंशके वाऽपि पुण्यकर्मरतः सदा ॥ ८२ ॥
सुखस्थितः शोभनराशिगो बली विलग्नसम्बन्धगुणाधिको यदि ।
तज्जातिवर्गेण सुखं निरन्तरं तदीयधातुश्रियमेति मानवः ॥ ८३ ॥
चतुर्थगो नीचसपत्नयातस्त्वनिष्टभावाधिपतिर्विलग्नात् ।
लग्नेशशत्रुर्यदि तत्प्रकोपात् शरीरसौख्यादिविनाशमाहुः ॥ ८४ ॥
चतुर्थभावस्थितदर्शिकारका बलान्विता यद्यतिसौख्यहेतुकाः ।
अनिष्टदा नीचसपत्नमूढगाः सुखं शुभेनाशुभमन्यखेचरैः ॥ ८५ ॥
चतुर्थगे भाग्यपतौ सशुक्रे बलाधिके स्याच्चिरकालभोगी ।
शुभान्विते रन्ध्ररिपुव्ययस्थे जातोऽल्पकालं समुपैति सौख्यम् ॥ ८६ ॥
इदानीं सुखविचारमाह-गोपुराद्यंशक इत्यादिपञ्चभिः श्लोकैः । तत्र श्लोकाः सरलार्था
एवेत्युपेक्षिताः ॥ ८१-८६ ॥
बृहस्पति गोपुराद्यंशमें हो वा सुख स्थानमें हो, द्वितीय एकादश और चतुर्थ भावोंमें
और ग्रह हों तो सुखी हो ॥ ८१ ॥
सुख भावमें बुधकी दृष्टि हो, वा ४ था भाव दो शुभग्रहोंके बीचमें वा बृहस्पतिके
राश्यंश में हो तो सदा पुण्यकर्ममें रत हो ॥ ८२ ॥
शुभराशिगत बलवान् ग्रह चौथे भावमें लग्नसे सम्बन्ध करनेवाला तथा अधिक गुण
( शुभबिन्दु ) युक्त हो तो उस ग्रहकी जाति वाले मनुष्योंसे उसे सदा सुख मिले और उस
ग्रहकी धातुसे उसे सम्पत्ति प्राप्त हो । ( सु० शा० कारः ) ॥ ८३ ॥
लग्नसे अष्टम भावका स्वामी चतुर्थमें नीच या शत्रु गृहमें प्राप्त हो और वह यदि
लग्नेशका शत्रु हो तो उसके प्रकोपसे शरीर आदिके सौख्यका नाश होवे ॥ ८४ ॥
चतुर्थ भावस्थित, चतुर्थदर्शी, चतुर्थका कारक, बलवान् हों तो अत्यन्त सुख होवे । यदि
वे सब नीच, शत्रु गृह या अस्तंगत हों तो अनिष्ट देनेवाले होते हैं । ये तीनों ग्रह शुभ हों
तो सुख, अन्यसे अशुभ होता है ॥ ८५ ॥
चतुर्थ स्थानमें नवमेश शुक्रके साथ हो तथा विशेष बलवान् हो तो बहुत काल तक
भोगी हो । शुभ ग्रहसे युक्त भाग्येश यदि अष्टम, षष्ठ या व्ययमें हो तो अल्प समय ही
सुख होता है ॥ ८६ ॥
३८४ सटीकजातकपारिजाते-
अथ सुखादिविचारनिर्णयः ।
सुखचिन्ता गृहेड्याभ्यां मातृचिन्ता सुखेन्दुतः ।
सुगन्धं गृहशुक्राभ्यां वस्त्रवाहनभूषणम् ॥ ८७ ॥
इदानीं सुख-मातृ-सुगन्ध-वस्त्र-वाहनभूषणानां विचारविवरणमाह-सुखचिन्तेति ।
गृहं चतुर्थभावः, इज्यो बृहस्पतिस्ताभ्यां सुखचिन्ता = सुखस्य विचारः, सुखेन्दुतः = चतु-
र्थभावचन्द्राभ्यां मातृविचारः, चतुर्थभावशुक्राभ्यां सुगन्धविचारः, तथा ताभ्यामेव वस्त्र-
वाहन-भूषणानां च विचारः प्रकर्त्तव्यः । चतुर्थभावस्य तत्तद्ग्रहस्य च शुभाशुभस्थितिप्र-
रत्वेन सुखादीनां शुभाशुभत्वं विनिर्दिशेदिति ॥ ८७ ॥
सुख (४) भावसे और गुरुसे सुखकी चिन्ता करे । सुख (४) भाव और चन्द्रमासे माता
की चिन्ता करे । सुख भाव और शुक्रसे सुगन्ध-वस्त्र-वाहन-भूषणकी चिन्ता करे ॥ ८७ ॥
अथ सुगन्धविचारः ।
सुखेश्वरे शोभनराशियुक्ते शुक्रेण दृष्टे सति संयुते वा ।
अरातिनीचग्रहदृष्टिहीने सुगन्धमाल्यादिसुखं समेति ॥ ८८ ॥
इदानीं सुगन्धमाल्यादिविचारः क्रियते । सुखेश्वरे = चतुर्थभावेशो, शोभनराशियु-
क्ते = शुभराशिस्थिते तस्मिन् शुक्रेण दृष्टे वा संयुते तथा तत्र अरातिनीचग्रहदृष्टिहीने =
शत्रुगृहगतेन नीचगतेन च ग्रहेणानावलोकिते सति जातः सुगन्धद्रव्याणां माल्यादीनां च
सुखं समेति ॥ ८८ ॥
चतुर्थेश शुभ राशि में हो, उसे शुक्र देखता हो वा वह शुक्रसे युक्त हो तथा शत्रु,
नीच गत ग्रहकी दृष्टिसे रहित हो तो जातक सुगन्ध, माला, आभरणादिके सुखसे
युक्त होवे ॥ ८८ ॥
अथ वस्त्रविचारः ।
वीर्यान्विते शीतकरे सुवस्त्रं साहिध्वजे जीर्णतरं समेति ।
कौशेयकं जीवयुते च रत्नचित्रं सशुक्रे सशनौ तु कृष्णम् ॥ ८६ ॥
इदानीं वस्त्रविचारः क्रियते । शीतकरे = चन्द्रे, वीर्यान्विते = पूर्वोक्तबलैर्युक्ते सुवस्त्रं =
उत्तमं वासः प्राप्नोति जातकः । तथा चन्द्रे साहिध्वजे = राहुणा केतुना वा युक्ते सति
जीर्णतरं वस्त्रं प्राप्नोति । चन्द्रे जीवेन = गुरुणा युते कौशेयकं ( Silk ) वस्त्रं प्राप्नोति ।
चन्द्रे सशुक्रे = शुक्रेण सहिते रत्नचित्रं = रत्नादिभिर्विचित्रत्वमुपगतं वस्त्रं प्राप्नोति । सश-
नौ = शनियुक्ते चन्द्रे तु कृष्णं वस्त्रं जातः समेति । अत्र चन्द्रे सूर्य-कुज-बुधयुक्ते
वस्त्रं नोक्तमिति तत्र सूर्ययुते चन्द्रे स्फुटितं, कुजयुते दग्धं, बुधयुते विविधशिल्पयुतं
वस्त्रं वाच्यम् ।
Notes—८७ श्लोके 'गृहशुक्राभ्यां वस्त्रवाहनभूषणम्'रत्युक्तम् । परश्चात्र चन्द्रतो
वस्त्रविचारः कृत इति प्रतिज्ञाभङ्ग इवाभातीति चिन्त्यम् ॥ ८९ ॥
लग्नकालमें बलवान् चन्द्रमा हो तो सुन्दर वस्त्र प्राप्त हो और चन्द्रमा राहु-केतु से युत
हो तो जीर्ण वस्त्र प्राप्त हो । वृहस्पतिसे युक्त हो तो कौशेय ( रेशमी ), शुक्रसे युक्त हो तो
रत्नादि चित्रित, शनिसे युक्त हो तो काला वस्त्र प्राप्त होवे ॥ ८९ ॥
अथ पशुविचारः ।
शुक्रेन्दुवर्गसहिते सुखराशिनाथे शुक्रेण शीतरुचिना सहितेऽक्षिते वा ।
नीचारिपापगगनाटनदृष्टिमुक्ते पश्वादिवित्तमखिलं लभते मनुष्यः ॥ ६० ॥
इदानीं पाश्वादिवित्तविचारः क्रियते । सुखराशिनाथे = चतुर्थभावेशे शुक्रचन्द्रयोरन्यत-
मस्य वर्गे स्थिते तत्र शुक्रेण चन्द्रेण वा युतदृष्टे तस्मिन् नीचारिगतानां पापगगनाटनानां
तृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३८५
( पापग्रहाणां ) च दृष्टिमुक्ते=दृष्टिरहिते सति मनुष्यः अखिलं पश्वादिवित्तं ( गो-महिषी-
घोटक-गजादिधनं ) लभते ॥ ६० ॥
सुखेश शुक्र या चन्द्रमाके वर्गमें हो शुक्र और चन्द्रमासे युक्त हो वा देखा जाता हो, नीच
तथा शत्रु गृहगत या पापग्रहसे दृष्ट न हो तो मनुष्य सम्पूर्ण पशु आदि धनको प्राप्त करे ॥६०॥
अथ बन्धुविचारः ।
बन्धुस्थानेश्वरे सौम्ये सौम्यग्रहनिरीक्षिते ।
कारके बलसम्पूर्णे बन्धुपूज्यो भवेन्नरः ॥ ६१ ॥
बन्धूपकर्ता तन्नाथे केन्द्रकोणायसंयुते ।
वैशेषिकांशसंयुक्ते पापदृग्योगवर्जिते ॥ ६२ ॥
बन्धुद्वेषी भवेन्नित्यं पापाक्रान्ते रसातले ।
नीचास्तखेटसंयुक्ते शुभदृग्योगवर्जिते ॥ ६३ ॥
इदानीं बन्धुविचारः क्रियते । तत्र श्लोका
३८६ सटीकजातकपारिजाते-
रक्ताम्बराभरणदः सुरपूजितेर्क्षे चन्द्रे सुरेन्द्रसचिवेक्षितसंयुते वा ॥ १०१ ॥
आन्दोलिकातुरगलाभमुपैति जातः शुक्रेन्दुयानपतयस्तनुनाथयुक्ताः ।
एकत्र देवगुरुयानपचन्द्रशुक्राः केन्द्रत्रिकोणगृहगाश्चतुरङ्गयानम् ॥ १०२ ॥
वाहनेशे गुरुयुते चतुरङ्गाख्यवाहनम् ।
यानेशे सशुभे माने चामरच्छत्रसंयुतः ॥ १०३ ॥
सुखेश्वरे केन्द्रगते तदीशे लग्नस्थिते वाहनयोगवन्तः ।
कर्मेश्वरे लाभगते तदीशे कर्मस्थिते भूषणयानवन्तः ॥ १०४ ॥
अधुना वाहनविचारमाह-वाहनेश इत्यादि-नवभिः श्लोकैः । तत्र श्लोकार्थ सरलार्थी
इति न व्याख्याताः ॥ ९६-१०४ ॥
चतुर्थेश और चतुर्थ भाव बली हों शुभग्रहसे दृष्ट हों तो वाहन आदिका सुख हो ॥९६॥
सुखेश सुखमें बुधके साथ हो शुभग्रह उसे देखते हों शुभग्रहके राशि वा अंशमें हो तो
वाहनादिकी प्राप्ति कहे ॥ ९७ ॥
चन्द्रमा लग्नका संबन्धी हो, सुखेशसे युक्त हो तो उस जातकको घोड़ाका वाहन हो
ऐसा श्रेष्ठ मुनि लोग कहते हैं ॥ ९८ ॥
द्वितीय वा चतुर्थ भावगत शुभराशिमें चन्द्रमा हो शुभग्रहसे युक्त हो तो उस जातकको
घोड़ा वाहन मिले ॥ ९९ ॥
चतुर्थेश चन्द्रमाके साथ लग्नमें हो लग्नेश्वरसे भी युक्त हो तो उसे घोड़ेका लाभ हो ।
यदि चतुर्थेश शुक्रसे युक्त लग्नमें हो तो उसे नरवाहन प्राप्त हो ॥ १०० ॥
बलवान् शुक्र तथा पूर्ण चन्द्रमा केन्द्र या त्रिकोणमें प्राप्त हों तो आन्दोलिका और
आभरणको देवें । वे दोनों यदि बृहस्पतिके गृहमें हों तो रक्तांबरा और भूषणको देवें ।
चन्द्रमा यदि बृहस्पतिसे दृष्ट युत हो तो भी यही फल जाने ॥ १०१ ॥
शुक्र, चन्द्रमा और चतुर्थेश लग्नेशके साथ हो तो आन्दोलिका (पालकी) और
तुरङ्ग (घोड़ा) का लाभ हो । बृहस्पति, सुखेश, चन्द्रमा और शुक्र एकत्र होकर केन्द्र या
त्रिकोण गृहमें हों तो चतुरंग यान (सवारी) होवे ॥ १०२ ॥
चतुर्थेश बृहस्पतिसे युक्त हो तो चतुरंग वाहन प्राप्त हो । चतुर्थेश शुभग्रहके सहित
१० वें हो तो जातक चामर छत्रसे युक्त हो (राजा हो) ॥ १०३ ॥
चतुर्थेश केन्द्रमें हो और उस केन्द्रका स्वामी लग्नमें हो तो वह वाहनवाला होता
है । दशमेश एकादशमें हो और लाभेश १० वें में हो तो भूषण तथा सवारीवाला होवे ॥१०४॥
अथ राज्यविचारः ।
यानेशे लाभराशिस्थे सुखे वा लाभगे कुजे ।
अथवा भौमराशिस्थे राज्यप्राप्तिर्न संशयः ॥ १०५ ॥
राज्यप्राप्तियोगमाह- यानेश इति । यानेशे = चतुर्थेशे लाभराशिस्थे, कुजे सुखे =
चतुर्थे वा लाभगे, अथवा भौमराशिस्थे मेषवृश्चिकान्यतरराशिगते जातस्य राज्यप्राप्तिर्भव-
तीत्यत्र संशयो न ।
Notes- 'अथवा भौमराशिस्थे' इत्यस्यार्थः-भौमे भौमराशिस्थे, किंवा यानेशे
भौमराशिस्थे इत्यपि भवितुं युज्यते । तथा च सर्वार्थचिन्तामणौ-
"क्षेत्रेश्वरे लाभगते बलाढ्ये बन्धौ भवे वा क्षितिसूनुयुक्ते ।
भूसूनुराशौ यदि वा सुखेशे राज्यार्थसौख्याभरणादियानम् ॥ इति ॥ १०५ ॥
चतुर्थेश ११ वें वा ४ थे में हो मंगल लाभमें हो वा उन स्थानोंमें मंगलकी (१।८)
राशि हो तो राज्य प्राप्त होता है इसमें संशय नहीं है ॥ १०५ ॥
लग्नाद्वाहनराशिगस्तदधिपस्तद्वीक्षकश्च त्रयः
स्वोच्चस्वर्क्षसुहृद्गृहेषु बलिनः केन्द्रत्रिकोणायगाः ।
तृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३८७
दीर्घायुः शयनासनाम्बरबहुक्षेत्राणि सन्मन्दिरं
बन्धुस्नेहमनोज्ञवाहनयशःसौख्यानि कुर्वन्ति ते ॥ १०६ ॥
लग्नादिति । जन्मलग्नाद् वाहनराशिगः = चतुर्थभावगतः, तदधिपः = चतुर्थभावेशः ।
तद्वीक्षकः = चतुर्थभावद्रष्टा चैते त्रयो ग्रहा बलिनः, स्वोच्चराशिषु, स्वराशिषु, मित्रगृहेषु
व्यवस्थिताः केन्द्रत्रिकोणायेषु ( १।४।७।१०।९।५।११ ) गता भवेयुस्तदा ते जातस्य
दीर्घायुः शयनासनाम्बरबहुक्षेत्राणि सन्मन्दिरं बन्धुस्नेहमनोज्ञवाहनयशःसौख्यानि कुर्वन्ति ॥
चतुर्थस्थ, चतुर्थेश और चतुर्थदर्शी ये तीनों ग्रह यदि स्वोच्च, स्वगृह या मित्रगृहमें
प्राप्त होकर बली हों, और तीनों ग्रह केन्द्र, त्रिकोण या एकादशमें हों तो वे ग्रह जातककी
दीर्घायु और शयन-आसन-वस्त्र-बहुतक्षेत्र-उत्तमगृह-बन्धु स्नेह-मनोज्ञ वाहन-यश-और
सौख्य को करते हैं ॥ १०६ ॥
स्वोच्चराशिगतश्चान्द्रिः केन्द्रकोणसमन्वितः ।
विद्यावाहनसम्पत्ति करोति विपुलं धनम् ॥ १०७ ॥
स्वोच्चेति । चान्द्रिः = बुधः, स्वोच्चराशिगतः = कन्यागतः सन् केन्द्रे ( १।४।७।१० )
कोणे वा ( ५।९ ) समन्वितो भवेत्तदा विद्यावाहनसम्पत्ति विपुलं धनं च करोति ॥१०७॥
बुध अपनी उच्च राशिमें होकर केन्द्र या कोणमें हो तो विद्या, वाहन, सम्पत्ति और
विपुल धन करनेवाला होता है ॥ १०७ ॥
लग्नेशात्सुखनाथतद्भवगौ भाग्येशभाग्यस्थितौ
चत्वारः शुभवर्गगाः सुबलिनस्ते लग्नसम्वन्धिनः ।
अन्योन्याश्रितवीक्षिता यदि महीपालश्चिरायुः सुखी
तेजस्वी चतुरङ्गयानविपुलश्रीराजचिह्नाङ्कितः ॥ १०८ ॥
लग्नेशादिति । लग्नेशो यत्र तिष्ठति तस्मात्
३८८ सटीकजातकपारिजाते-
उक्त तीनों स्थानों (१।४।९) में बलवान् एक भी चतुर्थेश लग्न या लग्नेशका सम्बन्धी
हो तो उसकी दशा वाहन देनेवाली होती है ॥ ११० ॥
चतुर्थधर्मायधनाधिनाथा विलग्नसम्बन्धिबलाधिकाश्चेत् ।
तदीयपाके समुपैति राज्यं क्रमेण भाग्यं धनलाभमर्थम् ॥ १११ ॥
चतुर्थेश-धर्मेश-लाभेश-धनेशाः विलग्नसम्बन्धिनः पूर्णबलाश्च यदि भवेयुस्तदा
तदीयपाके क्रमेण राज्यं, भाग्यम्, धनलाभम्, अर्थम् समुपैति । विलग्नसम्बन्धिनो
बलयुक्तस्य चतुर्थेशस्य दशायां राज्यम् । तथाभूतस्य धर्मेशस्य दशायां भाग्यम् । तथा
भूतस्य लाभेशस्य दशायां धनलाभम् । तथाभूतस्य धनेशस्य दशायाम् अर्थ समुपैति ।
Notes—अत्र सम्बन्धो बहुसम्मतश्चतुर्विधः प्रोक्तः-स्थानसम्बन्धः १, दृष्टिसम्बन्धः
२. मित्रसम्बन्धः ३. सहचरसम्बन्धः ४. इति ॥ १११ ॥
चतुर्थ, नवम, एकादश और द्वितीयके स्वामी लग्नके सम्बन्धी और अधिक बलवाले
हों तो उनकी दशामें क्रमसे राज्य-प्राप्ति, भाग्योदय, धनलाभ और कार्यसिद्ध होते हैं ॥१११॥
ते चत्वारोऽधिकबलयुता देहसम्बन्धिनश्चे-
देतत्सर्वं भवति विपुलं दुर्बला दुःखदाः स्युः ।
मिश्रं मिश्रैस्तनुपरिभवः कारको भावनाथो
भावाक्रान्तो विगतबलिनश्चेदतिक्लेशदाम्रे ॥ ११२ ॥
ते चत्वारः = चतुर्थधर्मायधनाधिनाथा इति शेषं स्पष्टमेवेत्यलम् ॥ ११२ ॥
पूर्वोक्त चार (४।९।११।२) स्थानोंके स्वामी अधिक बलयुक्त तथा लग्नके सम्बन्धी
हों तो उन भावोंके सम्बन्धी फल पूर्ण रूपसे होते हैं । परन्तु यदि वे ही दुर्बल हों तो दुःख
देने वाले होते हैं। मिश्रित हों तो मिश्र फल देते हैं। भावका कारक, भावनाथ और भावगत
ग्रह बलसे हीन हों तो विशेष कष्टदायक होते हैं ॥ ११२ ॥
वाहनेशेऽरिनीचस्थे दुःस्थे धर्माधिपेक्षिते ।
दुर्दुर्वाहनसम्प्राप्तिश्चलवाहनताऽपि वा ॥ ११३ ॥
धर्मकर्मविलग्नस्थास्तुङ्गोपगशुभग्रहाः ।
लग्नाधिपेन संदृष्टा यानान्ते दुःखमाप्नुयात् ॥ ११४ ॥
वाहनेशे = चतुर्थेशे शत्रुगृहे, नीचे, दुःस्थे (षष्ठष्टव्ययगे) च तस्मिन्धर्माधिपेन
दृष्टे जातस्य दुष्टवाहनस्य सम्प्राप्तिः, अपि वा चलवाहनता = चञ्चलवाहनप्तिः वक्तव्या ।
अत्र दुष्टसैन्यस्य चलसैन्यस्य वा प्राप्तिरपि वक्तव्या । तथा सर्वार्थचिन्तामणौ-
"दुःस्थे विमूढे यदि वाहनेशे भाग्येश्वरेणापि समीक्षिते वा ।
दुर्वाहिनी चञ्चलवाहिनी वा लाभाधिपेनापि समीक्षिते वा" इति ॥
तुङ्गोपगशुभग्रहाः = स्वकीयोच्चराशियाताः शुभग्रहाः, यदि धर्मकर्मविलग्नस्था भवेयु-
स्तथाभूता लग्नाधिपेन संदृष्टाश्च भवेयुस्तदा जातो यानान्ते = वाहनान्ते दुःखमवाप्नुयात् ।
ईदृग्योगे जातः विदामावसरे वाहनादितो निपातेन कष्टभागभवति । एवमेव सर्वार्थचिन्तामणौ-
"कर्मभाग्यविलग्नेषु स्वोच्चे सौम्यग्रहाः स्थिताः ।
दृष्टेषु वा लग्नपेन यानान्ते दुःखमाप्नुयात्" इति ॥ ११३-११४ ॥
चतुर्थेश शत्रुस्थान या नीचस्थानमें होकर दुष्ट स्थानमें हो उसको नवमेश देखता हो
तो खराब वाहन प्राप्त हो वा चल वाहन प्राप्त हो ॥ ११३ ॥
नवमवें, दशमवें और लग्नमें स्थित, उच्चगत शुभग्रह लग्नेशसे संदृष्ट हों तो सवारीके
अन्तमें दुःख प्राप्त होता है ॥ ११४ ॥
तृतीयचतुर्थभावफलाध्यायः ॥१२॥ ३८६
जीवे वा सुखपे शुभग्रहयुते लग्नात्तपःस्थानगे
सौम्यर्क्षे नरवाहनं चिरतरं राजप्रतापान्वितम् ॥
दुःस्थे पापयुतेऽस्तनीचरिपुगे यानादिभाग्यं नहि
स्वर्क्षे सर्वबलाधिके चिरसुखं चान्दोलिकारोहणम् ॥ ११५ ॥
बन्धुकर्मगुहाधीशौ लाभस्थानगतेक्षकौ ।
बलवन्तौ यदि स्यातां सर्वभाग्यफलप्रदौ ॥ ११६ ॥
लाभस्थौ सुखभाग्येशौ पश्यन्तौ वा सुखस्थलम् ।
वाहिनीसर्वभाग्याढ्यो राजप्रीतिकरो भवेत् ॥ ११७ ॥
धर्मवाहनराशीशौ लग्नसम्वन्धिनौ यदि ।
जीवदृष्टियुतौ तस्य राजवश्यादिभूषणम् ॥ ११८ ॥
शुभवाहनराशीशौ शुभखेचरसंयुतौ ।
बहुसेनाधिपः श्रीमान् बलिनौ यदि जायते ॥ ११९ ॥
भाग्यस्थिते वाहनराशिनाथे सशुक्रजीवे शुभखेटराशौ ।
भाग्याधिपे कोणचतुष्टये वा बहुत्वदेशाभरणार्थयानम् ॥ १२० ॥
कामारीयानसहजतपोलग्नव्ययेश्वराः ।
सुखाधिपेन संयुक्तास्त्वसंख्याकरदेशभाक् ॥ १२१ ॥
सुखाधिपो देवगुरुः सितो वा बली विलग्नान्नवमोपयात: ।
त्रिकोणकेन्द्रोपगतः शुभेशः समेति जातो बहुवाहनानि ॥ १२२ ॥
सशुक्रजीवो गेहेशो भाग्यस्थो भाग्यपे सुखे ।
केन्द्रत्रिकोणयोर्वाऽपि बहुवाहनदेशभाक् ॥ १२३ ॥
स्पष्टार्थाः किलैते नव श्लोका अतो न व्याख्याता इति ॥ ११५-१२३ ॥
वृहस्पति वा चतुर्थेश शुभग्रहसे युक्त लग्नसे नववें भावमें हो और सौम्यर्क्षमें हो तो
बहुत काल पर्यन्त राजप्रतापसे युक्त नरवाहन प्राप्त हो । यदि गुरु या चतुर्थेश दुष्टस्थान,
पापग्रह युक्त, अस्त, नीच या शत्रु गृहमें हो तो सवारी आदि भाग्यमें नहीं है। यदि
स्वगृहमें अति बलवान् हो तो बहुत काल तक सुख आन्दोलिका पर निवास करे ॥ ११५ ॥
यदि चतुर्थेश और दशमेश बलवान् होकर लाभ स्थानमें हों वा लाभस्थानको देखते
हों तो सर्वभाग्यके दाता होते हैं ॥ ११६ ॥
चतुर्थेश और नवमेश लाभ स्थानमें. हों वा चतुर्थ स्थानको देखते हों तो सैन्ययुक्त सर्व-
भाग्यसे युक्त और राजाको प्रसन्न करनेवाला हो ॥ ११७ ॥
यदि धर्मेश और सुखेश लग्नके सम्बन्धी हों और उन्हें वृहस्पति देखता हो तो जातक
को राजासे मान और भूषण प्राप्त हो ॥ ११८ ॥
नवमेश और वाहनेश ( चतुर्थेश ) यदि बलवान् हों शुभग्रहसे युक्त हों तो बहुत सेना
का मालिक और श्रीमान् होवे ॥ ११९ ॥
वाहनेश भाग्यस्थानमें प्राप्त हो, शुक्र और वृहस्पतिके साथ हो और वह शुभग्रहकी
राशि हो वा नवमेश कोण या केन्द्रमें हो तो उसे बहुत देश, आभरण, सवारी और धन
प्राप्त हो ॥ १२० ॥
सप्तम, षष्ठ, चतुर्थ, तृतीय-नवम लग्न और व्यय ( १-३-४-६-७-९-१२ ) के स्वामी
सुखेशके साथ हों तो जातक असंख्य देशोंको प्राप्त करे ॥ १२१ ॥
सुखेश वृहस्पति, वा शुक्र बलवान् होकर लग्नसे नववें भावमें प्राप्त हो, नवमेश
त्रिकोण वा केन्द्रमें हो तो जातक बहुत वाहनसे युक्त होवे ॥ १२२ ॥