जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 505, कुल 588 में से
संदर्भ में पढ़ेंदशमैकादशद्वादशभावफलाध्यायः ॥१५॥ ४७६
भानुर्वा कृशशीतगुर्व्ययगतो वित्तस्य नाशं नृपै-
भौमो नाशयतीन्दुजेक्षितयुतो नानाप्रकारैर्द्धनम्।
वागीशेन्दुसिता यदि व्ययगता वित्तस्य संरक्षकाः
सौम्यः शुक्रयुतेक्षितो यदि नृणां शय्यासुखं जायते ॥
इदानीं धननाशं, धनरक्षां, शय्यासुखञ्चाह—भानुरिति। भानुः = सूर्यः, वा कृशशी-
तगुः = क्षीणचन्द्रः, व्ययगतः = द्वादशस्थानगतः स्यात्तदा नृपैः = राजभिः, वित्तस्य=धनस्य
नाशं ब्रूयात् । भौमः = मङ्गलो व्यये, इन्दुजेक्षितयुतः = बुधेन दृष्टो वा युतः स्यात्, तदा
नानाप्रकारैः = विविधहेतुभिः धनं नाशयति ।
वागीशेन्दुसिताः = गुरुचन्द्रशुक्राः सम्मिलिताः यदि व्ययगताः स्युस्तदा ते वित्तस्य
संरक्षका भवन्ति । न तदानीं धनस्य व्ययो वाच्य इति ।
सौम्यः = बुधः शुक्रेण युक्तः, वा दृष्टो यदि व्यये स्यात् तदा नृणां=जनिमताम्, शय्या-
सुखं = पर्यङ्गानन्दो जायते ॥ ७८ ॥
सूर्य वा क्षीण चन्द्रमा बारहवें हो तो राजाके द्वारा धनका नाश हो । मंगल बुधसे युक्त
या दृष्ट हो तो नाना प्रकारसे धनका संहार करे । यदि बारहवें चन्द्रमा, शुक्र और बृहस्पति
हों तो धनके रक्षक होते हैं । यदि बुध शुक्रसे युक्त या दृष्ट हो तो मनुष्योंको शय्याका
सुख होवे ॥ ७८ ॥
अथ शयनविचारः ।
व्ययेशे स्वोच्चराशिस्ये शुभवर्गसमन्विते ।
शुभखेचरसंदृष्टे पर्यङ्कशयनं वदेत् ॥ ७६ ॥
विचित्रमञ्चे शयनं व्ययेशे परमोच्चगे ।
भाग्यनाथेन वा दृष्टे मणिरत्नविभूषितम् ॥ ८० ॥
इदानीं जातस्य शय्याविचारमाह—व्ययेश इति । व्ययेशः ( द्वादशेशः ) स्वोच्चन्न-
राशिगतः शुभवर्गगतः शुभग्रहदृष्टश्च भवेत्तदा जातस्य पर्यङ्कशयनं = मञ्च = खट्वा-शयनं
वदेत् । व्ययेशः परमोच्चगतः, भाग्यनाथेन = नवमेशेन दृष्टो वा भवेत्तदा विचित्रमञ्चे =
विविधशिल्पसञ्चिते पर्यङ्के मणिरत्नविभूषितं शयनं = शय्या स्यात् ॥ ७९–८० ॥
द्वादशेश अपने उच्चराशिमें हो, शुभवर्गमें हो, शुभग्रहसे देखा जाता हो तो पर्यङ्क
( पलङ्ग ) पर शयन कहे ॥ ७९ ॥
द्वादशेश परम उच्च स्थानमें हो तो विचित्र मणिरत्नसे विभूषित शय्यापर शयन हो ८०
शुक्रे वा रविनन्दने हिमकरे रन्ध्रत्रिकोणस्थिते
तद्गेहे शिथिलीभवेन्नृपतनं जातस्य केत्वन्विते ॥
निद्रास्त्रीकृकलासगौलिपतनं पापन्विते भार्गवे
भौमे कच्छपदर्शनं बुधयुते जातः श्वदष्टो भवेत् ॥ ८१ ॥
शुक्रे वेति । शुक्रे, रविनन्दने=शनैश्चरे, वा हिमकरे = चन्द्रे, रन्ध्रत्रिकोणस्थिते=अष्ट-
मात् ९।५ भावे गतवति, केत्वन्विते = केतुना सहिते च तस्य जातस्य गेहे नृपतनं =
अकस्मान्मनुष्याणां निपतनं शिथिलीभवेन्न भवेदित्यर्थः । अथ तत्र भार्गवे = शुक्रे, पापा-
न्विते सति, निद्रास्त्री = सुपुप्ता नारी, कृकलासः=सरटः ( पल्लीविशेषः ) गौलिः=गौधेयः
( विषखपरा ) एषां पतनं भवेत् । तत्र भौमे सति जातस्य कच्छपदर्शनं = शयनकाले
स्वप्ने कच्छपस्य दर्शनं जायते । तत्र बुधयुते सति जातः श्वदष्टः = शुना दंशितो भवेत् ॥
शुक्र शनि वा चन्द्रमा अष्टमके त्रिकोणमें स्थित हो केतुके साथ हो तो जातकके घरमें
32