हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
५६ हठयोगप्रदीपिका
अपानमिति । अपानमपानवायुमूर्ध्वमुत्थाप्याधाराकुञ्चनेन प्राणं प्राणवायुं
कण्ठादधः अधोभागे नयेत् प्रापयेद् यः स योगी, योगोऽस्यास्ति अभ्यस्तत्वेनेति
योगी योगाभ्यासी जरया वार्धकेन विमुक्तो विशेषेण मुक्तः सन् । षोड-
शानामब्दानां समाहारः षोडशाब्दम्, षोडशाब्दं वयो यस्य स तादृशो भवेत् ।
यद्यपि 'पूरकान्ते तु कर्तव्यः' (V. 45) इत्यादिना त्रयाणां श्लोकानामेक
एवार्थः पर्यवस्यति, तथापि पूरकान्ते तु कर्तव्य इत्यनेन बन्धानां काल
उक्तः । अधस्तात् कुञ्चनेनेत्यनेन बन्धानां स्वरूपमुक्तम् । अपानमूर्ध्व-
मुत्थाप्येत्यनेन बन्धानां फलमुक्तमिति विशेषः । जालंधरबन्धे मूलबन्धे
च कृते नाभेरधोभाग आकर्षणाख्यो बन्ध उड्डियानबन्धो भवत्येवेत्यस्मिन्
श्लोके नोक्तः । तथाचोक्तं ज्ञानेश्वरेण गीताषष्ठाध्यायव्याख्यायां—'मूलबन्धे
जालंधरबन्धे च कृते नाभेरधोभाग आकर्षणाख्यो बन्धः स्वयमेव भवति'
इति ॥ ४७ ॥
अथ सूर्यभेदनम्—
आसने सुखदे योगी बद्ध्वा चैवासनं ततः ।
दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ ४८ ॥
'योगाभ्यासक्रमं वक्ष्ये योगिनां योगसिद्धये ।
उषःकाले समुत्थाय प्रातःकालेऽथ वा बुधः ॥ १ ॥
गुरुं संस्मृत्य शिरसि हृदये स्वेष्टदेवताम् ।
शौचं कृत्वा दन्तशुद्धिं विदध्याद् भस्मधारणम् ॥ २ ॥
शुचौ देशे मठे रम्ये प्रतिष्ठाप्यास नं मृदु ।
तत्रोपविश्य संस्मृत्य मनसा गुरुमीश्वरम् ॥ ३ ॥
देशकालौ च संकीर्त्य संकल्प्य विधिपूर्वकम् ।
हठयोगप्रदीपिका ५७
अद्येत्यादि श्रीपरमेश्वरप्रसादपूर्वकम् । समाधितत्फलसिद्ध्यर्थमासन-
पूर्वकान् प्राणायामादीन् करिष्ये ।
अनन्तं प्रणमेद् देवं नागेशं पीठसिद्धये ॥ ४ ॥
मणिभ्राजत्फणसहस्रविधृतविश्वंभरामण्डलायानन्ताय नागराजाय नमः ।
ततोऽभ्यसेदासनानि श्रमे जाते शवासनम् ।
अन्ते समभ्यसेत् तत्तु श्रमाभावे तु नाभ्यसेत् ॥ ५ ॥
करणीं विपरीताख्यां कुम्भकात् पूर्वमभ्यसेत् ।
जालंधरप्रसादार्थं कुम्भकात् पूर्वयोगतः ॥ ६ ॥
विधायाचमनं कृत्वा कर्माङ्गं प्राणसंयमम् ।
योगीन्द्रादीन् नमस्कृत्य कौर्माच्च शिववाक्यतः ॥ ७ ॥'
कूर्मपुराणे शिववाक्यम्—
'नमस्कृत्याथ योगीन्द्रान् सशिष्यांश्च विनायकम् ।
गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ॥ ८ ॥
बद्ध्वाभ्यासे सिद्धपीठं कुम्भकाबन्धपूर्वकम् ।
प्रथमे दश कर्तव्याः पञ्चवृद्ध्या दिने दिने ॥ ९ ॥
कार्या अशीतिपर्यन्तं कुम्भकाः सुसमाहितैः ।
योगीन्द्रः प्रथमं कुर्यादभ्यासं चन्द्रसूर्ययोः ॥ १० ॥
अनुलोमविलोमाख्यमेतं प्राहुर्मनीषिणः ।
सूर्यभेदनमभ्यस्य बन्धपूर्वकमेकधीः ॥ ११ ॥
उज्जायिनं ततः कुर्यात् सीत्कारीं शीतलीं ततः ।
भस्त्रिकां च समभ्यस्य कुर्यादन्यान्न वा परान् ॥ १२ ॥
मुद्राः समभ्यसेद् बुद्ध्वा गुरुवक्त्राद् यथाक्रमम् ।
५८ हठयोगप्रदीपिका
ततः पद्मासनं बद्ध्वा कुर्यान्नादानुचिन्तनम् ॥ १३ ॥
अभ्यासं सकलं कुर्यादीश्वरार्पणमादृतः ।
अभ्यासादुत्थितः स्नानं कुर्यादुष्णेन वारिणा ॥ १४ ॥
स्नात्वा समापयेन्नित्यं कर्म संक्षेपतः सुधीः ।
मध्याह्नेऽपि तथाभ्यस्य किंचिद् विश्रम्य भोजनम् ॥ १५ ॥
क्रियेत योगिना पथ्यमपथ्यं न कदाचन ।
एलां वापि लवङ्गं वा भोजनान्ते च भक्षयेत् ॥ १६ ॥
केचित् कर्पूरमिच्छन्ति ताम्बूलं शोभनं तथा ।
चूर्णेन रहितं शस्तं पवनाभ्यासयोगिनाम् ॥ १७ ॥
इति चिन्तामणेर्वाक्यं स्वारस्यं भजते न हि ।
केचित्पदेन यस्मात् तु तयोः शीतोष्णहेतुता ॥ १८ ॥
भोजनानन्तरं कुर्यान्मोक्षशास्त्रावलोकनम् ।
पुराणश्रवणं वापि नामसंकीर्तनं विभोः ॥ १९ ॥
सायंसंध्याविधिं कृत्वा योगं पूर्ववदभ्यसेत् ।
यदा त्रिघटिकाशेषो दिवसोऽभ्यासमांचरेत् ॥ २० ॥
अभ्यासानन्तरं कार्या सायंसंध्या सदा बुधैः ।
अर्धरात्रे हठाभ्यासं विदध्यात् पूर्ववद् यमी ॥ २१ ॥
विपरीतां तु करणीं सायंकालार्धरात्रयोः ।
नाभ्यसेद् भोजनादूर्ध्वं यतः सा न प्रशस्यते ॥ २२ ॥'
अथोद्देशानुक्रमेण कुम्भकान् विवक्षुस्तत्र प्रथमोदितं सूर्यभेदनं
तद्गुणांश्चाह त्रिभिः—आसन इति । सुखं ददातीति सुखदं तस्मिन् सुखदे ।
'शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरं ॥' (B. G., VI. 11)
हठयोगप्रदीपिका ५९
इत्युक्तलक्षणे 'विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः'
(Kaival. Up., 5) इति श्रुतेश्च चैलाजिनकुशोत्तर आसने । आस्तेऽस्मिन्नित्या-
सनम्, आस्यतेऽनेनेति वा तस्मिन् योगी योगाभ्यासी । आसनं स्वस्तिकवीरसिद्ध-
पद्माद्यन्यतमं मुख्यत्वात् सिद्धासनमेव वा बद्ध्वैव बन्धनेन संपाद्यैव
कृत्वैवेत्यर्थः । तत आसनबन्धानन्तरं दक्षा दक्षिणभागस्था या नाडी पिङ्गला
तया बहिःस्थं देहाद् बहिर्वर्तमानं पवनं वायुं शनैर्मन्दमन्दमाकृष्य पिङ्गलया
मन्दमन्दं पूरकं कृत्वेत्यर्थः ॥ ४८ ॥
आ केशादा नखाग्राच्च निरोधावधि कुम्भयेत् ।
ततः शनैः सव्यनाड्या रेचयेत् पवनं शनैः ॥ ४९ ॥
आ केशादिति । केशान् मर्यादीकृत्य आ केशात्; नखाग्रान्
मर्यादीकृत्या नखाग्रात्, निरोधस्य वायोरवरोधस्यावधिर्मर्यादा यस्मिन्
कर्मणि तत्तथा कुम्भयेत् । केशपर्यन्तं नखाग्रपर्यन्तं च वायोनिरोधो यथा भवेत्
तथातिप्रयत्नेन कुम्भकं कुर्यादित्यर्थः । ननु-
'हठान्निरुद्धः प्राणोऽयं रोमकूपेषु निःसरेत् ।
देहं विदारयत्येष कुष्ठादि जनयत्यपि ॥
ततः प्रत्यायितव्योऽसौ क्रमेणारण्यहस्तिवत् ।
वन्योगजो गजारिर्वा क्रमेण मृदुतामियात् ॥
करोति शास्तृनिर्देशान्न च तं परिलङ्घयेत् ।
तथा प्राणो हृदिस्थोऽयं योगिनां क्रमयोगतः ॥
गृहीतः सेव्यमानस्तु विश्रम्भमुपगच्छति ।'
इति वाक्यविरुद्धमतिप्रयत्नेन कुम्भकं कुर्यादिति कत्थमुक्तमिति चेन्न ।
हठान्निरुद्धः प्राणोऽयमिति वाक्यस्य बलादचिरेण प्राणजयं करिष्यामीति
६० हठयोगप्रदीपिका
बुध्यारम्भ एव । बह्वभ्यासासक्तपरत्वात् क्रमेणारण्यहस्तिवदिति दृष्टान्तस्वार-
स्याच्च । अतएव सूर्याचन्द्रमसोरभ्यासे ‘धारयित्वा यथाशक्ति’ (III. 21)
निधारयेदिति निरोधत इति चोक्तं संगच्छते । तस्मात् कुम्भकस्त्वतिप्रयत्नपूर्वकं
कर्तव्यः । यथा यथातियत्नेन कुम्भकः क्रियते तथा तथा तस्मिन् गुणाधिक्यं
भवेत् । यथा यथा च शिथिलः कुम्भकः स्यात् तथा तथा गुणालपत्वं स्यात् । अत्र
योगिनामनुभवोऽपि मानम् । पूरकस्तु शनैः शनैः कार्यः, वेगाद्वा कर्तव्यः ।
वेगादपि कृते पूरके दोषाभावात् । रेचकस्तु शनैः शनैरेव कर्तव्यः । वेगात्कृते
रेचके बलहानिप्रसङ्गात् । ततः शनैःशनैरेव रेचयेन्न तु वेगतः इत्याद्यनेकधा
ग्रन्थकारोक्तेश्च । ततो निरोधावधि कुम्भकानन्तरं शनैश्शनैर्मन्दं मन्दं सव्ये वामभागे
स्थिता नाडी सव्यनाडी तया सव्यनाड्या इडया पवनं वायुं रेचयेद् बहिर्निः-
सारयेत् । पुनः शनैरित्युक्तिस्तु शनैरेव रेचयेदित्यवधारणार्था । तदुक्तम्—
‘ विस्मये च विषादे च दैन्ये चैवावधारणे ।
तथा प्रसादने हर्षे वाक्यमेकं द्विरुच्यते ॥ ४९ ॥’ इति ।
कपालशोधनं वातदोषघ्नं कृमिदोषहृत् ।
पुनः पुनरिदं कार्यं सूर्यभेदनमुत्तमम् ॥ ५० ॥
कपालशोधनमिति । कपालस्य मस्तकस्य शोधनं शुद्धिकरं वातजा
दोषा वातदोषा अशीतिप्रकारास्तान् हन्तीति वातदोषघ्नं कृमीणामुदरे जातानां
दोषो विकारस्तं हरतीति कृमिदोषहृत् । पुनःपुनर्भूयोभूयः कार्यम् । सूर्ये-
णापूर्य कुम्भयित्वा चन्द्रेण रेचनमिति रीत्येदमुत्तममुत्कृष्टं सूर्यभेदनं सूर्यभेद-
नाख्यमुक्तं योगिभिरिति शेषः ॥ ५० ॥
अथोज्जायी—
मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः ।
यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥ ५१ ॥
पूर्ववत् कुम्भयेत् प्राणं रेचयेदिडया तथा ।
उज्जयिनमाह सार्धेन—मुखमिति । मुखमास्यं संयतं कृत्वा मुद्रयित्वे-
त्यर्थः । कंठात् तु कण्ठादारभ्य हृदयावधि हृदयमवधिर्यस्मिन् कर्मणि तत्तथा
स्वनेन सहितं यथा स्यात् तथा । उभे क्रियाविशेषणे । लगति श्लिष्यति पवन
इत्यर्थात् । तथा तेन प्रकारेण नाडीभ्यामिडापिङ्गलाभ्यां पवनं वायुं शनैर्मन्दमा-
कृष्याकृष्टं कृत्वा पूरयित्वेत्यर्थः । प्राणं पूर्ववत् पूर्वेण सूर्यभेदनेन तुल्यं
पूर्ववत् । आकेशादानखाग्राच्च निरोधावधि कुम्भयेदित्युक्तरीत्या कुम्भयेद्
रोधयेत् । ततः कुम्भकानन्तरमिडया वामनाड्या रेचयेत् त्यजेत् ॥ ५१ ॥
श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥ ५२ ॥
नाडीजलोदराधातुगतदोषविनाशनम् ।
गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकम् ॥ ५३ ॥
उज्जायिगुणानाह सार्धश्लोकेन—श्लेष्मदोषहरमिति । कण्ठे कण्ठप्रदेशे
श्लेष्मणो दोषाः श्लेष्मदोषाः कासादयस्तान् हरतीति श्लेष्मदोषहरस्तं देहानलस्य
देहमध्यगतानलस्य जाठरस्य विवर्धनं विशेषेण वर्धनं दीपनमित्यर्थः ॥ ५२ ॥
नाडीति । नाडी शिरा जलं पीतमुदकमुदरं तुन्दमासमन्ताद् देहे वर्तमाना
धातव आधातवः । एषामितरेतरद्वन्द्वः । तेषु गतः प्राप्तो यो दोषो विकारस्तं
विशेषेण नाशयतीति नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता गमनं
कुर्वता तिष्ठता स्थितेन वापि पुंसा उज्जाय्याख्यमुज्जायीत्याख्या यस्य तत् ।
तु इत्यनेनास्य वैशिष्ट्यं द्योतयति । कार्यं कर्तव्यम् । उज्जायीति क्वचित्पाठः ।
गच्छता तिष्ठता तु बन्धरहितः कर्तव्यः । कुम्भकशब्दस्त्रिलिङ्गः । पुल्लिङ्गपाठे
तु विशेषणेष्वपि पुल्लिङ्गः पाठः कार्यः ॥ ५३ ॥
६२ हठयोगप्रदीपिका
अथ सीत्कारी—
सीत्कां कुर्यात् तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् ।
एवमभ्यासयोगेन कामदेवो द्वितीयकः ॥ ५४ ॥
सीत्कारीकुम्भकमाह—सीत्कामिति । वक्त्रे मुखे सीत्कां सीदेव सीत्का
सीदिति शब्दः सीत्कारस्तां कुर्यात् । ओष्ठयोरन्तरे संलग्नया जिह्वया सीत्कार-
पूर्वकं मुखेन पूरकं कुर्यादित्यर्थः । घ्राणेनैव नासिकयैवेत्यनेनोभाभ्यां नासा-
पुटाभ्यां रेचकः कार्य इत्युक्तम् । एवशब्देन वक्त्रस्य व्यवच्छेदः । वक्त्रेण
वायोर्निःसारणं त्वभ्यासानन्तरमपि न कार्यम् । बलहानिकरत्वात् । विजृम्भिकां
रेचकं कुर्यादित्यत्रापि संबध्यते । कुम्भकस्त्वनुक्तोऽपि सीत्कार्याः कुम्भकत्वादेवा-
वगन्तव्यः । अथ सीत्कार्याः प्रशंसा । एवमुक्तप्रकारेणाभ्यासः पौनःपुन्येनानुष्ठानं
स एव योगः योगसाधनत्वात् तेन द्वितीय एव द्वितीयकः कामदेवः कन्दर्पः ।
रूपलावण्यातिशयेन कामदेवसादृश्यात् ॥ ५४ ॥
योगिनीचक्रसंमान्यः सृष्टिसंहारकारकः ।
न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ ५५ ॥
योगिनीनां चक्रं योगिनीचक्रं योगिनीसमूहः । तस्य संमान्यः संसेव्यः ।
सृष्टिः प्रपञ्चोत्पत्तिः संहारस्तल्लयः तयोः कारकः कर्ता । क्षुधा भोक्तुमिच्छा न ।
तृषा जलपानेच्छा न । निद्रा सुषुप्तिर्न । आलस्यं कायचित्तगौरवात् प्रवृत्त्यभावः ।
कायगौरवं कफादिना चित्तगौरवं तमोगुणेन । नैव प्रजायते नैव प्रादुर्भवति ।
एवमभ्यासयोगेनेति प्रजायत इति च प्रतिवाक्यं संबध्यते ॥ ५५ ॥
भवेत् सत्त्वं च देहस्य सर्वोपद्रववर्जितः ।
अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥ ५६ ॥
हठयोगप्रदीपिका ६३
भवेदिति । देहस्य शरीरस्य सत्त्वं बलं च भवेत् । अनेनोक्तेन विधि-
नाभ्यासविधिना योगीन्द्रो योगिनामिन्द्र इव योगीन्द्रो भूमिमण्डले सर्वैरुपद्रवैर्व-
र्जितः सर्वोपद्रववर्जितो भवेत् सत्यम् । ‘ सर्वं वाक्यं सावधारणम् ’ इति न्यायात् ।
यदुक्तं फलं तत् सत्यमेवेत्यर्थः ॥ ५६ ॥
अथ शीतली—
जिह्वया वायुमाकृष्य पूर्ववत् कुम्भसाधनम् ।
शनैर्घाणरन्ध्राभ्यां रेचयेत् पवनं सुधीः ॥ ५७ ॥
शीतलीकुम्भकमाह—जिह्वयेति । जिह्वया ओष्ठयोर्बहिर्निर्गतया विहङ्गमाध-
रचञ्चुसदृशया वायुमाकृष्य शनैः पूरकं कृत्वेत्यर्थः । पूर्ववत् सूर्यभेदनवत्
कुम्भस्य कुम्भकस्य साधनं विधानं कृत्वेत्यध्याहारः । सुधीः शोभना
धीर्यस्य सः । घ्राणस्य रन्ध्रे ताभ्यां नासापुटविवराभ्यां शनकैः शनैरेव ।
‘ अव्ययसर्वनाम्नाम्— ’ (Pāṇ., V. 3. 71) इत्यकच् । पवनं वायुं
रेचयेत् ॥ ५७ ॥
गुल्मप्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषाम् ।
विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ ५८ ॥
शीतलीगुणानाह—गुल्मश्च प्लीहश्च गुल्मप्लीहौ रोगविशेषावादी येषां-
ते गुल्मप्लीहादिकास्तान्, रोगानामयान्, ज्वरं ज्वराख्यं रोगम्, पित्तं पित्तविका-
रम्, क्षुधां भोक्तुमिच्छाम्, तृषां जलपानेच्छाम्, विषाणि सर्पादिविषजनित-
विकारान् । शीतली नामेति प्रसिद्धार्थकमव्ययम् । इयमुक्ता कुम्भिका निहन्ति
नितरां हन्ति । कुम्भशब्दः स्त्रीलिङ्गोऽपि । तथाच श्रीहर्षः—‘ उदस्य कुम्भीरथ
शातकुम्भजाः’ (Nai., V. 19) इति ॥ ५८ ॥
६४ हठयोगप्रदीपिका
अथ भस्त्रिका—
ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे ।
पद्मासनं भवेदेतत् सर्वपापप्रणाशनम् ॥ ५९ ॥
भस्त्राकुम्भकस्य पद्मासनपूर्वकमेवानुष्ठानात् तदादौ पद्मासनमाह—
ऊर्वोरिति । उपर्युत्ताने शुभे शुद्धे उभे द्वे पादयोस्तलेऽधःप्रदेशौ ऊर्वोः संस्थाप्य
सम्यक् स्थापयित्वा वसेत् । एतत् पद्मासनं भवेत् । कीदृशम् ? सर्वेषां पापानां
प्रकर्षेण नाशनम् । अत्रोपरीत्यव्ययमुत्तानवाचकम् । तथा च कारकेषु
मनोरमायाम्—'उपर्युपरि बुद्धीनाम्' (p. 563) इत्यत्रोपरिबुद्धीनामित्यस्यो-
त्तानबुद्धीनामिति व्याख्यानं कृतम् ॥ ५९ ॥
सम्यक् पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः ।
मुखं संयम्य यत्नेन घ्राणेन रेचयेत् ॥ ६० ॥
भस्त्रिकाकुम्भकमाह—सम्यगिति । ग्रीवा च उदरं च ग्रीवोदरम् ।
प्राण्यङ्गत्वादेकवद्भावः । समं ग्रीवोदरं यस्य स समग्रीवोदरः, सुस्थिता धीर्यस्य
स सुधीः, पद्मासनं सम्यक् स्थिरं बद्ध्वा मुखं संयम्य संयतं कृत्वा
यत्नेन प्रयत्नेन घ्राणेन घ्राणस्यैकतरेण रन्ध्रेण प्राणं शरीरान्तःस्थितं वायुं
रेचयेत् ॥ ६० ॥
यथा लगति हृत्कण्ठे कपालावधि सस्वनम् ।
वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥ ६१ ॥
रेचकप्रकारमाह—यथेति । हृच्च कण्ठश्च हृत्कण्ठं तस्मिन् हृत्कण्ठे ।
समाहारद्वन्द्वः । कपालावधि कपालपर्यन्तं स्वनेन सहितं सस्वनं यथा स्यात्
तथा येन प्रकारेण लगति प्राण इति शेषः, तथा रेचयेत् । हृत्पद्ममवधिर्यस्मिन्
हठयोगप्रदीपिका ६५
कर्मणि तत् हृत्पद्मावधि, वेगेन तरसा, मारुतं वायुं पूरयेत् । चापीति
पादपूरणार्थम् ॥ ६१ ॥
पुनर्विरिचयेत् तद्वत् पूरयेच्च पुनः पुनः ।
यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ ६२ ॥
पुनरिति—तद्वत् पूर्ववत् पुनर्विरिचयेत , पुनः पुनः पूरयेत् चेत्यन्वयः ।
उक्तेऽर्थे दृष्टान्तमाह—यथैवेति । लोहकारेण लोहविकाराणां कर्त्रा भस्त्रा
अग्नेर्धमनसाधनीभूतं चर्म यथैव येन प्रकारेण वेगेन चाल्यते ॥ ६२ ॥
तथैव स्वशरीरस्थं चालयेत् पवनं धिया ।
यदा श्रमो भवेद् देहे तदा सूर्येण पूरयेत् ॥ ६३ ॥
यथोदरं भवेत् पूर्णमनिलेन तथा लघु ।
धारयेन्नासिकां मध्यात्तर्जनीभ्यां विना दृढम् ॥ ६४ ॥
तथैव तेनैव प्रकारेण स्वशरीरस्थं स्वशरीरे स्थितं पवनं प्राणं धिया
बुद्ध्या चालयेत् । रेचकपूरकयोर्निरन्तरावर्तनेन चालनस्यावधिमाह—यदा श्रम
इति । यदा यस्मिन् काले देहे शरीरे श्रमो रेचकपूरकयोर्निरन्तरावर्तनेनायासो
भवेत् तदा तस्मिन् काले । यथा येन प्रकारेण पवनेन वायुना, लघु क्षिप्रमेवोदरं
पूर्णं भवेत् तथा तेन प्रकारेण सूर्यनाड्या पूरयेत् । ‘लघुक्षिप्रमरं द्रुतम्’
इत्यमरः (1. 1. 66) ॥
पूरकानन्तरं यत् कर्तव्यं तदाह—धारयेदिति । मध्यात्तर्जनीभ्यां मध्य-
मातर्जनीभ्यां विना अङ्गुष्ठानामिकाकनिष्ठिकाभिर्नासिकां दृढं धारयेत् । अङ्गुष्ठेन
दक्षिणनासापुटं निरुध्यानामिकाकनिष्ठिकाभ्यां वामनासापुटं निरुध्य नासिकां
दृढं गृह्णीयादित्यर्थः ॥ ६३-६४ ॥
5
६६ हठयोगप्रदीपिका
विधिवत् कुम्भकं कृत्वा रेचयेदिडयानिलम् ।
वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥ ६५ ॥
विधिवदिति । बन्धपूर्वकं कुम्भकं कृत्वेडया चन्द्रनाड्याऽनिलं वायुं
रेचयेत् । भस्त्राकुम्भकस्येयं परिपाटी । वामनासापुटं दक्षिणभुजानामिका-
कनिष्ठिकाभ्यां निरुध्य दक्षिणनासापुटेन भस्त्रावद्वेगेन रेचकपूरकाः कार्याः ।
श्रमे जाते तेनैव नासापुटेन पूरकं कृत्वाऽङ्गुष्ठेन दक्षिणं नासापुटं निरुध्य
यथाशक्ति कुम्भकं धारयेत् । पश्चादिडया रेचयेत् । पुनर्द्दक्षिणनासापुटमङ्गुष्ठेन
निरुध्य वामनासापुटेन भस्त्रावज्झटिति रेचकपूरकाः कर्तव्याः । श्रमे
जाते तेनैव नासिकापुटेन पूरकं कृत्वाऽनामिकाकनिष्ठिकाभ्यां वामनासिकापुटं
निरुध्य यथाशक्ति कुम्भकं कृत्वा पिङ्गलया रेचयेदित्येका रीतिः । वामनासिका-
पुटमनामिकाकनिष्ठिकाभ्यां निरुध्य दक्षिणनासिकापुटेन पूरकं कृत्वा झटि-
त्यङ्गुष्ठेन निरुध्य वामनासापुटेन रेचयेत् । एवं शतधा कृत्वा श्रमे जाते तेनैव
पूरयेत् । बन्धपूर्वकं कृत्वेडया रेचयेत् । पुनर्द्दक्षिणनासापुटमङ्गुष्ठेन निरुध्य
वामनासापुटेन पूरकं कृत्वा झटिति वामनासिकापुटमनामिकाकनिष्ठिकाभ्यां
निरुध्य पिङ्गलया रेचयेद् भस्त्रावत् । पुनःपुनरेवं कृत्वा रेचकपूरकावृत्तिश्रमे
जाते वामनासापुटेन पूरकं कृत्वाऽनामिकाकनिष्ठिकाभ्यां धृत्वा कुम्भकं कृत्वा
पिङ्गलया रेचयेदिति द्वितीया रीतिः । भस्त्रिकागुणानाह—वातपित्तेति ।
वातश्च पित्तं च श्लेष्मा च वातपित्तश्लेष्माणस्तान् हरतीति तादृशं शरीरे देहे
योऽग्निर्जठरानलस्तस्य विशेषेण वर्धनं दीपनम् ॥ ६५ ॥
कुण्डलीबोधकं क्षिप्रं पवनं सुखदं हितम् ।
ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ॥ ६६ ॥
क्षिप्रं शीघ्रं कुण्डल्याः सुप्ताया बोधकं बोधकर्तृ पुनातीति पवनं
पवित्रकारकं सुखं ददातीति सुखदं हितं त्रिदोषहरत्वात् सर्वेषां हितं सर्वदा
हठयोगप्रदीपिका ६७
च हितम्। सर्वेषां कुम्भकानां सर्वदा हितत्वेऽपि सूर्यभेदनोज्जायिनावुष्णौ प्रायेण
शीते हितौ। सीत्कारीशीतल्यौ शीतले प्रायेणोष्णे हिते। भस्त्राकुम्भकः
समशीतोष्णः सर्वदा हितः। सर्वेषां कुम्भकानां सर्वरोगहरत्वेऽपि सूर्यभेदनं
प्रायेण वातहरम्। उज्जायी प्रायेण श्लेष्महरः। सीत्कारीशीतल्यौ प्रायेण
पित्तहरे। भस्त्राख्यः कुम्भकः त्रिदोषहर इति बोध्यम्। ब्रह्मनाडी सुषुम्ना
ब्रह्मप्रापकत्वात्। तथा च श्रुतिः—
‘शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति॥’
(Ch. Up., VIII. 6. 6.)
तस्या मुखेऽग्रभागे संस्थः सम्यक् स्थितो यः कफादिरूपोऽर्गलः
प्राणगतिप्रतिबन्धकस्तस्य नाशनं नाशकर्तृ ॥ ६६ ॥
सम्यग्गात्रसमुद्भूतग्रन्थित्रयविभेदकम्।
विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ ६७ ॥
सम्यग् दृढीभूतं गात्रे गात्रमध्ये सुषुम्नायामेव सम्यगुद्भूतं समुद्भूतं जातं
यद् ग्रन्थीनां त्रयं ग्रन्थित्रयं ब्रह्मग्रन्थिविष्णुग्रन्थिरुद्रग्रन्थिरूपं तस्य विशेषेण
भेदजनकम्। अत एव इदम्, भस्त्रा इत्याख्या यस्येति भस्त्राख्यं कुम्भकं तु
विशेषेणैव कर्तव्यम्। अवश्यकर्तव्यमित्यर्थः। सूर्यभेदनादयस्तु यथासंभवं
कर्तव्याः ॥ ६७ ॥
अथ भ्रामरी—
वेगाद् घोषं पूरकं भृङ्गनादं भृङ्गीनादं रेचकं मन्दमन्दम्।
योगीन्द्राणामेवमभ्यासयोगाच्चित्ते जाता काचिदानन्दलीला ॥
६८ हठयोगप्रदीपिका
भ्रामरीकुम्भकमाह—वेगादिति । वेगात् तरसा घोषं सशब्दं यथा
स्यात् तथा भृङ्गस्य भ्रमरस्य नाद इव नादो यस्मिन् कर्मणि तत् तथा पूरकं
कृत्वा । भृङ्ग्यो भ्रमर्यस्तासां नाद इव नादो यस्मिन् तत् तथा मन्दं मन्दं
रेचकं कुर्यात् । पूरकानन्तरं कुम्भकस्तु भ्राम र्याः कुम्भकत्वादेव सिद्धोऽ
विशेषाच्च नोक्तः । पूरकरेचकयोस्तु विशेषोऽस्तीति तावेवोक्तौ । एवमुक्तरीत्या-
भ्यसनमभ्यासस्तस्य योगो युक्तिस्तस्माद् योगीन्द्राणां चित्ते काचिदनिर्व्वाच्या
आनन्दे लीला क्रीडा आनन्दलीला जातोत्पन्ना भवति ॥ ६८ ॥
अथ मूर्च्छा—
पूरकान्ते गाढतरं बद्ध्वा जालंधरं शनैः ।
रेचयेन्मूर्छनाख्येयं मनोमूर्च्छा सुखप्रदा ॥ ६९ ॥
मूर्च्छाकुम्भकमाह—पूरकान्त इति । पूरकस्यान्तेऽवसानेऽतिशयेन
गाढं गाढतरं दृढतरं जालंधराख्यं बन्धं बद्ध्वा शनैर्मन्दं मन्दं रेचयेत् । इयं
कुम्भिका मूर्च्छनाख्या मूर्च्छना इत्याख्या यस्या इति मूर्च्छनाख्या । कीदृशी ?
मनो मूर्च्छयतीति मनोमूर्च्छा । एतेन मूर्च्छनाया विग्रहदर्शनपूर्वकं फलमुक्तम् ।
पुनः कीदृशी ? सुखप्रदा सुखं प्रददातीति सुखप्रदा ॥ ६९ ॥
अथ प्लावनी—
अन्तःप्रवर्तितोदारमारुतापूरितोदरः ।
पयस्यगाधेऽपि सुखात् प्लवते पद्मपत्रवत् ॥ ७० ॥
प्लावनीकुम्भकमाह—अन्तरिति । अन्तः शरीरान्तः प्रवर्तितः पूरित
उदारोऽतिशयितो यो मारुतः समीरस्तेना समन्तात् पूरितमुदरं येन स
पुमानगाधेऽप्यतलस्पर्शेऽपि पयसि जले पद्मपत्रवत् पद्मपत्रेण तुल्यं सुखादना-
यासात् प्लवते तरति जलोपरि गच्छति ॥ ७० ॥
हठयोगप्रदीपिका ६९
प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः ।
सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ ७१ ॥
अथ प्राणायामभेदानाह—प्राणायाम इति । प्राणस्य शरीरान्तः-
संचारिवायोरायामनं निरोधनमायामः प्राणायामः । प्राणायामलक्षणमुक्तं गोरक्ष-
नाथेन—'प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम्' (Gor. Śat., 42) इति ।
रेचकश्च पूरकश्च कुम्भकश्च तैर्भेदैस्त्रिधा त्रिप्रकारकः, रेचकप्राणायामः पूरक-
प्राणायामः कुम्भकप्राणायामश्चेति । रेचकलक्षणमाह याज्ञवल्क्यः—'बहिर्यद्रेचनं
वायोरुदराद्रेचकः स्मृतः' इति । रेचकप्राणायामलक्षणम्—
‘निष्क्रम्य नासाविवरादशेषं प्राणं बहिः शून्यमिवानिलेन ।
निरुच्छ्वसंस्तिष्ठति रुद्धवायुः स रेचको नाम महानिरोधः ॥’
पूरकलक्षणम्—'बाह्यादापूरणं वायोरुदरे पूरको हि सः' । पूरक-
प्राणायामलक्षणम्—
‘बाह्ये स्थितं प्राणपुटेन वायुमाकृष्य तेनैव शनैः समन्तात् ।
नाडीश्च सर्वाः परिपूरयेद्यः स पूरको नाम महानिरोधः ॥’
कुम्भकलक्षणम्—'संपूर्य कुम्भवद्वायोर्धारणं कुम्भको भवेत्' ।
अयं कुम्भकस्तु पूरकप्राणायामादभिन्नः । भिन्नस्तु—
‘न रेचको नैव च पूरकोऽत्र नासापुटान्तस्थितमेव वायुम् ।
सुनिश्चलं धारयते क्रमेण कुम्भाख्यमेतत् प्रवदन्ति तज्ज्ञाः ॥’
अथ प्रकारान्तरेण प्राणायामं विभजते—सहित इति । कुम्भको
द्विविधः । सहितः केवलश्चेति । मतोऽभिमतो योगिनामिति शेषः । तत्र सहितो
द्विविधः । रेचकपूर्वकः पूरकपूर्वकश्च । तदुक्तम्—'आरेच्यापूर्य वा
७० हठयोगप्रदीपिका
कुर्यात् स वै सहितकुम्भकः' । तत्र रेचकपूर्वको रेचकप्राणायामादभिन्नः ।
पूरकपूर्वकः कुम्भकः पूरकप्राणायामादभिन्नः । केवलकुम्भकः कुम्भकप्राणा-
यामादभिन्नः । प्रागुक्ताः सूर्यभेदनादयः पूरकपूर्वकस्य कुम्भकस्य भेदा
ज्ञातव्याः ॥ ७१ ॥
यावत् केवलसिद्धिः स्यात् सहितं तावदभ्यसेत् ।
रेचकं पूरकं मुक्त्वा सुखं यद् वायुधारणम् ॥ ७२ ॥
सहितकुम्भकाभ्यासस्यावधिमाह—यावदिति । केवलस्य केवलकुम्भकस्य
सिद्धिः केवलसिद्धिर्यावत् यावत्पर्यन्तं स्यात् तावत् तावत्पर्यन्तं सहितकुम्भकं
सूर्यभेदादिकमभ्यसेदनुतिष्ठेत् । सुषुम्नाभेदानन्तरं यदा सुषुम्नान्तः षट्शब्दा भवन्ति
तदा केवलकुम्भकः सिद्ध्यति । तदनन्तरं सहितकुम्भका दश विंशतिर्वा कार्याः ।
अशीतिसंख्यापूर्तिः केवलकुम्भकैरेव कर्तव्या । सति सामर्थ्ये केवलकुम्भका
अशीतेरधिकाः कार्याः । केवलकुम्भकस्य लक्षणमाह—रेचकमिति । रेचकं
पूरकं मुक्त्वा त्यक्त्वा सुखमनायासं यथा स्यात् तथा वायोर्धारणं वायुधारणं
यत् ॥ ७२ ॥
प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः ।
कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥ ७३ ॥
प्राणेति । स वै इति । निश्चितं केवलकुम्भकः प्राणायाम इत्ययमुक्तः ।
केवलं प्रशंसति—केवल इति । रेचो रेचकः, रेचश्च पूरकश्च रेचपूरकौ ताभ्यां
वर्जिते रहिते केवले कुम्भके सिद्धे सति ॥ ७३ ॥
न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते ।
शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥ ७४ ॥
हठयोगप्रदीपिका ७१
नेति । तस्य योगिनस्त्रिषु लोकेषु दुर्लभं दुष्प्रापं किंचित् किमपि न
विद्यते, तस्य सर्वं सुलभमित्यर्थः । शक्त इति । केवलकुम्भकेन कुम्भकाभ्यासेन
शक्तः समर्थो यथेष्टं यथेच्छं वायुर्धारणं वायुधारणं तस्माद् वायुधारणात्
॥ ७४ ॥
राजयोगपदं चापि लभते नात्र संशयः ।
कुम्भकात् कुण्डलीबोधः कुण्डलीबोधतो भवेत् ।
अनर्गला सुषुम्ना च हठसिद्धिश्च जायते ॥ ७५ ॥
राजयोगपदं राजयोगात्मकं पदं लभते । अत्र संशयो न । निश्चितमे-
तदित्यर्थः । कुम्भकाभ्यासस्य परंपरया कैवल्यहेतुत्वमाह—कुम्भकादिति ।
कुम्भकात् कुम्भकाभ्यासात् कुण्डली आधारशक्तिस्तस्या बोधो निद्राभङ्गो भवेत् ।
कुण्डल्या बोधः कुण्डलीबोधस्तस्मात् कुण्डलीबोधतः सुषुम्ना मध्यनाड्यनर्गला
कफायर्गलरहिता भवेत् । हठस्य हठाभ्यासस्य सिद्धिः प्रत्याहारादिपरंपरया
कैवल्यरूपा सिद्धिर्जायते ॥ ७५ ॥
हठं विना राजयोगो राजयोगं विना हठः ।
न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् ॥ ७६ ॥
हठयोगराजयोगसाधनयोः परस्परोपकार्योपकारकत्वमाह—हठं विनेति ।
हठं हठयोगं विना राजयोगो न सिध्यति, राजयोगं विना हठो न सिध्यति,
ततः यतोऽन्यतरस्य सिद्धिर्नास्ति तस्मान्निष्पत्तिं राजयोगसिद्धिमा मर्यादीकृत्य
या निष्पत्तिस्तस्या राजयोगसिद्धिपर्यन्तं युग्मं हठयोगराजयोगद्वयमभ्यसेदनुतिष्ठेत् ।
हठातिरिक्ते साक्षात् परंपरया वा राजयोगसाधनेऽत्र राजयोगशब्दः, जीवनसाधने
लाङ्गले जीवनशब्दप्रयोगवत् । राजयोगसाधनं चतुर्थोपदेशे वक्ष्यमाणमुन्मनी-
७२ हठयोगप्रदीपिका
शााम्भवीमुद्रादिरूपमपरोक्षानुभूतावुक्तं पञ्चदशाङ्गरूपम् । वाक्यसुधायामुक्तं दृश्यानु-
विधादिरूपं च ॥ ७६ ॥
कुम्भकप्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् ।
एवमभ्यासयोगेन राजयोगपदं व्रजेत् ॥ ७७ ॥
हठाभ्यासाद् राजयोगप्राप्तिप्रकारमाह — कुम्भकेति । कुम्भकेन प्राणस्य
यो रोधस्तस्यान्ते मध्ये चित्तमन्तःकरणं निराश्रयं कुर्यात् । संप्रज्ञातसमाधौ जातायां
ब्रह्माकारवृत्तेः परवैराग्येण विलयं कुर्यादित्यर्थः । एवमुक्तरीत्याभ्यासस्य योगो
युक्तिस्तेन । ‘योगः संहननोपायध्यानसंगतियुक्तिषु’ (Ak., III. 3. 22)
इति कोशः । राजयोगपदं राजयोगात्मकं पदं व्रजेत् प्राप्नुयात् ॥ ७७ ॥
वपुःकृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनिर्मले ।
आरोगता बिन्दुजयोऽग्निदीपनं नाडीविशुद्धिर्हठसिद्धिलक्षणम् ॥
इति हठयोगप्रदीपिकायां द्वितीयोपदेशः
हठसिद्धिज्ञापकमाह—वपुःकृशत्वमिति । वपुषो देहस्य कृशत्वं कार्श्यं,
वदने मुखे प्रसन्नता प्रसादः, नादस्य ध्वनेः स्फुटत्वं प्राकट्यं, नयने नेत्रे सुष्ठु
निर्मले, अरोगस्य भावोऽरोगता आरोग्यं, बिन्दोर्धातोरोजः क्षयाभावरूपः
अग्नेरुदर्यस्य दीपनं दीप्तिः, नाडीनां विशेषेण शुद्धिर्मलापगमः, एतद्धठस्य
हठाभ्याससिद्धेर्भाविन्या लक्ष्यतेऽनेनेति लक्षणं ज्ञापकम् ॥ ७८ ॥
इति श्रीहठयोगप्रदीपिकाव्याख्यायां ज्योत्स्नाभिधायां ब्रह्मानन्दकृतायां द्वितीयोपदेशः
तृतीयोपदेशः
सशैलवनधात्रीणां यथाधारोऽहिनायकः ।
सर्वेषां योगतन्त्राणां तथाधारो हि कुण्डली ॥ १ ॥
अथ कुण्डल्याः सर्वयोगाश्रयत्वमाह—सशैलेति । शैलाश्च वनानि च
शैलवनानि तैः सह वर्तमानाः सशैलवनास्ताश्च ता धात्र्यश्च भूमयस्तासाम् ।
धात्र्या एकत्वेऽपि देशभेदाद् भेदमादाय बहुवचनम् । अहीनां सर्पाणां नायको
नेताहिनायकः शेषो यथा यद्वदाधार आश्रयस्तथा तद्वत् । सर्वेषां योगस्य
तन्त्राणि योगतन्त्राणि योगोपायास्तेषाम् । कुण्डल्याधारशक्तिराश्रयः । कुण्डली-
बोधं विना सर्वयोगोपायानां वैयर्थ्यादिति भावः ॥ १ ॥
सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली ।
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥ २ ॥
कुण्डलीबोधस्य फलमाह द्वाभ्याम्—सुप्तेति । सुप्ता कुण्डली गुरोः
प्रसादेन यदा जागर्ति बुध्यते तदा सर्वाणि पद्मानि षट्चक्राणि भिद्यन्ते
भिन्नानि भवन्ति । ग्रन्थयोऽपि च ब्रह्मग्रन्थिविष्णुग्रन्थिरुद्रग्रन्थयो भिद्यन्ते भेदं
प्राप्नुवन्तीत्यन्वयः ॥ २ ॥
प्राणस्य शून्यपदवी तदा राजपथायते ।
तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् ॥ ३ ॥
प्राणस्येति । तदा शून्यपदवी सुषुम्ना प्राणस्य वायो राज्ञां पन्था
राजपथः, राजपथ इवाचरति राजपथायते राजमार्गायते । सुखेन गमनसंभवात् ।
७४ हठयोगप्रदीपिका
तदा चित्तमालम्बनमाश्रयस्तस्मान्निर्गतं निरालम्बं निर्विषयं भवति । तदा कालस्य
मृत्योर्वञ्चनं प्रतारणं भवति ॥ ३ ॥
सुषुम्ना शून्यपदवी ब्रह्मरन्ध्रं महापथः ।
श्मशानं शांभवी मध्यमार्गश्चेत्येकवाचकाः ॥ ४ ॥
सुषुम्नापर्यायानाह—सुषुम्नेति । इत्युक्ताः शब्दा एकस्य एकार्थस्य
वाचकाः एकवाचकाः । पर्याया इत्यर्थः । स्पष्टः श्लोकार्थः ॥ ४ ॥
तस्मात् सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम् ।
ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥ ५ ॥
तस्मादिति । यस्मात् कुण्डलीबोधेनैव षट्चक्रभेदादिकं भवति तस्मात्
सर्वप्रयत्नेन सर्वेण प्रयत्नेन ब्रह्म सच्चिदानन्दलक्षणं तस्य द्वारं प्राप्युपायः सुषुम्ना,
तस्य मुखेऽग्रभागे मुखेन सुषुम्नाद्वारं विधाय सुप्तामीश्वरीं कुण्डलीं प्रबोधयितुं
प्रकर्षेण बोधयितुं मुद्राणां महामुद्रादीनामभ्यासमावृत्तिं समाचरेत् सम्यगा-
चरेत् ॥ ५ ॥
महामुद्रा महाबन्धो महावेधश्च खेचरी ।
उड्ड्यानं मूलबन्धश्च बन्धो जालंधराभिधः ॥ ६ ॥
करणी विपरीताख्या वज्रोली शक्तिचालनम् ।
इदं हि मुद्रादशकं जरामरणनाशनम् ॥ ७ ॥
मुद्रा उद्दिशति—महामुद्रेत्यादिना सार्धेन । सार्धार्थः स्पष्टः ॥ ६ ॥
मुद्राफलमाह सार्धद्वाभ्याम्—इदमिति । इदमुक्तं मुद्राणां दशकं
जरा च मरणं च जरामरणे तयोर्नाशनं निवारकम् ॥ ७ ॥
हठयोगप्रदीपिका ७५
आदिनाथोदितं दिव्यमैश्वर्यप्रदायकम् ।
वल्लभं सर्वसिद्धानां दुर्लभं मरुतामपि ॥ ८ ॥
आदिनाथेन शंभुनोदितं कथितम् । दिवि भवं दिव्यमुत्तमम् । अष्टौ
च तान्यैश्वर्याणि चाष्टैश्वर्याणि अणिममहिमगरिमलघिमप्राप्तिप्राकाम्येशिताव-
शिताख्यानि । तत्राणिमा संकल्पमात्रेण प्रकृत्यपगमे परमाणुवद् देहस्य सूक्ष्मता । १ ।
महिमा प्रकृत्यापूरेणाकाशादिवन्महद्भावः । २ । गरिमा लघुतरस्यापि तूलादेः
पर्वतादिवद् गुरुभावः । ३ । लघिमा गुरुतरस्यापि पर्वतादेस्तूलादिवल्लघुभावः । ४ ।
प्राप्तिः सर्वभावसांनिध्यम् । यथा भूमिस्य एवाङ्गुल्यग्रेण स्पृशति चन्द्र-
मसम् । ५ । प्राकाम्यमिच्छानभिघातः । यथा उदक इव भूमौ निमज्जत्युन्मज्जति
च । ६ । ईशिता भूतभौतिकानां प्रभवव्ययसंस्थानविशेषसामर्थ्यम् । ७ ।
वशित्वं भूतभौतिकानां स्वाधीनकरणम् । ८ । तेषां प्रदायकं प्रकर्षेण ददातीति
तथा, सर्वे च ते सिद्धाश्च कपिलादयस्तेषां वल्लभं प्रियं मरुतां देवानापि
दुर्लभं दुष्प्रापं किमुतान्येषामित्यर्थः ॥ ८ ॥
गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् ।
कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा ॥ ९ ॥
गोपनीयमिति । प्रयत्नेन प्रकृष्टेन यत्नेन गोपनीयं गोपनार्हम् । गोपने
दृष्टान्तमाह—यथेति । रत्नानां हीरकादीनां करण्डकं रत्नकरण्डकं यथा येन
प्रकारेण गोप्यते तद्वत् । कस्यापि जनमात्रस्य यद्वा कस्यापि ब्रह्मणोऽपि नैव
वक्तव्यं नैव वाच्यं किमुतान्यस्य । तत्र दृष्टान्तः—कुलस्त्रियाः सुरतं कुलस्त्रीसुरतं
संगमनं यथा यद्वत् ॥ ९ ॥
अथ महामुद्रा—
पादमूलेन वामेन योनिं संपीड्य दक्षिणम् ।
प्रसारितं पदं कृत्वा कराभ्यां धारयेद् दृढम् ॥ १० ॥