सामग्री पर जाएँ
सर्वकोश
ईश्वरप्रत्यभिज्ञाविमर्शिनी (महामाहेश्वर अभिनवगुप्त - उत्पलदेव प्रणीत प्रत्यभिज्ञा महाभाष्य सटीक)

ईश्वरप्रत्यभिज्ञाविमर्शिनी (महामाहेश्वर अभिनवगुप्त - उत्पलदेव प्रणीत प्रत्यभिज्ञा महाभाष्य सटीक)

Ishvara Pratyabhijna Vimarshini of Abhinavagupta with Commentary

आचार्य उत्पलदेव / अभिनवगुप्त द्वारा

DevanagariHindipublished343 पृष्ठ

पृष्ठ 10, कुल 343 में से

संदर्भ में पढ़ें
पृष्ठ 10

प्रशस्तिः
स्वयंप्रकाशस्य चिदात्मनो मे स्वातन्त्र्यमेतन्नहि किञ्चिदन्यत् ।
शिवादभूम्यन्तसमस्तविश्वरूपेण चैकोऽपि विभामि योऽहम् ॥
जगदिदं सच्चिदानन्दरूपम् । परमेश्वरोऽन्तर्बहिः पारिपूर्ण्येन समुच्छलत्तदनन्तविश्वलहरीनिर्भरः पूर्णोऽहं
विमर्शमयचिच्चमत्कारशालिनि स्वमहिम्नि एव अवस्थितः न तु मनागपि संकोचकलनाभिन्नवेद्यवेदकाद्यात्मा
त्रैकालिकी बाह्यत्वेन समुदेतीति । अथ च स एवानन्तघनतया समुच्छलत्स्वभावः स्वेच्छयैव स्वस्मादेव निरुपादान-
सहकारिकरणादिसम्भारं विश्वक्रीडामुद्दिभासयिष्यन् स्व-स्वातन्त्र्येण शुद्धाशुद्धविमिश्ररूपाणि परस्परापोहनेन
अवभासमानानि मातृ-मेयादीनि तत्सम्बन्धांश्च कार्यकारणभाववैचित्र्यादीन् दर्पणप्रतिबिम्बवदनतिरिक्तानपि अति-
रिक्तवद्ववभासयति स्वात्मनि एव देशकालाद्युपहितान् । निर्भासितां च तेषां कालाद्यकलितः स एव पारमार्थिक-
स्वभाव इति वस्तुतो हि सृज्यते स्थाप्यते संह्रियते चेति । आनन्दघनश्चिदाकाश एव पूर्णतापूर्णतरस्तथा तथा
पूर्णमानश्चकास्तीति षडर्धशास्त्रापराख्यप्रत्यभिज्ञाशास्त्रसम्प्रदायः —
श्रीसोमानन्ददेवैः परमशिवमतं ग्रन्थितं यत्पुराऽभूत्
तत्र व्याख्योत्पलाचार्यैरपि पृथुरुदिता प्रत्यभिज्ञेश्वरस्य ।
तस्यां वैमर्शनाम्नाऽभिनवमृदुपदा सर्वगम्यैव हिन्दी
श्रीकृष्णानन्दवर्यैः सुरगुरुमतिभिः सागरैरभ्यधायि ॥
इति शम् ।
पण्डितराजः
राष्ट्रपतिसन्मानितः
म. म. श्रीगोपालशास्त्रिदर्शन-
केशरी