सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 309, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 309

द्वयादिग्रहयोगाध्यायः ॥ ८ ॥ २८३
वित्तागारसुहृत्प्रियः शशिसुते चातुर्यहास्याग्रणी-
जीवे शिष्टरतः सिते सुतसुखी मन्दे परान्नो धनी ॥ १०७ ॥
ख्यातः सुखी सुहृत्प्रीतश्चातुर्यगुणवान् सुधीः ॥
भोगी परान्नभोक्ता च मित्रराशिफलं क्रमात् ॥ १०८ ॥
परद्रव्योपभोक्ता स्यादेको मित्रक्षगो ग्रहः ।
द्वौ सुहृद्वित्तभोगी स्यात् त्रयः स्वार्जितवित्तभुक् ॥ १०६ ॥
सुहृच्चतुष्टये दाता गणपः पञ्चखेचराः ।
चमूपः षड्ग्रहाः सप्त ग्रहाः स्याद्धरणीपतिः ॥ ११० ॥
त्रिभिरुच्चंगतैर्भूपास्त्रिभिर्मन्त्री स्वराशिगैः ।
त्रिभिरस्तं गतैर्दासः त्रिभिर्नीचं गतैर्जडः ॥ १११ ॥
इदानीं स्वस्वमित्रक्षेत्रे ग्रहाणां फलान्युच्यन्ते । जन्मकाले त्रयो ग्रहा उच्चगताः
यदि भवेयुस्तदा जातो राजा भवति । त्रयो ग्रहाः स्वराशिगताः स्युस्तदा जातो राज्ञो
मन्त्री भवति । यदि त्रयो ग्रहा अस्तंगताः = सूर्यरश्मिपरिभूताः स्युस्तदा जातो दासो
भृत्यो भवति । त्रयो ग्रहा यदि स्वनीचगताः स्युस्तदा जातो जडो भवति । शेषं सर्वं
स्पष्टार्थकमिति ॥ १०७-१११ ॥
सूर्य मित्रगृहमें हो तो दृढमित्र, दाता, और यशस्वी हो । चन्द्रमा हो तो बहुत मान्य,
सुखी-धनी हो । मङ्गल हो तो धन-गृह-मित्र-प्रिय हो । बुध हो तो चतुर, हास्यमें अग्रणी
हो । गुरु हो तो अच्छे लोगोंका प्रेमी हो । शुक्र हो तो पुत्रसुखी, शनि हो तो दूसरेके
अन्नसे धनी हो ॥ १०७ ॥
ख्यात (नामी), सुखी, मित्रप्रीति, चतुरगुणवान्, सुधी, भोगी, परान्नभोजी, ये क्रमसे
मित्रराशिगत सूर्यादि ७ ग्रहोंके फल हैं ॥ १०८ ॥
एक ग्रह मित्रराशिमें हो तो परद्रव्यका भोगी, दो मित्रगृहीमें हों तो मित्र धनका
भोगी हो । तीन हों तो धन पैदा कर के भोग करे ॥ १०९ ॥
चार मित्रगृहीमें हों तो दाता हो । पांच ग्रह हों तो मुखिया हो । छः ग्रह हों तो सेना
पति हो । सात ग्रह हों तो राजा हो ॥ ११० ॥
तीन ग्रह उच्च राशिमें हों तो राजा हो । तीन ग्रह अपनी राशिमें हों तो मन्त्री हो ।
तीन ग्रह अस्त हों तो दास हो और तीन ग्रह नीच राशिमें हों तो जड़ होता है ॥ १११ ॥
अथ शत्रुक्षेत्रस्थफलम् ।
शत्रुक्षेत्रगते रवौ पितृसुखत्यागी च सेवापरः
शीतांशौ यदि मातृदुःखनिरतो हृद्रोगशाली भवेत् ।
भूसूनौ विकलोऽकृतज्ञमलिनः सौम्ये सुखी पापधी-
जीवे भव्यरतः सिते तु भृतको मन्देऽध्यशोकाकुलः ॥ ११२ ॥
मिश्रदा रिपुगाः पञ्च षड् ग्रहा हीनसौख्यदाः ।
सर्वदुःखकराः सप्त मूढाः कुर्वन्त्यशोभनम् ॥ ११३ ॥
इदानीं शत्रुक्षेत्रस्थानां ग्रहाणां फलानि श्लोकद्वयेनोच्यन्ते । यदि जन्मकाले पञ्च
ग्रहा रिपुगाः = शत्रुराशिगताः स्युस्तदा ते मिश्रदाः=शुभाशुभविमिश्रफलदा भवन्ति । षड्-
ग्रहाः शत्रुराशिगता हीनसौख्याः = सौख्यविहीनं जातकं कुर्वन्ति । सप्त ग्रहाः शत्रुरा-
शिस्थाः सर्वदुःखकराः = विविधदुःखदायका भवन्ति । एवमेवोक्तप्रकारेण मूढाः = अस्तङ्गता
ग्रहाः जातकस्याशोभनं कुर्वन्तीति । अन्यत्स्पष्टमेवेति ॥ ११२-११३ ॥
सूर्य शत्रुक्षेत्रमें हो तो पितृसुखका त्यागी, दूसरेका सेवक हो । यदि चन्द्रमा हो तो