सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 39, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 39

राशिशीलाध्यायः ॥१॥ १३
मेषादि बारह राशि के द्रव्य क्रमसे-१ वस्त्र और धान्य । २ वन्यफल । ३ हरिणविशेष
४ उत्तम अन्न । ५ जिसके त्वचा में बल हो । ६ मूंग आदि । ७ तिल वस्त्र आदि । ८ ईख,
और लोहा आदि । ९ शस्र और घोड़ा । १० सुवर्णादि । ११ जलमें होने वाले फूल ।
१२ समस्त जलमें होने वाली चीजें हैं ॥ २४ ॥
अथ राशिस्वामिनिरूपणम् ।
धराजशुक्रज्ञशशीनसौम्यसितारजी वार्क जमन्दजीवाः ।
क्रमेण मेषादिषु राशिनाथस्तदंशपाश्चेति वदन्ति सन्तः ॥ २५ ॥
धराज-शुक्र-ज्ञ-शशी-न-सौम्य-सितार-जीबार्कज-मन्द-जीवाः क्रमेण मेषादिषु
राशिनाथाः भवन्ति । यथा धराजो मङ्गलो मेषस्य । शुक्नो वृषस्य । ज्ञो
बुधो मिथुनस्य । शशी = चन्द्रः कर्कस्य । इनः=सूर्यः सिंहस्य । सौम्यो बुधः कन्यायाः ।
सितः = शुक्रस्तुलायाः । आरो मङ्गलो वृश्चिकस्य । जीवो वृहस्पतिर्धनुषः । अर्कजः=शनिः
मकरस्य । मन्दः शनिः कुम्भस्य । जीवो गुरुमीनस्याधिपतिरिति । तदंशपाश्च=अमी राशि-
स्वामिनस्तदंशपास्तेषां राशीनां येंडशाः = नवांशास्तेषामधिपश्व, राशीशा एव नवांशाधिपा
अपि भवन्ति, इन सन्तो मनीषिणो वदन्ति । अत्र सूर्याचन्द्रमसावेकैकराश्यधिपावन्ये ग्रहा
द्विराशिपा इत्यत्र वृद्धानां वचनम्—
“कण्ठीरवं विक्रमिणं विलोक्य स्वीयं पदं तत्र चकार सूर्यः ।
मैत्र्या तदासन्नतया कुलीरे निजं बबन्धालयमेणलक्ष्मा ॥
अन्ये ग्रहा गृहयियाचिषया क्रमेण शीतांशूतीग्ममहसोः सदनं समीयुः ।
प्राप्तक्रमेण ददतुर्भबनानि तौ तु ताराग्रहा द्विभवनास्तत एव जाताः” ॥ २५ ॥
मेषादि राशियोंके स्वामी कहते हैं—मेषका मंगल । वृषका शुक्र । मिथुनका बुध ।
कर्कका चन्द्रमा । सिंहका सूर्य । कन्याका बुध । तुलाका शुक्र । वृश्चिकका मंगल । धनु का
बृहस्पति । मकरका शनि । कुम्भका शनैश्चर और मीनका बृहस्पति हैं ॥ २५ ॥
मेषादिराशीशचक्रम् ।

राशिमे.वृ.मि.क.सि.कं.तु.वृ.धम.कुं.मी.
स्वामीमं.शु.बु.चं.सू.बु.शु.मं.गु.श.श.बृ.

अथ सूर्यादीनां त्रिकोणराश्यादिवर्णनम् ।
मूलत्रिकोणा हरितावुरुक्रिया वधूथनुस्तौलिघटा दिवाकरात् ।
सितासिताक्कार्किरसां नखांशकास्त्रिकोणमादौ परतः स्वमन्दिरम् ॥ २६ ॥
वृषादिभागत्रयमुच्चमिन्दोर्मूलत्रिकोणं परतस्तु सर्वम् ॥
मेषादिगा द्वादशभागसंज्ञाः कुजस्य कोणं परतः स्वभं स्यात् ॥ २७ ॥
कन्याऽर्द्धमुच्चं, शशिनस्य कोणं दशांशकाः, स्वर्चफलं शरांशाः ।
कुम्भस्त्रिकोणं, फणिनायकस्य तुङ्गं नृयुग्मं, रमणी गृहं स्यात् ॥ २८ ॥
सूर्यादीनां मूलत्रिकोणराशय उच्यन्ते । हरितावुरुक्रियावधूथनुस्तौलिघटाः,
दिवाकरात्=सूर्यादेः, मूलत्रिकोणानि भवन्ति । यथा सूर्यस्य हरिः=सिंहो मूलत्रिकोण-
संज्ञः । चन्द्रस्य तावुरुर्वृषः । कुजस्य क्रियः = मेषः । बुधस्य वधूः = कन्या । गुरोर्धनुः ।
शुक्रस्य तौली=तुला । शनैश्चरस्य घटः=कुम्भो मूलत्रिकोणसंज्ञो भवति । तथाऽऽह वराहः—
“सिंहो वृषः प्रथमषष्ठहयाङ्गतौलिकुम्भास्त्रिकोणभवनानि भवन्ति सूर्यात्” इति ।
अथ सूर्यस्य सिंहः स्वगृहं तदेव मूलत्रिकोणमुक्तम्, किमित्युच्यते-सितासिताकार्गि-
२ जा०