हितोपदेशः (हिन्दी अनुवाद सहित)
नारायण पण्डित द्वारा
स्रोत: हितोपदेशः (हिन्दी अनुवाद सहित) · चौखम्बा विद्याभवन · 2017 (उद्गम)
पृष्ठ 98, कुल 302 में से
संदर्भ में पढ़ें[Page Header: ७८ हितोपदेशः [ मित्रलाभः २०८-]
ततो महापङ्के निमग्नो हस्ती शृगालैर्भक्षितः । अतोऽहं ब्रवीमि—
“उपायेन हि यच्छक्यम्” इत्यादि । ततः कुट्टिन्युपदेशेन तं चारु-
दत्तनामानं वणिक्पुत्रं स राजपुत्रः सेवकं चकार । ततोऽसौ तेन
सर्वविश्वासकार्येषु नियोजितः ।
फिर बड़ी कीचड़में फँसे हुए हाथीको गीदड़ोंने खा लिया। इसलिये मैं कह-
ता हूं-कि “उपायसे जो हो सकता है” इत्यादि. फिर उस राजपुत्रने कुटनीके
उपदेशसे चारुदत्त नाम बनियेके पुत्रको सेवक बनाया। पीछे इसको उसने सब
विश्वासके कार्योंमें नियुक्त कर दिया.
एकदा तेन राजपुत्रेण स्नातानुलिप्तेन कनकरत्नालंकार-
धारिणा प्रोक्तम्-‘अद्यारभ्य मासमेकं गौरीव्रतं कर्तव्यम् । तदत्र
प्रतिरात्रमेकां कुलीनां युवतीमानीय समर्पय । सा मया यथो-
चितेन विधिना पूजयितव्या ।’ ततः स चारुदत्तस्तथाविधां
नवयुवतीमानीय समर्पयति । पश्चात्प्रच्छन्नः सन्किमयं करो-
तीति निरूपयति । स च तुङ्गबलस्तां युवतीमस्पृशन्नेव दूरा-
द्वस्त्राऽलंकारगन्धचन्दनैः संपूज्य रक्षकं दत्त्वा प्रस्थापयति ।
अथ वणिक्पुत्रेण तद्दृष्ट्रोपजातविश्वासेन लोभाकृष्टमनसा स्ववधू-
र्लावण्यवती समानीय समर्पिता । स च तुङ्गबलस्तां हृदयप्रियां
लावण्यवतीं विज्ञाय ससंभ्रममुत्थाय निर्भरमालिङ्ग्य निमीलि-
ताक्षः पर्यङ्के तया सह विललास । तदालोक्य वणिक्पुत्रश्चित्र-
लिखित इवेतिकर्तव्यतामूढः परं विषादमुपगतः । अतोऽहं
ब्रवीमि—“स्वयं वीक्ष्य” इत्यादि । तथा त्वयापि भवितव्यम्’
इति । तद्धितवचनमवधीर्य महता भयेन विमुग्ध इव तं
जलाशयमुत्सृज्य मन्थरश्चलितः । तेऽपि हिरण्यकादयः
स्नेहादनिष्टं शङ्कमाना मन्थरमनुगच्छन्ति । ततः स्थले गच्छत्के-
नापि व्याधेन काननं पर्यटता मन्थरः प्राप्तः । प्राप्य तं गृहीत्वो-
त्थाप्य धनुषि बद्ध्वा श्रमक्लेशात्क्षुत्पिपासाकुलः स्वगृहाभिमुखं
चलितः । अथ मृगवायसमूषकाः परं विषादं गच्छन्तस्तमनुजग्मुः ।