जैमिनीय ब्राह्मण (सामवेद का प्राचीनतम गूढ़ ब्राह्मण ग्रन्थ - सरस्वती विहार संस्करण)
Jaiminiya Brahmana of the Samaveda with Commentary
महर्षि जैमिनि (सम्पादक: प्रो. रघुवीर एवं लोकेश चन्द्र) द्वारा
पृष्ठ 101, कुल 106 में से
संदर्भ में पढ़ें१.३५८ ] जैमिनीयब्राह्मणम् [ ९३
१ श वेत्रोर् | ३ कोशेषु ॰क्रयण- | ५ र ॥ ५६ ॥
२ ! कोशेषु भिरे | ४-४ कोशेषु भीषडेवात्तो
—शुकाञ् शार्वो ऽभिषुणुयुः । सोमो वै राजा यद् इमं
लोकम् आजगाम स शाल्त्व् एव तद् उवास । स एवास्य संन्यङ्गः ।
तम् एव तद् अभिषुण्वन्ति ॥
यदि तं न विन्देयुः पर्णम् अभिषुणुयुः । सोमं वै राजानं यत्
सुपर्ण आजहार तस्य यत् पर्णम् अपतत् स एव पर्णो ऽभवत् ।
स एवास्य संन्यङ्गः । तम् एव तद् अभिषुण्वन्ति ॥
यदि तं न विन्देयुर् या एव काश् चौषधीर् अभिषुणुयुः । सोमं
वै राजानं यत् सुपर्ण आहरन् समभिनत् तस्य या विप्रुषो ऽपतंस्
ता एवेमा ओषधयो ऽभवन् । सर्वा उ ह वै सौम्या ओषधयः ।
स एवास्य संन्यङ्गः । तम् एव तद् अभिषुण्वन्ति ॥
प्रतिधुक् प्रातःसवने ऽवनयेच् छतं माध्यन्दिने सवने दधि तृती-
यसवने । तम् उ तं सोमम् एव प्रत्यक्षं भक्षयन्ति यत् पयः ।
ओषधीनां हि स रसः ॥
पञ्च दक्षिणा दद्यात् । पाङ्क्तो यज्ञः । यावती यज्ञस्य मात्रा
तस्याम् एवैतत् प्रतितिष्ठन्ति । अवभृथाद् उदेत्य पुनर् दीक्षेत ।
स यावद् दास्यन् स्यात् तद् दद्यात् । सैव तत्र प्रायश्चित्तिः ॥ ३५५ ॥१
१ र ॥ ५७ ॥
यद् अर्वाक् स्तुतम् अस्तुतं तत् । यद् अतिष्टुतं दुष्टुतं
तत् । यत् संप्रति तत् स्तुतम् । यद् अर्वाङ् स्तुयुर् उत्तरे स्तोत्रे
तावतीर् वोपप्रस्तुयुर् भूयोक्षरासु वा स्तुवीरन् । न्यून एव तद्
अतिरिक्तं दधति मिथुनत्वाय प्रजननाय ॥
यद् अतिष्टुयुर् उत्तरे स्तोत्रे तावतीभिर् वा न स्तुवीरन् कनी-
योक्षरासु वा स्तुवीरन् । अतिरिक्त एव वा तन् न्यूनं दधति
न्यूने वातिरिक्तं मिथुनत्वाय प्रजननाय । मिथुनेन जायते य
एवं वेद ॥
यद् अर्वाक् स्तुयुस् त्रीळम् अभिष्टोमसाम कुर्युः । द्वे यज्ञस्य
छिद्रम् अपिदधतः । स्व१ आयत१ एका भवति । यद्य् अतिष्टुयुस्
स्वारम् अभिष्टोमसाम कुर्युः । न्यूनो वै स्वरः । अस्य् एतद्
रेचयन्ति यद् अतिष्टुवन्ति । यद् एकयातिष्टुतं विराड् सा
लोमशा । यद् द्वाभ्यां स्तनौ तौ । यत् तिसृभिर् २दोहस् संः।
दोग्धा३ ह्य् एव यत् तृतीयः । यच् चतसृभिस् स्तनास् ते । यत्
पञ्चभिर् ४दोहः सः४ । दोग्धा५ ह्य् एव पञ्चमः । षष्ठ्या वा त्वै
सप्तम्या वातिष्टुतम् ॥ ३५६ ॥६
१ ? पूर्वं कोशेषु | ३ ? कोशेषु दोग्ध्वा | ५ वश दोग्ध्वा
२-२ कोशेषु दोहस्व | ४-४ कोशेषु दोहस्व | ६ र ॥ ५८ ॥
अथै प्रजापतिः प्राजिजनिषत । स तपो ऽतप्यत । स ऐक्षत
हन्ते॑ नु प्रतिष्ठां जनये ततो याः प्रजास् सृक्ष्ये ताम् एतद् एव
प्रतिष्ठास्यन्ति नाप्रतिष्ठिताश् चरन्तीः प्रदर्धिष्यन्त इति । स इमं
लोकम् अजनयद् अन्तरिक्षलोकम् अमुं लोकम् इति ॥
तान् इमांस् त्रीन् लोकान् जनयित्वान्वभ्याश्राम्यत् । तान् समतपत् ।
तेभ्यस् संतप्तेभ्यस् त्रीणि शुक्राण्य् उदायन्नू अग्निः पृथिव्या वायुर्
अन्तरिक्षाद् आदित्यो दिवः ॥
स एतानि शुक्रा