जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
DevanagariHindipublished588 पृष्ठ
पृष्ठ 27, कुल 588 में से
संदर्भ में पढ़ेंपृष्ठ 27
॥ श्री मङ्गलमूर्तये नमः ॥
जातकपारिजातः
सुधाशालिनी-विमला-टीकाभ्यां पल्लवितः
अथ राशिशीलाध्यायः ।
श्रीकान्ताजशिवस्वरूपममरज्योतिर्गणस्वामिनं
मायातीतमशेषजीवजगतमीशं दिनेशं रविम् ॥
नत्वा गर्गपराशरादिरचितं सङ्गृह्य होराफलं
वक्ष्ये जातकपारिजातमखिलज्योतिर्विदां प्रीतये ॥ १ ॥
- सुधाशालिनी *
श्रीकान्तं कमनीयकञ्जनयनं हृन्मन्दिरे संस्थितं,
देवीं दैन्यविनाशिनीं विनमतामाराधयन् सर्वदाम् ।
ग्रन्थे जातकपारिजात इह ये मुह्यन्ति तेषां कृते
काश्यां 'श्रीकपिलेश्वरो' वितनुते टीकां "सुधाशालिनीम्" ॥
अथायमाचार्यो भारद्वाजकुलोद्भवः श्रीवैद्यनाथ इति नाम्ना प्रसिद्धो ज्यौतिषविषये
जातकपारिजात-नामकं ग्रन्थं चिकीर्षुः 'देवाधीनं जगत्सर्वमि'त्यतो जगति सर्वस्मिञ्छुभकार्ये
देवार्चनं कार्यमिति सत्सम्प्रदायमनुपालयन् विधेयविषयस्य च कुशलेन परिसमाप्तिमिच्छन्
स्वविषयाधिष्ठातृदेवस्य श्रीसूर्यस्य नमस्कारात्मकं मङ्गलं कर्त्तव्यवस्तुनिदर्शनं च करोति श्रीति—
श्रीकान्ताजशिवस्वरूपं = श्रियो लक्ष्म्याः कान्तो विष्णुः, अजो ब्रह्मा, शिवश्चेति
त्रिदेवस्वरूपं "त्रिमूर्तिस्तु दिवाकर" इत्युक्तेः । अमरज्योतिर्गणस्वामिनं = अमरा देवा
ज्योतींषि ग्रहनक्षत्राद्यस्तेषां गणानामखिलानां स्वामिनं प्रकाशकत्वेनाधिपतिम् । अत्रेदमुक्तं
भवति—सूर्यं एवाखिलानि ज्योतींषि प्रकाशयति । तथोक्तं कमलाकरेण—
“तेजसां गोलकः सूर्यो ग्रहर्क्षाण्यम्बुगोलकाः ।
प्रभावन्तो हि दृश्यन्ते सूर्यरश्मिप्रदीपिताः" ॥
मायातीतं = सत्स्वरूपमित्यर्थः । अशेषजीवजगतमीशं = सकलचराचरजीवानां नायक-
मात्मत्वेनाधिपतिं "सूर्य आत्मा जगतस्तस्थुषश्चे'ति श्रुतेः । दिनेशं = दिनाधिपतिं, यतो
रवेरुदयादेव दिनप्रवृत्तिरिति । "दिनं दिनेशस्य यतोऽत्रदर्शने" इति भास्करोक्तेः । रवि =
श्रीसूर्यं, नत्वा = नमस्कृत्य, गर्गपराशरादिरचितं = गर्ग-पराशरप्रमुखर्षिप्रणीतं, होराफलं =
जातकशास्त्रं, सङ्गृह्य = सङ्कलय्य, अखिलज्योतिर्विदां = सकलज्योतिश्शास्त्रवेत्तॄणां, प्रीतये =
प्रमोदाय "मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदः" इत्यमरः । जातकपारिजातं = जातकेषु
( जातकशास्त्रेषु ) पारिजातं ( सुरतरुं ) "पञ्चैते देवतरवो मन्दारः पारिजातकः" इत्यमरः ।
अमुं ग्रन्थं वक्ष्येऽहमिति शेषः । प्रकृतग्रन्थादौ श्रीपदोपादानं सर्वेषां श्रेयःसूचकमित्यलं
पल्लवितेन ॥ १ ॥