जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
पृष्ठ 29, कुल 588 में से
संदर्भ में पढ़ेंराशिशीलाध्यायः ॥१॥
कुलीरकर्कटककर्कटाख्याः कण्ठीरवः सिंहमृगेन्द्रलेयाः ।
पाथोनकन्यारमणीतरुण्यस्तौली वणिक्जूकतुलाधटाश्च ॥ ५ ॥
अल्यष्टमं वृश्चिककौर्पिकीटाः धन्वी धनुश्चापशरासनानि ।
मृगो मृगास्यो मकरश्च नक्रः कुम्भो घटस्तोयधराभिधानः ॥ ६ ॥
मीनान्त्यमत्स्यपृथुरोमझषा वदन्ति दस्रादिकर्क्षनवपाद्युताः क्रियाद्याः ।
चक्रस्थिता दिविचरा दिननाथसंख्याः क्षेत्रर्क्षराशिवभवनानि भसंज्ञितानि ॥ ७ ॥
इदानीं राशीनां नामान्तराण्युच्यन्ते—
मेषः, अजः, विश्वः, क्रियः, तुम्बुरः, आद्यश्चैते मेषराशेः पर्यायाः सन्ति ।
वृषः, उक्षः, गौः, तावुरुः, गोकुलमित्येता वृषराशेः संज्ञाः ।
मिथुनं = मिथुनराशि द्वन्द्वं, नृयुग्मं, जुतुमं, यमं, युगं, तृतीयं च विज्ञा वदन्ति ।
कुलीरः, कर्काटकः, कर्कट इत्येताः कर्कराशेराख्याः = संज्ञाः ।
कण्ठीरवः, सिंहः, मृगेन्द्रः, लेय इत्येते सिंहराशेः पर्यायाः ।
पाथोनः, कन्या, रमणी, तरुणीत्येते कन्याराशेः पर्यायाः ।
तौली, वणिक्, जूकः, तुला, घटश्चैते तुलाराशेः पर्यायाः ।
अलिः, अष्टमं, वृश्चिकः, कौर्पिः, कीटश्चैते वृश्चिकराशेः पर्यायाः ।
धन्वी, धनुः, चापं, शरासनमित्येते धनूराशेः पर्यायाः ।
मृगः, मृगास्यः, मकरः, नक्रश्चैते मकरराशेः पर्यायाः ।
कुम्भः, घटः, तोयधरश्चैते कुम्भराशेः पर्यायाः ।
मीनः, अन्त्यः, मत्स्यः, पृथुरोमः, झषश्चैता मीनराशेः संज्ञा विबुधा वदन्ति ।
अथ नक्षत्रसङ्गता राशयो बुधैः कथं ज्ञायन्ते ? इत्यत आह—दस्रादिकर्क्षनवपाद्युताः =
आश्विन्यादिनक्षत्राणां नवभिर्नवभिः पादैर्युताः सङ्गताः ( अत्रेदमवधेयं-प्रतिनक्षत्रं चत्वारः
पादास्तथा = नवभिः पादैरेको राशिरिति । दस्रादिसप्तविंशतिनक्षत्राणामष्टोत्तरशतसंख्याकाः
पादास्तैर्द्वादशराशयोऽतो नवभिः पादैरेको राशिरिति युक्तम् ) क्रियाद्याः = मेषाद्याः, दिननाथ-
सङ्ख्या दिननाथः सूर्यस्तत्सङ्ख्या द्वादशमिता इत्यर्थः “द्वादशात्मा दिवाकर” इत्युक्तेः ।
दिविचराः = आकाशचारिणो राशयश्चक्रस्थिताश्चक्राकारे ( वृत्ताकारे ) वर्त्तमाना भसंज्ञितानि =
भमिति संज्ञा येषां तानि ( 'भम्' इति राशेः पर्यायः ) क्षेत्रर्क्षराशिवभवनानि = क्षेत्रम्, ऋक्षं
राशिः, भवनमित्येतानि नामान्तराणि भजन्ते । अत्र राशिरैव क्षेत्रमृक्षं भं भवनमित्यादि-
नामान्तरैर्गृह्यते ।
तथोक्तं वराहेण बृहज्जातके—
“राशिक्षेत्रगृहर्क्षभानि भवनञ्चैकार्थसम्पत्ययाः इति” ॥ ७ ॥
मेष, अज, विश्व, क्रिय, तुंबुर, और आद्य मेषके नाम हैं । वृष, उक्ष, गो, तावुरु और
गोकुल, वृषके नाम हैं । द्वन्द्व, नृयुग्म, यम, युग और तृतीय, मिथुनको कहते हैं ॥ ४ ॥
कुलीर, कर्काटक और कर्कट, कर्कको कहते हैं । कंठीरव, सिंह, मृगेन्द्र और लेय सिंह
को कहते हैं । पाथोन, कन्या, रमणी और तरुणी, कन्याको कहते हैं । तौली, वणिक्, जूक,
तुला और घट, तुलाको कहते हैं ॥ ५ ॥
अलि, अष्टम, वृश्चिक, कौर्पि और कीट, वृश्चिकके नाम हैं । धन्वी, धनुः, चाप और
शरासन, धनुके नाम हैं । मृग, मृगास्य, मकर और नक्र, मकरके नाम हैं । कुम्भ, घट और
तोयधर, कुम्भको कहते हैं ॥ ६ ॥