सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 209, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 209

जातकमङ्गाध्यायः ॥ ६ ॥ १८३
इदानीं वामनहीनाङ्गयोगौ कथ्येते । मकरान्त्यविलग्ने = मकरराशेरन्त्यो नवांशको लग्ने
भवेत् तस्मिन् सौरशशाङ्कदिवाकरदृष्टे = शनिश्चन्द्रसूर्यैरवलोकिते जातो वामनको लघूकायो
भवति । धीनवमेति । धीः पञ्चमः, नवमः, उदयो लग्नं एतत्त्रयगतैर्द्रेष्काणैः पापयुतैः, सौर-
शशाङ्कदिवाकरदृष्टैर्जातोऽभुजाङ्घ्रिशिराः स्यात् । अत्र पञ्चमे भावे यो द्रेष्काणस्तस्मिन्पापे-
नाङ्गारकेण युते सूर्यचन्द्रशनिभिर्दृष्टे जातोऽभुजो भुजहीनो भवेत् । नवमे भावे यो द्रेष्का-
णस्तस्मिन्नङ्गारकेण युते सूर्यचन्द्रशनिदृष्टे जातोऽङ्घ्रिहीनो विपदो भवेत् । लग्ने यो द्रेष्का-
णस्तस्मिन्भौमे गतवति सौरशशाङ्कदिवाकरदृष्टे जातोऽशिराः शिरोरहितो भवेदिति ।
तथोक्तं भगवता गार्गिणा—
“लग्नेद्रेष्काणगो भौमः सौरसूर्येन्दुवीक्षितः । कुर्याद् विशिरसं तद्वत्प्रक्रमे बाहुवर्जितम् ।
विपदं नवमस्थाने यदि सौम्यैर्न वीक्षितः” इति ।
अत्रापि शुभदृष्टिसत्त्वे उक्तयोगानां भङ्ग एव भवति ‘यदि सौम्यैर्न वीक्षितः’ इति गार्गि-
वचनाद्बोध्यम् । अत्र ५१ श्लोकस्तु ५० श्लोकोक्तधीनवमोदयगैश्च दृगाणैरित्यस्य स्पष्टीक-
रणमेवेत्यलं विस्तरेण ॥ ५०-५१ ॥
मकरके अन्त्यका ( ९।२७°-३०° ) लग्न हो उसे शनि, चन्द्र और सूर्य देखते हों तो
वामन हो । पञ्चम, नवम और लग्नका द्रेष्काण पापग्रहसे युक्त हो तो जातक क्रमसे बिना
हाथ, पैर, शिरका होवे ॥ ५० ॥
लग्नके द्रेष्काणमें मङ्गल हो शनि, सूर्य और चन्द्रमा उसे देखते हों तो बिना शिरवाला
हो और यही योग पञ्चममें हो तो हस्तहीन हो । ( सु शा. कार ) ॥ ५१ ॥
रविशशियुते सिंहे लग्ने कुजार्किनिरीक्षिते
नयनरहितः सौम्यासौम्यैः सबुद्बुदलोचनः ॥
व्ययगृहगतश्चन्द्रो वामं हिनस्त्यपरं रवि-
र्न शुभगदिता योगा याप्या भवन्ति शुभेक्षिताः ॥ ५२ ॥
इदानीं विकलनयनयोगा उच्यन्ते । सिंहे लग्ने रविशशियुते=सूर्यचन्द्रमसौ जन्मलग्न-
अन्तर्गतसिंहराशौ भवेतां तस्मिन्, कुजार्किनिरीक्षिते=भौमशनिभ्यामवलोकिते जातो नयन-
रहितोऽन्धो भवति । तस्मिन्नेव योगे सौम्यासौम्यैः = शुभग्रहैः पापग्रहैश्च निरीक्षिते जातः
सबुद्बुदलोचनः=पुष्पिताक्षः ( Blear eyed ) भवति=अत्रैतदवधेयम् । यदि सिंहलग्ने
केवलं सूर्यः कुजार्किनिरीक्षितो भवेत्तदा दक्षिणाक्षिकाणः, मिश्रग्रहैर्निरीक्षितस्तदा दक्षिण-
बुद्बुदाक्षो भवति । केवलं चन्द्रः सिंहलग्ने कुजार्किनिरीक्षितो वामाक्षिकाणः, सौम्यासौम्यै-
र्निरीक्षितो वाम-बुद्बुदाक्षो भवति । व्ययगृहेति । चन्द्रो लग्नाद् व्ययगृहं गतो द्वादशभा-
वगतश्चेद् वामं नेत्रं हिनस्ति । तदानीं जातो वामाक्षिकाणो भवति : रविर्व्ययगृहगतोऽपरं =
दक्षिणं नयनं हिनस्ति । न शुभगदितेति । पूर्वोक्ताः सर्वे योगा न शुभगदिताः = अशुभफल-
दास्ते चेच्छुभेक्षिताः=शुभग्रहदृष्टा भवेयुस्तदा याप्या भवन्ति । पूर्णं फलं न ददति किन्तु
किञ्चिदेव फलं प्रयच्छन्तीत्यर्थः । तथैवाह सारावल्याम्—
स्यातां यद्याधाने रविशशिनौ सिंहराशिगौ लग्ने ।
दृष्टौ कुजसौरिभ्यां जात्यन्धः सम्भवति तत्र ॥
आग्नेयसौम्यदृष्टौ रविशशिनौ बुद्बुदेक्षणं कुरुतः ।
नयनविनाशोऽपि यथा तथाऽधुना सम्प्रवक्ष्यामि ॥
व्ययभवनगतश्चन्द्रो वामं चक्षुर्विनाशयति हीनः ।
सूर्यस्तथैव चान्यच्छुभेक्षितौ याप्यतां नयतः ॥ इति ॥