हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
हठयोगप्रदीपिका ४१
'अङ्गुष्ठाङ्गुलिमोक्षं च जानोश्च परिमार्जनम् ।
प्रदद्याच्छोटिकामेकां मात्रा संख्यायते तदा ॥'
इति दत्तात्रेयवचनाच्च । लिङ्गपुराणगोरक्षादिवाक्येष्वेकच्छोटिकावच्छिन्नस्य कालस्य
मात्रात्वेन विवक्षितत्वात् । याज्ञवल्क्यादिवाक्येषु छोटिकात्रयावच्छिन्नस्य कालस्य
मात्रात्वेन विवक्षणात् त्रिगुणस्याधमस्योत्तमत्वं तत्राप्युक्तमित्यविरोधः । सर्वेषु
योगसाधनेषु प्राणायामो मुख्यः तत्सिद्धौ प्रत्याहारादीनां सिद्धेः । तदसिद्धौ
प्रत्याहाराद्यसिद्धेश्च । वस्तुतस्तु प्राणायाम एव प्रत्याहारादिशब्दैर्निगद्यते ।
तथा चोक्तं योगचिन्तामणौ—'प्राणायाम एवाभ्यासक्रमेण वर्धमानः प्रत्याहार-
धारणाध्यानसमाधिशब्दैरुच्यते' इति ।
तदुक्तं स्कन्दपुराणे—
'प्राणायामद्विषट्केन प्रत्याहार उदाहृतः ।
प्रत्याहारद्विषट्केन धारणा परिकीर्तिता ॥
भवेदीश्वरसंगत्यै ध्यानं द्वादशधारणम् ।
ध्यानद्वादशकेनैव समाधिरभिधीयते ॥
यत्समाधौ परं ज्योतिरनन्तं स्वप्रकाशकम् ।
तस्मिन् दृष्टे क्रियाकाण्डयातायातं निवर्तते ॥' इति ।
तथा—
'धारणा पञ्चनाडीभिर्ध्यानं स्यात् षष्टिनाडिकम् ।
दिनद्वादशकेन स्यात् समाधिः प्राणसंयमात् ॥'
इति च । गोरक्षादिभिरप्येवमेवोक्तम् । अत्रैवं व्यवस्था । किंचिदूनद्विचत्वारिं-
शद्विपलात्मकः कनिष्ठप्राणायामकालः । अयमेवैकच्छोटिकावच्छिन्नस्य कालस्य
४२ हठयोगप्रदीपिका
मात्रात्वविवक्षया द्वादशमात्रकः कालः। किंचिदूनचतुरशीतिविपलात्मको मध्यम-
प्राणायामकालः। अयमेकच्छोटिकावच्छिन्नस्य कालस्य मात्रात्वविवक्षया चतुर्विं-
शतिमात्रकः। पञ्चविंशत्युत्तरशतविपलात्मक उत्तमः प्राणायामकालः। अयमेक-
च्छोटिकावच्छिन्नस्य कालस्य मात्रात्वविवक्षया षट्त्रिंशन्मात्रकः कालः। छोटि-
कात्रायावच्छिन्नस्य कालस्य मात्रात्वविवक्षया तु द्वादशमात्रक एव। बन्धपूर्वकं
पञ्चविंशत्युत्तरशतविपलपर्यन्तं यदा प्राणायामस्थैर्यं भवति तदा प्राणो ब्रह्मरन्ध्रं
गच्छति। ब्रह्मरन्ध्रं गतः प्राणो यदा पञ्चविंशतिपलपर्यन्तं तिष्ठति तदा
प्रत्याहारः। यदा पञ्चघटिकापर्यन्तं तिष्ठति तदा धारणा। यदा षष्टिघटिकापर्यन्तं
तिष्ठति तदा ध्यानम्। यदा द्वादशदिनपर्यन्तं तिष्ठति तदा समाधिर्भवतीति
सर्वं रमणीयम्॥ १२॥
जलेन श्रमजातेन गात्रमर्दनमाचरेत्।
दृढता लघुता चैव तेन गात्रस्य जायते॥ १३॥
प्राणायामानभ्यस्यतः स्वेदे जाते विशेषमाह—जलेनेति। श्रमात्
प्राणायामाभ्यासश्रमाज्जातं तेन जलेन प्रस्वेदेन गात्रस्य शरीरस्य मर्दनं
तैलाभ्यङ्गवदाचरेत् कुर्यात्। तेन मर्दनेन गात्रस्य दृढता दार्ढ्यं लघुता
जाड्याभावो जायते प्रादुर्भवति॥ १३॥
अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम्।
ततोऽभ्यासे दृढीभूते न तादृङ्नियमग्रहः॥ १४॥
अथ प्रथमोत्तराभ्यासयोः क्षीरादिनियमानाह—अभ्यासकाल इति।
क्षीरं दुग्धमाज्यं घृतं तद्युक्तं भोजनं क्षीराज्यभोजनम्। शाकपार्थिवादिवत्
समासः। केवले कुम्भके सिद्धेऽभ्यासो दृढो भवति। स्पष्टमन्यत्॥ १४॥
हठयोगप्रदीपिका ४३
यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः ।
तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ १५ ॥
सिंहादिवच्छनैरेव प्राणं वशयेन्न सहसेत्याह—यथेति । यथा येन
प्रकारेण सिंहो मृगेन्द्रो गजो वनहस्ती व्याघ्रः शार्दूलः शनैः शनैरेव
वश्यः स्वाधीनो भवेन्न सहसा तथैव तेनैव प्रकारेण सेवितोऽभ्यस्तो वायुः
प्राणो वश्यो भवेत् । अन्यथा सहसा गृह्यमाणः साधकमभ्यासिनं हन्ति
सिंहादिवत् ॥ १५ ॥
प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् ।
अयुक्ताभ्यासयोगेन सर्वरोगसमुद्भवः ॥ १६ ॥
युक्तायुक्तयोः फलमाह—प्राणायामेनेति । आहारादियुक्तिपूर्वको
जालंधरादिबन्धयुक्तिविशिष्टः प्राणायामो युक्त इत्युच्यते । तेन सर्वरोगक्षयः
सर्वेषां रोगाणां क्षयो नाशो भवेत् । अयुक्त उक्तयुक्तिरहितो योऽभ्यासस्तद्युक्तेन
प्राणायामेन सर्वरोगसमुद्भवः सर्वेषां रोगाणां सम्यगुद्भव उत्पत्तिर्भवेत् ॥ १६ ॥
हिक्का श्वासश्च कासश्च शिरःकर्णाक्षिवेदनाः ।
भवन्ति विविधा रोगाः पवनस्य प्रकोपतः ॥ १७ ॥
अयुक्तेन प्राणायामेन के रोगा भवन्तीत्यपेक्षायामाह—हिक्केति ।
हिक्काश्वासकासा रोगविशेषाः । शिरश्च कर्णौ चाक्षिणी च शिरःकर्णाक्षि,
शिरःकर्णाक्षणि वेदनाः शिरःकर्णाक्षिवेदनाः । विविधा नानाविधा रोगा
ज्वरादयः । पवनस्य वायोः प्रकोपतो भवन्ति ॥ १७ ॥
युक्तं युक्तं त्यजेद् वायुं युक्तं युक्तं च पूरयेत् ।
युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् ॥ १८ ॥
४४ हठयोगप्रदीपिका
यतः पवनस्य प्रकोपतो विविधा रोगा भवन्त्यतः । युक्तं युक्तमिति ।
वायुं प्राणं युक्तं युक्तं त्यजेत् । रेचनकाले शनैःशनैरेव रेचयेन्न वेगत इत्यर्थः ।
युक्तं युक्तं च न चाल्पं नाधिकं च पूरयेत् । युक्तं युक्तं च जालंधरबन्धादियुक्तं
बध्नीयात् कुम्भयेत् । एवमभ्यस्येच्चेत् सिद्धिं हठसिद्धिमवाप्नुयात् ॥ १८ ॥
यदा तु नाडीशुद्धिः स्यात् तथा चिह्नानि बाह्यतः ।
कायस्य कृशता कान्तिस्तदा जायेत निश्चितम् ॥ १९ ॥
युक्तं प्राणायाममभ्यस्यतो जायमानाया नाडीशुद्धेर्लक्षणमाह द्वाभ्याम्—
यदात्विति । यदा तु यस्मिन् काले तु नाडीनां शुद्धिर्मलराहित्यं स्यात् तदा
बाह्यतो बाह्यानि । सार्वविभक्तिकस्तसिः । चिह्नानि लक्षणानि, तथाशब्देना-
न्तराण्यपि चिह्नानि भवन्तीत्यर्थः । तान्येवाह — कायस्येति । कायस्य देहस्य
कृशता कार्श्यं कान्तिः सुरुचिर्निश्चितं जायेत ॥ १९ ॥
यथेष्टं धारणं वायोरनलस्य प्रदीपनम् ।
नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ २० ॥
वायोः प्राणस्य यथेष्टं बहुवारं धारणं कुम्भकेषु । अनलस्य जठराग्नेः
प्रदीपनं प्रकृष्टता दीप्तिर्नादस्य ध्वनेरभिव्यक्तिः प्राकट्यमारोग्यमरोगता नाडिशोध-
नाद् नाडीनां शोधनाद् मलराहित्याज्जायते ॥ २० ॥
मेदश्लेष्माधिकः पूर्वं षट् कर्माणि समाचरेत् ।
अन्यस्तु नाचरेत् तानि दोषाणां समभावतः ॥ २१ ॥
मेदाद्याधिक्ये उपायान्तरमाह—मेदश्लेष्माधिक इति । मेदश्च श्लेष्मा
च मेदश्लेष्माणौ तावधिकौ यस्य स तादृशः पुरुषः । पूर्वं प्राणायामाभ्यासात्
प्राङ् न तु प्राणायामाभ्यासकाले षट् कर्माणि वक्ष्यमाणानि समाचरेत्
हठयोगप्रदीपिका ४५
सम्यगाचरेत् । अन्यस्तु मेदश्लेष्माधिक्यरहितस्तु तानि षट् कर्माणि नाच-
रेत् । तत्र हेतुमाह । दोषाणां वातपित्तकफानां समस्य भावः समभावः
समत्वं तस्माद् दोषाणां समत्वादित्यर्थः ॥ २१ ॥
धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा ।
कपालभातिश्चैतानि षट् कर्माणि प्रचक्षते ॥ २२ ॥
षट्कर्माण्युपदिशति—धौतिरिति । स्पष्टम् ॥ २२ ॥
कर्मषट्कमिदं गोप्यं घटशोधनकारकम् ।
विचित्रगुणसंधायि पूज्यते योगिपुंगवैः ॥ २३ ॥
इदं रहस्यमित्याह—कर्मषट्कमिति । घटस्य शरीरस्य शोधनं
मलापनयनं करोतीति घटशोधनकारकमिदमुद्दिष्टं कर्मणां षट्कं धौत्यादिकं
गोप्यं गोपनीयम् । यतः । विचित्रगुणसंधायीति । विचित्रं विलक्षणं गुणं
षट्कर्मरूपं संधातुं कर्तुं शीलमस्येति विचित्रगुणसंधायि योगिपुंगवैर्योगिश्रेष्ठैः
पूज्यते सत्क्रियते । गोपscreenभावे तु षट्कर्मकमन्यैरपि विदितं स्यादिति
योगिनः पूज्यत्वाभावः प्रसज्येतेति भावः । एतेनेदमेव कर्मषट्कस्य मुख्यं
फलमिति सूचितम् । मेदश्लेष्मादिनाशस्य प्राणायामैरपि संभवात् । तदुक्तम्—
‘षट्कर्मयोगमाप्नोति पवनाभ्यासतत्परः’ इति पूर्वोत्तरग्रन्थस्याप्येवमेव स्वार-
स्याच्च ॥ २३ ॥
तत्र धौतिः—
चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् ।
गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् ।
पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥ २४ ॥
४६ हठयोगप्रदीपिका
धौतिकर्माह—चतुरङ्गुलमिति । चतुर्णामङ्गुलानां समाहारश्चतुरङ्गुलं
विस्तारो यस्य तादृशं हस्तानां पञ्चदशैरायतं दीर्घं सिक्तं जलार्द्रं किंचिदुष्णं
वस्त्रं पटं तच्च सूक्ष्मं नूतनोष्णीषादेः खण्डं ग्राह्यम् । गुरुणोपदिष्टो यो मार्गो
वस्त्रग्रसनप्रकारस्तेन शनैर्मन्दं मन्दं किंचित् किंचिद् ग्रसेत् । द्वितीये दिने
हस्तद्वयं तृतीये दिने हस्तत्रयम् । एवं दिनवृद्ध्या हस्तमात्रमधिकं ग्रसेत् ।
तस्य प्रान्तं राजदन्तमध्ये दृढं संलग्नं कृत्वा नौलिकर्मणा (II. 33) उदरस्थवस्त्रं
सम्यक् चालयित्वा । पुनः शनैः प्रत्याहरेच्च तद्वस्त्रमुद्गिरेन्निष्कासयेच्च ।
तद्धौतिकर्मोदितं कथितं सिद्धैः ॥ २४ ॥
कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः ।
धौतिकर्मप्रभावेण प्रयान्त्येव न संशयः ॥ २५ ॥
धौतिकर्मणः फलमाह—कासश्वासेति । कासश्च श्वासश्च प्लीहश्च
कुष्ठं च । समाहारद्वन्द्वः । कासादयो रोगविशेषाः विंशतिसंख्याकाः कफरोगाश्च
धौतिकर्मणः प्रभावेण गच्छन्त्येव न संशयः, निश्चितमेतदित्यर्थः ॥ २५ ॥
अथ वस्तिः—
नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः ।
आधाराकुञ्चनं कुर्यात् क्षालनं वस्तिकर्म तत् ॥ २६ ॥
अथ वस्तिकर्माह—नाभिदघ्नेति । नाभिपरिमाणं नाभिदघ्नम्, परिमाणे
दघ्नच् प्रत्ययः । तस्मिन्नाभिदघ्ने नाभिपरिमाणे जले नद्यादितोये पायुर्गुदं
तस्मिन् न्यस्तो नालो वंशनालो येन कनिष्ठिकाप्रवेशयोग्यरन्ध्रयुक्तं षडङ्गुलदीर्घं
वंशनालं गृहीत्वा चतुरङ्गुलं पायौ प्रवेशयेत् । अङ्गुलिद्वयमितं बहिः
स्थापयेत् । उत्कटमासनं यस्य स उत्कटासनः । पाष्णिद्वये स्फिचौ विन्यस्य
पादाङ्गुलीभिः स्थितिरुत्कटासनम् । आधारस्याकुञ्चनं यथा जलमन्तः प्रविशेत्
हठयोगप्रदीपिका ४७
तथा संकोचनं कुर्यात् । अन्तः प्रविष्टं जलं नौलिकर्मणा चालयित्वा त्यजेत् ।
क्षालनं वस्तिकर्मोच्यते । धौतिवस्तिकर्मद्वयं भोजनात् प्रागेव कर्तव्यम् ।
तदनन्तरं भोजने विलम्बोऽपि न कार्यः । केचित्तु पूर्वं मूलाधारेण वायोरार्क-
र्षणमभ्यस्य जले स्थित्वा पायौ नालप्रवेशनमन्तरेणैव वस्तिकर्माभ्यस्यन्ति ।
तथा करणे सर्वं जलं बहिर्नायाति । अतो नानारोगधातुक्षयादिसंभवाच्च तथा
वस्तिकर्म नैव विधेयम् । किमन्यथा स्वात्मारामः पायौ न्यस्तनाल इति
ब्रूयात् ॥ २६ ॥
गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः ।
वस्तिकर्मप्रभावेण क्षीयन्ते सकलामयाः ॥ २७ ॥
वस्तिकर्मगुणानाह द्वाभ्याम्—गुल्मप्लीहोदरमिति । गुल्मश्च प्लीहश्च
रोगविशेषावुदरं जलोदरं च तेषां समाहारद्वन्द्वः । वातश्च पित्तं च कफश्च तेभ्य
उद्भवा एकैकस्माद् द्वाभ्यां सर्वेभ्यो वा जाताः सकलाः सर्व आमया रोगा
वस्तिकर्मणः प्रभावः सामर्थ्यं तेन क्षीयन्ते नश्यन्ति ॥ २७ ॥
धात्विन्द्रियान्तःकरणप्रसादं दद्याच्च कान्ति दहनप्रदीप्तिम् ।
अशेषदोषोपचयं निहन्यादभ्यस्यमानं जलवस्तिकर्म ॥ २८ ॥
धात्विति । अभ्यस्यमानमनुष्ठीयमानं जले वस्तिकर्म जलवस्तिकर्म कर्तृ
दद्यादनुष्ठातुरिति शेषः । धातवो 'रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः'
इत्युक्ताः (Vāgbhaṭa I. 13) । इन्द्रियाणि वाक्पाणिपादपायूपस्थानि पञ्च
कर्मेन्द्रियाणि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि च, अन्तःकरणानि
मनोबुद्धिचित्ताहंकाररूपाणि, तेषां परितापविक्षेपशोकमोहगौरवावरणदैन्यादिराजस-
तामसधर्मविनिवर्तनेन सुखप्रकाशलाघवादिसात्त्विकधर्माविर्भावः प्रसादस्तं कान्ति
४८ हठयोगप्रदीपिका
द्युतिं दहनस्य जठराग्नेः प्रदीप्तिं प्रकृष्टां दीप्तिं च । तथा । अशोषाः समस्ता ये
दोषा वातपित्तकफास्तेषामुपचयम् । एतदपचयस्याप्युपलक्षणम् । उपचयापचयौ
निहन्यान्नितरां हन्यात् । दोषसाम्यरूपमारोग्यं कुर्यादित्यर्थः ॥ २८ ॥
अथ नेतिः—
सूत्रं वितस्ति सुस्निग्धं नासानाले प्रवेशयेत् ।
मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥ २९ ॥
अथ नेतिकर्माह—सूत्रमिति । वितस्ति वितस्तिमितं वितस्तिरित्युपलक्षण-
मधिकस्यापि । यावता सूत्रेण सम्यग् नेतिकर्म भवेत् तावद् ग्राह्यम् ।
सुस्निग्धं सुष्ठु स्निग्धं ग्रन्थादिरहितं सूत्रम् । तच्च नवधा दशधा पञ्चदशधा वा
गुणितं सुदृढं ग्राह्यम् । नासा नासिका सैव नालः सच्छिद्रत्वात् तस्मिन्
प्रवेशयेत् । मुखान्निर्गमयेद् निष्कासयेत् । तत्प्रकारस्त्वेवम् । सूत्रप्रान्तं नासानाले
प्रवेश्येतरनासापुटमङ्गुल्या निरुध्य पूरकं कुर्यात् । पुनश्च मुखेन रेचयेत् ।
पुनः पुनरेवं कुर्वतो मुखे सूत्रप्रान्तमायाति । तत्सूत्रप्रान्तं नासाबहिःस्थसूत्रप्रान्तं
च गृहीत्वा शनैश्चालयेदिति । चकारादेकस्मिन् नासानाले प्रवेश्येतरस्मिन्निर्गमयेदि-
त्युक्तम् । तत्प्रकारस्त्वेकस्मिन् नासानाले सूत्रप्रान्तं प्रवेश्येतरनासापुटमङ्गुल्या
निरुध्य पूरकं कुर्यात् पश्चादितरनासानालेन रेचयेत् । पुनःपुनरेवं कुर्वत
इतरनासानाले सूत्रप्रान्तमायाति तस्य पूर्ववच्चालनं कुर्यादिति । अयं प्रकारस्तु
बहुवारं कुर्वतः कदाचिद् भवति । एषोक्ता सिद्धैरणिमादिगुणसंपन्नैः । तदुक्तम्—
‘अवाप्ताष्टगुणैश्वर्याः सिद्धाः सद्भिर्निरूपिताः’ इति । नेतिर्निगद्यते नेतिरिति
कथ्यते ॥ २९ ॥
कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी ।
जत्रूर्ध्वजातरोगौघं नेतिराशु निहन्ति च ॥ ३० ॥
हठयोगप्रदीपिका ४९
नेतिगुणानह—कपालशोधनीति । कपालं शोधयति शुद्धं मलरहितं
करोतीति कपालशोधनी । चकारान्नासाना लादीनामपि । एवशब्दोऽवधारणे ।
दिव्यां सूक्ष्मपदार्थग्राहिणीं दृष्टिं प्रकर्षेण दातुं शीलमस्या इति दिव्यदृष्टिप्रदा-
यिनी । नेतिः नेतिक्रिया । जत्रुणोः स्कन्धसंध्योरूर्ध्वमुपरिभागे जातो जत्रूर्ध्वजातः
स चासौ रोगाणामोधश्च तमाशु झटिति निहन्ति । चकारः पादपूरणे । 'स्कन्धो
भुजशिरोऽसोऽस्त्री संधी तस्यैव जत्रुणी' इत्यमरः (II. 6. 78) ॥ ३० ॥
अथ त्राटकम्—
निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः ।
अश्रुसंपातपर्यन्तमाचार्यैस्त्राटकं स्मृतम् ॥ ३१ ॥
त्राटकमाह—निरीक्षे दिति । समाहितः एकाग्रचित्तः निश्चला चासौ
दृक् च दृष्टिस्तया सूक्ष्मं च तल्लक्ष्यं च सूक्ष्मलक्ष्यमश्रूणां सम्यक् पातः पतनं
तत्पर्यन्तम् । अनेन निरीक्षणस्यावधिरुक्तः । निरीक्षेत पश्येत । आचार्यैर्मत्स्येन्द्रा-
दिभिरिदं त्राटकं त्राटककर्म स्मृतं कथितम् ॥ ३१ ॥
मोचनं नेत्ररोगाणां तन्द्रादीनां कपाटकम् ।
यत्नतस्त्राटकं गोप्यं यथा हाटकपेटकम् ॥ ३२ ॥
त्राटकगुणानह—मोचनमिति । नेत्रस्य रोगा नेत्ररोगास्तेषां मोचनं
नाशकं, तन्द्रा आदिर्येषामालस्यादीनां तेषां कपाटकं कपाटवदन्तर्धायकमभिभावक-
मित्यर्थः । तन्द्रा तामसवृत्तिविशेषः । त्राटकं त्राटकाख्यं कर्म यत्नतः
प्रयत्नतः प्रयत्नाद् गोप्यं गोपनीयम् । गोपने दृष्टान्तमाह—यथेति । हाटकस्य
सुवर्णस्य पेटकं पेटी इति लोके प्रसिद्धं यथा येन प्रकारेण गोप्यते
तद्वत् ॥ ३२ ॥
4
५० हठयोगप्रदीपिका
अथ नौलिः—
अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः ।
नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥ ३३ ॥
नौलिकर्माह—अमन्देति । नतौ नम्रीभूतावंसौ स्कन्धौ यस्य स नतांसः
पुमानमन्दोऽतिशयितो य आवर्तस्तस्येव जलभ्रमस्येव वेगो जवस्तेन तुन्दमुदरम् ।
‘पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ’ इत्यमरः (II. 6. 77) । सव्यं
चापसव्यं च सव्यापसव्ये दक्षिणवामभागौ तयोः सव्यापसव्यतः । सप्तम्यर्थे
तसिः । भ्रामयेद् भ्रमन्तं प्रेरयेत् । सिद्धैरेषा नौलिः प्रशस्यते कथ्यते ॥ ३३ ॥
मन्दाग्निसंदीपनपाचनादिसंधापिकानन्दकरी सदैव ।
अशेषदोषामयशोषणी च हठक्रियामौलिरियं च नौलिः ॥ ३४ ॥
: नौलिगुणानाह—मन्दामीति । मन्दश्चासावग्निर्जठराग्निस्तस्य संदीपनं
सम्यग् दीपनं च पाचनं च भुक्तान्नपरिपाकश्च मन्दाग्निसंदीपनपाचने ते आदिनी
यस्य तन्मन्दाग्निसंदीपनपाचनादि तस्य संधापिका विधात्री । आदिशब्देन
मलशुद्ध्यादि । सदैव सर्वदैवानन्दकरी सुखकरी । अशेषाः समस्ताश्च ते दोषाश्च
वातादय आमयाश्च रोगास्तेषां शोषणी शोषणकर्त्री हठस्य क्रियाणां धौत्यादीनां
मौलिर्मौलिरिवोत्तमा धौतिवस्त्योर्नौलिसापेक्षत्वात् । इयमुक्ता नौलिः ॥ ३४ ॥
अथ कपालभातिः—
भस्त्रावल्लोहकारस्य रेचपूरौ ससंभ्रमौ ।
कपालभातिर्विख्याता कफदोषविशोषणी ॥ ३५ ॥
कपालभातिं तद्गुणं चाह—भस्त्रावदिति । लोहकारस्य भस्त्रा अग्नेर्धमन-
साधनीभूतं चर्म तद्वत् संभ्रमेण सहवर्तमानौ ससंभ्रमावमन्दौ यौ रेचपूरौ रेचक-
हठयोगप्रदीपिका ५१
पूरकौ कपालभातिरिति विख्याता । कीदृशी ? कफदोषविशोषणी । कफस्य दोषा
विंशतिभेदभिन्नाः । तदुक्तं निदाने—‘कफरोगाश्च विंशतिः' इति । तेषां
विशोषणी विनाशनी ॥ ३५ ॥
षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः ।
प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥ ३६ ॥
षट्कर्मणां प्राणायामोपकारकत्वमाह—षट्कर्मेति । षट्कर्मभिर्धौति-
प्रभृतिभिर्निर्गताः स्थौल्यं स्थूलस्य भावः स्थूलत्वम् । कफदोषा विंशतिसंख्याकाः,
मलादयश्च यस्य स तथा । ‘शेषाद्विभाषा’ (Pāṇ., V. 4. 154) इति
कप्रत्ययः । आदिशब्देन पित्तादयः । प्राणायामं कुर्यात् । ततस्तस्मात् षट्कर्म-
पूर्वकात् प्राणायामादनायासेनाश्रमेण सिद्ध्यति योग इति शेषः । षट्कर्माकरणे
तु प्राणायामे श्रमाधिक्यं स्यादिति भावः ॥ ३६ ॥
प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति ।
आचार्याणां तु केषांचिदन्यत् कर्म न संमतम् ॥ ३७ ॥
मतभेदेन षट्कर्मणामनुपयोगमाह—प्राणायामैरिति । प्राणायामैरेव ।
एवशब्दः षट्कर्मव्यवच्छेदार्थः । सर्वे मलाः प्रशुष्यन्ति । मला इत्युपलक्षणं
स्थौल्यकफपित्तादीनाम्, इति हेतोः केषांचिदाचार्याणां याज्ञवल्क्यादीनामन्यत्
कर्म षट्कर्म न संमतं नाभिमतम् । आचार्यलक्षणमुक्तं वायुपुराणे—
‘आचिनोति च शास्त्रार्थमाचारे स्थापयेदपि ।
स्वयमाचरते यस्मादाचार्यस्तेन चोच्यते ॥’
इति ॥ ३७ ॥
५२ हठयोगप्रदीपिका
अथ गजकरणी-
उदरगतपदार्थमुद्वमन्ति पवनमपानमुदीर्य कण्ठनाले ।
क्रमपरिचयवश्यनाडिचक्रा गजकरणीति निगद्यते हठज्ञैः ॥
गजकरणीमाह—उदरगतेति । अपानं पवनमपानवायुं कण्ठनाले
कण्ठो नाल इव कण्ठनालस्तस्मिन्नुदीर्योत्क्षिप्योदरे गतः प्राप्तः स चासौ पदार्थश्च
भुक्तपीतान्नजलादिस्तं पदार्थं वमन्त्युद्गिरन्ति यया, योगिन इत्यध्याहारः । क्रमेण
यः परिचयोऽभ्यासस्तेन वश्यं स्वाधीनं नाडीनां चक्रं यस्यां सा तथा । सा क्रिया
हठज्ञैर्हठयोगाद्यभिज्ञैर्गजकरणीति निगद्यते कथ्यते । 'क्रमपरिचयवश्यनाडिमार्गा'
इति क्वचित् पाठः । तस्यायमर्थः । क्रमपरिचयेन वश्यो नाड्याः शङ्खिन्या मार्गः
कण्ठपर्यन्तो यस्यां सा तथा ॥ ३८ ॥
ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः ।
अभूवन्नन्तकभयात् तस्मात् पवनमभ्यसेत् ॥ ३९ ॥
प्राणायामोऽवश्यमभ्यसनीयः सर्वोत्तमैरभ्यस्तत्वाद् महाफलत्वाच्चेति सूचय-
न्नाह चतुर्भिः—ब्रह्मादय इति । ब्रह्मा आदिर्येषां ते ब्रह्मादयस्तेऽपि किमुतान्य
इत्यर्थः । त्रिदशा देवाः, अन्तयतीत्यन्तकः कालस्तस्माद् भयमन्तकभयं तस्मात्
पवनस्य प्राणवायोरभ्यासो रेचकपूरककुम्भकभेदभिन्नप्राणायामानुष्ठानरूपस्तस्मिन्
तत्परा अवहिता अभूवन् आसन्। तस्मात् पवनमभ्यसेत् प्राणमभ्यस्येत् ॥ ३९ ॥
यावद् बद्धो मरुद् देहे यावच्चित्तं निराकुलम् ।
यावद् दृष्टिर्भ्रुवोर्मध्ये तावत् कालभयं कुतः ॥ ४० ॥
यावदिति । यावद् यावत्कालपर्यन्तं मरुत् प्राणानिलो देहे शरीरे बद्धः
श्वासोच्छ्वासक्रियाशून्यः । यावच्चित्तमन्तःकरणं निराकुलमविक्षिप्तं समाहितम् ।
हठयोगप्रदीपिका ५३
यावद् भ्रुवोर्मध्ये दृष्टिरन्तःकरणवृत्तिः । दृशिरत्र ज्ञानसामान्यार्थः । तावत्काल-
पर्यन्तं कलयतीति कालोऽन्तकस्तस्माद् भयं कुतः, न कुतोऽपीत्यर्थः । तथा च
वक्ष्यति (IV. 108)—
‘ खाद्यते न च कालेन बाध्यते न च कर्मणा ।
साध्यते न स केनापि योगी युक्तः समाधिना ॥ ’
इति । स्वाधीनो भवतीत्यर्थः ॥ ४० ॥
विधिवत् प्राणसंयामैर्नाडीचक्रे विशोधिते ।
सुषुम्नावदनं भित्त्वा सुखाद् विशति मारुतः ॥ ४१ ॥
विधिवदिति । विधिवत् प्राणसंयामैरासनजालंधरबन्धादिविधियुक्त-
प्राणायामैर्नाडीचक्रे नाडीनां चक्रं समूहस्तस्मिन् विशोधिते निर्मले सति मारुतो
वायुः सुषुम्ना इडापिङ्गलयोर्मध्यस्था नाडी तस्या वदनं मुखं भित्त्वा सुखाद-
नायासाद् विशति सुषुम्नान्तरिति शेषः ॥ ४१ ॥
मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते ।
यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥ ४२ ॥
मारुत इति । मध्ये सुषुम्नामध्ये संचारः सम्यक् चरणं गमनं मूर्धपर्यन्तं
यस्य स मध्यसंचारस्तस्मिन् सति मनसः स्थैर्यं ध्येयाकारवृत्तिप्रवाहो जायते
प्रादुर्भवति । यो मनसः सुस्थिरीभावः सुष्ठुस्थिरीभवनं सैव मनोन्मन्यवस्था ।
मनोन्मनीशब्द उन्मनीपर्यायः । तथाग्रे वक्ष्यति—‘ राजयोगः समाधिश्च ’
(IV. 3) इत्यादिना ॥ ४२ ॥
तत्सिद्धये विधानज्ञाश्चित्रान् कुर्वन्ति कुम्भकान् ।
विचित्रकुम्भकाभ्यासाद् विचित्रां सिद्धिमाप्नुयात् ॥ ४३ ॥
५४ हठयोगप्रदीपिका
विचित्रेषु कुम्भकेषु प्रवृत्तिं जनयितुं तेषां मुख्यफलमवान्तरफलं चाह—
तत्सिद्धय इति। विधानं कुम्भकानुष्ठानप्रकारस्तज्जानन्तीति विधानज्ञास्तत्सिद्धये
उन्मन्यवस्थासिद्धये चित्रान् सूर्यभेदनादिभेदेन नानाविधान् कुम्भकान् कुर्वन्ति॥
विचित्राश्च ते कुम्भकाश्च विचित्रकुम्भकास्तेषामभ्यासादनुष्ठानाद् विचित्रामणि-
मादिभेदेन नानाविधां विलक्षणां वा जन्मौषधिमन्त्रतपोजातां सिद्धिम्। तदुक्तं
भागवते (XI. 16. 34)—
‘जन्मौषधितपोमन्त्रैर्य्यावत्य इह सिद्धयः।
योगेनाप्नोति ताः सर्वा नान्यैर्योगगतिं व्रजेत् ॥’ इति।
आमुयात् प्रत्याहारादिपरंपरयेति भावः ॥ ४३ ॥
अथ कुम्भकभेदाः—
सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा।
भस्त्रिका भ्रामरी मूर्च्छा प्लाविनित्यष्ट कुम्भकाः ॥ ४४ ॥
अथाष्टकुम्भकान् नामभिर्निर्दिशति—सूर्यभेदनमिति। स्पष्टम् ॥ ४४ ॥
पूरकान्ते तु कर्तव्यो बन्धो जालंधराभिधः।
कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ ४५ ॥
अथ हठसिद्धावनन्यसिद्धां पारमहंसीं सर्वकुम्भकसाधारणयुक्तिमाह
त्रिभिः—पूरकान्त इति। जालंधर इत्यभिधा नाम यस्य स जालंधराभिधो बन्धः,
बध्नाति प्राणवायुमिति बन्धः। कण्ठाकुञ्चनपूर्वकं चिबुकस्य हृदि स्थापनं जालंधर-
बन्धः पूरकान्ते पूरकस्यान्ते पूरकानन्तरं झटिति कर्तव्यः। तुशब्दात्
कुम्भकादौ। उड्डियानकस्तु कुम्भकान्ते कुम्भकस्यान्ते किंचित् कुम्भकशेषे रेचक-
हठयोगप्रदीपिका ५५
स्यादौ रेचकादौ रेचकात् पूर्वं कर्तव्यः । प्रयत्नविशेषेण नाभिप्रदेशस्य पृष्ठत
आकर्षणमुड्डियानबन्धः ॥ ४५ ॥
अधस्तात् कुञ्चनेनाशु कण्ठसंकोचने कृते ।
मध्ये पश्चिमतानेन स्यात् प्राणो ब्रह्मनाडिगः ॥ ४६ ॥
अधस्तादिति । कण्ठस्य संकोचनं कण्ठसंकोचनं तस्मिन् कृते सति
जालंधरबन्धे कृते सतीत्यर्थः । आश्वव्यवहितोत्तरमेवाधस्तादधःप्रदेशदाकुञ्चनेना-
धाराकुञ्चनेन मूलबन्धेनेत्यर्थः । मध्ये नाभिप्रदेशे पश्चिमतः पृष्ठतस्तानं ताननमा-
कर्षणं तेनोड्डियानबन्धेनेत्यर्थः । उक्तरीत्या कृतेन बन्धत्रयेण प्राणो वायुर्ब्रह्म-
नाडिं सुषुम्नां गच्छतीति ब्रह्मनाडिगः सुषुम्नानाडिगामी स्यादित्यर्थः । अत्रेदं
रहस्यम् । यदि श्रीगुरुमुखाज्जिह्वाबन्धः सम्यक् परिज्ञातस्तर्हि जिह्वाबन्धपूर्वकेन
जालंधरबन्धेनैव प्राणायामः सिध्यति । वायुप्रकोपो नैव भवति । 'वपुःकृशत्वं
वदने प्रसन्नता' (II. 78) इत्यादीनि सर्वाणि लक्षणानि जायन्त इति
मूलबन्धोड्डियानबन्धौ नोपयुक्तौ । तयोर्जिह्वाबन्धपूर्वकेण जालंधरबन्धेनान्यथा
सिद्धत्वात् । जिह्वाबन्धो न विदितश्चेद् 'अधस्तात् कुञ्चनेन' इति श्लोकोक्तरीत्या
प्राणायामाः कर्तव्याः । त्रयोऽपि बन्धा गुरुमुखाज्ज्ञातव्याः । मूलबन्धस्तु
सम्यगज्ञातो नानारोगोत्पादकः । तथा हि, यदि मूलबन्धे कृते धातुक्षयो
विष्टम्भोऽग्निमान्द्यं नादमान्द्यं गुटिकासमूहाकारमजस्येव पुरीषं स्यात् तदा
मूलबन्धः सम्यग् न ज्ञात इति बोध्यम् । यदि तु धातुपुष्टिः सम्यग्
मलशुद्धिरग्निदीप्तिः सम्यग् नादाभिव्यक्तिश्च स्यात् तदा ज्ञेयं मूलबन्धः सम्यग्
ज्ञात इति ॥ ४६ ॥
अपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् ।
योगी जरावियुक्तः सन् षोडशाब्दवया भवेत् ॥ ४७ ॥
५६ हठयोगप्रदीपिका
अपानमिति । अपानमपानवायुमूर्ध्वमुत्थाप्याधाराकुञ्चनेन प्राणं प्राणवायुं
कण्ठादधः अधोभागे नयेत् प्रापयेद् यः स योगी, योगोऽस्यास्ति अभ्यस्तत्वेनेति
योगी योगाभ्यासी जरया वार्धकेन विमुक्तो विशेषेण मुक्तः सन् । षोड-
शानामब्दानां समाहारः षोडशाब्दम्, षोडशाब्दं वयो यस्य स तादृशो भवेत् ।
यद्यपि 'पूरकान्ते तु कर्तव्यः' (V. 45) इत्यादिना त्रयाणां श्लोकानामेक
एवार्थः पर्यवस्यति, तथापि पूरकान्ते तु कर्तव्य इत्यनेन बन्धानां काल
उक्तः । अधस्तात् कुञ्चनेनेत्यनेन बन्धानां स्वरूपमुक्तम् । अपानमूर्ध्व-
मुत्थाप्येत्यनेन बन्धानां फलमुक्तमिति विशेषः । जालंधरबन्धे मूलबन्धे
च कृते नाभेरधोभाग आकर्षणाख्यो बन्ध उड्डियानबन्धो भवत्येवेत्यस्मिन्
श्लोके नोक्तः । तथाचोक्तं ज्ञानेश्वरेण गीताषष्ठाध्यायव्याख्यायां—'मूलबन्धे
जालंधरबन्धे च कृते नाभेरधोभाग आकर्षणाख्यो बन्धः स्वयमेव भवति'
इति ॥ ४७ ॥
अथ सूर्यभेदनम्—
आसने सुखदे योगी बद्ध्वा चैवासनं ततः ।
दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ ४८ ॥
'योगाभ्यासक्रमं वक्ष्ये योगिनां योगसिद्धये ।
उषःकाले समुत्थाय प्रातःकालेऽथ वा बुधः ॥ १ ॥
गुरुं संस्मृत्य शिरसि हृदये स्वेष्टदेवताम् ।
शौचं कृत्वा दन्तशुद्धिं विदध्याद् भस्मधारणम् ॥ २ ॥
शुचौ देशे मठे रम्ये प्रतिष्ठाप्यास नं मृदु ।
तत्रोपविश्य संस्मृत्य मनसा गुरुमीश्वरम् ॥ ३ ॥
देशकालौ च संकीर्त्य संकल्प्य विधिपूर्वकम् ।
हठयोगप्रदीपिका ५७
अद्येत्यादि श्रीपरमेश्वरप्रसादपूर्वकम् । समाधितत्फलसिद्ध्यर्थमासन-
पूर्वकान् प्राणायामादीन् करिष्ये ।
अनन्तं प्रणमेद् देवं नागेशं पीठसिद्धये ॥ ४ ॥
मणिभ्राजत्फणसहस्रविधृतविश्वंभरामण्डलायानन्ताय नागराजाय नमः ।
ततोऽभ्यसेदासनानि श्रमे जाते शवासनम् ।
अन्ते समभ्यसेत् तत्तु श्रमाभावे तु नाभ्यसेत् ॥ ५ ॥
करणीं विपरीताख्यां कुम्भकात् पूर्वमभ्यसेत् ।
जालंधरप्रसादार्थं कुम्भकात् पूर्वयोगतः ॥ ६ ॥
विधायाचमनं कृत्वा कर्माङ्गं प्राणसंयमम् ।
योगीन्द्रादीन् नमस्कृत्य कौर्माच्च शिववाक्यतः ॥ ७ ॥'
कूर्मपुराणे शिववाक्यम्—
'नमस्कृत्याथ योगीन्द्रान् सशिष्यांश्च विनायकम् ।
गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ॥ ८ ॥
बद्ध्वाभ्यासे सिद्धपीठं कुम्भकाबन्धपूर्वकम् ।
प्रथमे दश कर्तव्याः पञ्चवृद्ध्या दिने दिने ॥ ९ ॥
कार्या अशीतिपर्यन्तं कुम्भकाः सुसमाहितैः ।
योगीन्द्रः प्रथमं कुर्यादभ्यासं चन्द्रसूर्ययोः ॥ १० ॥
अनुलोमविलोमाख्यमेतं प्राहुर्मनीषिणः ।
सूर्यभेदनमभ्यस्य बन्धपूर्वकमेकधीः ॥ ११ ॥
उज्जायिनं ततः कुर्यात् सीत्कारीं शीतलीं ततः ।
भस्त्रिकां च समभ्यस्य कुर्यादन्यान्न वा परान् ॥ १२ ॥
मुद्राः समभ्यसेद् बुद्ध्वा गुरुवक्त्राद् यथाक्रमम् ।
५८ हठयोगप्रदीपिका
ततः पद्मासनं बद्ध्वा कुर्यान्नादानुचिन्तनम् ॥ १३ ॥
अभ्यासं सकलं कुर्यादीश्वरार्पणमादृतः ।
अभ्यासादुत्थितः स्नानं कुर्यादुष्णेन वारिणा ॥ १४ ॥
स्नात्वा समापयेन्नित्यं कर्म संक्षेपतः सुधीः ।
मध्याह्नेऽपि तथाभ्यस्य किंचिद् विश्रम्य भोजनम् ॥ १५ ॥
क्रियेत योगिना पथ्यमपथ्यं न कदाचन ।
एलां वापि लवङ्गं वा भोजनान्ते च भक्षयेत् ॥ १६ ॥
केचित् कर्पूरमिच्छन्ति ताम्बूलं शोभनं तथा ।
चूर्णेन रहितं शस्तं पवनाभ्यासयोगिनाम् ॥ १७ ॥
इति चिन्तामणेर्वाक्यं स्वारस्यं भजते न हि ।
केचित्पदेन यस्मात् तु तयोः शीतोष्णहेतुता ॥ १८ ॥
भोजनानन्तरं कुर्यान्मोक्षशास्त्रावलोकनम् ।
पुराणश्रवणं वापि नामसंकीर्तनं विभोः ॥ १९ ॥
सायंसंध्याविधिं कृत्वा योगं पूर्ववदभ्यसेत् ।
यदा त्रिघटिकाशेषो दिवसोऽभ्यासमांचरेत् ॥ २० ॥
अभ्यासानन्तरं कार्या सायंसंध्या सदा बुधैः ।
अर्धरात्रे हठाभ्यासं विदध्यात् पूर्ववद् यमी ॥ २१ ॥
विपरीतां तु करणीं सायंकालार्धरात्रयोः ।
नाभ्यसेद् भोजनादूर्ध्वं यतः सा न प्रशस्यते ॥ २२ ॥'
अथोद्देशानुक्रमेण कुम्भकान् विवक्षुस्तत्र प्रथमोदितं सूर्यभेदनं
तद्गुणांश्चाह त्रिभिः—आसन इति । सुखं ददातीति सुखदं तस्मिन् सुखदे ।
'शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरं ॥' (B. G., VI. 11)
हठयोगप्रदीपिका ५९
इत्युक्तलक्षणे 'विविक्तदेशे च सुखासनस्थः शुचिः समग्रीवशिरःशरीरः'
(Kaival. Up., 5) इति श्रुतेश्च चैलाजिनकुशोत्तर आसने । आस्तेऽस्मिन्नित्या-
सनम्, आस्यतेऽनेनेति वा तस्मिन् योगी योगाभ्यासी । आसनं स्वस्तिकवीरसिद्ध-
पद्माद्यन्यतमं मुख्यत्वात् सिद्धासनमेव वा बद्ध्वैव बन्धनेन संपाद्यैव
कृत्वैवेत्यर्थः । तत आसनबन्धानन्तरं दक्षा दक्षिणभागस्था या नाडी पिङ्गला
तया बहिःस्थं देहाद् बहिर्वर्तमानं पवनं वायुं शनैर्मन्दमन्दमाकृष्य पिङ्गलया
मन्दमन्दं पूरकं कृत्वेत्यर्थः ॥ ४८ ॥
आ केशादा नखाग्राच्च निरोधावधि कुम्भयेत् ।
ततः शनैः सव्यनाड्या रेचयेत् पवनं शनैः ॥ ४९ ॥
आ केशादिति । केशान् मर्यादीकृत्य आ केशात्; नखाग्रान्
मर्यादीकृत्या नखाग्रात्, निरोधस्य वायोरवरोधस्यावधिर्मर्यादा यस्मिन्
कर्मणि तत्तथा कुम्भयेत् । केशपर्यन्तं नखाग्रपर्यन्तं च वायोनिरोधो यथा भवेत्
तथातिप्रयत्नेन कुम्भकं कुर्यादित्यर्थः । ननु-
'हठान्निरुद्धः प्राणोऽयं रोमकूपेषु निःसरेत् ।
देहं विदारयत्येष कुष्ठादि जनयत्यपि ॥
ततः प्रत्यायितव्योऽसौ क्रमेणारण्यहस्तिवत् ।
वन्योगजो गजारिर्वा क्रमेण मृदुतामियात् ॥
करोति शास्तृनिर्देशान्न च तं परिलङ्घयेत् ।
तथा प्राणो हृदिस्थोऽयं योगिनां क्रमयोगतः ॥
गृहीतः सेव्यमानस्तु विश्रम्भमुपगच्छति ।'
इति वाक्यविरुद्धमतिप्रयत्नेन कुम्भकं कुर्यादिति कत्थमुक्तमिति चेन्न ।
हठान्निरुद्धः प्राणोऽयमिति वाक्यस्य बलादचिरेण प्राणजयं करिष्यामीति
६० हठयोगप्रदीपिका
बुध्यारम्भ एव । बह्वभ्यासासक्तपरत्वात् क्रमेणारण्यहस्तिवदिति दृष्टान्तस्वार-
स्याच्च । अतएव सूर्याचन्द्रमसोरभ्यासे ‘धारयित्वा यथाशक्ति’ (III. 21)
निधारयेदिति निरोधत इति चोक्तं संगच्छते । तस्मात् कुम्भकस्त्वतिप्रयत्नपूर्वकं
कर्तव्यः । यथा यथातियत्नेन कुम्भकः क्रियते तथा तथा तस्मिन् गुणाधिक्यं
भवेत् । यथा यथा च शिथिलः कुम्भकः स्यात् तथा तथा गुणालपत्वं स्यात् । अत्र
योगिनामनुभवोऽपि मानम् । पूरकस्तु शनैः शनैः कार्यः, वेगाद्वा कर्तव्यः ।
वेगादपि कृते पूरके दोषाभावात् । रेचकस्तु शनैः शनैरेव कर्तव्यः । वेगात्कृते
रेचके बलहानिप्रसङ्गात् । ततः शनैःशनैरेव रेचयेन्न तु वेगतः इत्याद्यनेकधा
ग्रन्थकारोक्तेश्च । ततो निरोधावधि कुम्भकानन्तरं शनैश्शनैर्मन्दं मन्दं सव्ये वामभागे
स्थिता नाडी सव्यनाडी तया सव्यनाड्या इडया पवनं वायुं रेचयेद् बहिर्निः-
सारयेत् । पुनः शनैरित्युक्तिस्तु शनैरेव रेचयेदित्यवधारणार्था । तदुक्तम्—
‘ विस्मये च विषादे च दैन्ये चैवावधारणे ।
तथा प्रसादने हर्षे वाक्यमेकं द्विरुच्यते ॥ ४९ ॥’ इति ।
कपालशोधनं वातदोषघ्नं कृमिदोषहृत् ।
पुनः पुनरिदं कार्यं सूर्यभेदनमुत्तमम् ॥ ५० ॥
कपालशोधनमिति । कपालस्य मस्तकस्य शोधनं शुद्धिकरं वातजा
दोषा वातदोषा अशीतिप्रकारास्तान् हन्तीति वातदोषघ्नं कृमीणामुदरे जातानां
दोषो विकारस्तं हरतीति कृमिदोषहृत् । पुनःपुनर्भूयोभूयः कार्यम् । सूर्ये-
णापूर्य कुम्भयित्वा चन्द्रेण रेचनमिति रीत्येदमुत्तममुत्कृष्टं सूर्यभेदनं सूर्यभेद-
नाख्यमुक्तं योगिभिरिति शेषः ॥ ५० ॥
अथोज्जायी—
मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः ।