सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

१०८ हठयोगप्रदीपिका
जल इति । गोः पुरीषाणि गोमयानि दग्धानि च तानि गोमयानि च
दग्धगोमयानि तेषु संभव उत्पत्तिर्यस्य तद्दग्धगोमयसंभवं शोभनं भस्म शुभस्म
विभूतिः तत् जले तोये निक्षिप्य तोयमिश्रं कृत्वेत्युत्तरश्लोकेनान्वेति ॥ ९२ ॥
वज्रोलीमैथुनादूर्ध्वं स्त्रीपुंसोः स्वङ्गलेपनम् ।
आसीनयोः सुखेनैव मुक्तव्यापारयोः क्षणात् ॥ ९३ ॥
वज्रोलीति । वज्रोलीमुद्रार्थं मैथुनं तस्मादूर्ध्वमनन्तरं सुखेनैवानन्देनैवा-
सीनयोरुपविष्टयोः क्षणादृत्युत्सवान्मुक्तस्त्यक्तो व्यापारो रतिक्रिया याभ्यां तौ
मुक्तव्यापारौ तयोर्मुक्तव्यापारयोः स्त्री च पुमांश्च स्त्रीपुंसौ तयोः स्त्रीपुंसयोः
स्वङ्गलेपनं शोभनान्यङ्गानि स्वङ्गानि मूर्धललाटनेत्रहृदयस्कन्धभुजादीनि तेषु
लेपनम् । कुर्यादिति शेषः ॥ ९३ ॥
सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा ।
अयं शुभकरो योगो भोगयुक्तोऽपि मुक्तिदः ॥ ९४ ॥
सहजोलिरिति । इयमुक्ता क्रिया सहजोलिरिति प्रोक्ता कथिता
योगिभिर्मत्स्येन्द्रादिभिः । कीदृशी ? सदा श्रद्धेया सर्वदा श्रद्धातुं योग्या । अयं
सहजोल्याख्यो योग उपायः शुभकरः शुभं श्रेयः करोतीति शुभकरः । ‘ योगः
संहननोपायध्यानसंगतियुक्तिषु ’ (Ak., III. 3. 22) इत्यभिधानात् । कीदृशो
योगः ? भोगेन स्त्रीसङ्गेन युक्तोऽपि मुक्तिदो मोक्षदः ॥ ९४ ॥
अयं योगः पुण्यवतां धीराणां तत्त्वदर्शिनाम् ।
निर्मत्सराणां वै सिद्ध्येन्न तु मत्सरशालिनाम् ॥ ९५ ॥
अयं योग इति । अयमुक्तो योगः पुण्यं विद्यते येषां ते पुण्यवन्तः
सुकृतिनस्तेषां पुण्यवतां धीराणां धैर्यवतां, तत्त्वं वास्तविकं द्रष्टुं शीलं येषां ते

हठयोगप्रदीपिका १०९
तत्त्वदर्शिनस्तेषां तत्त्वदर्शिनाम् । मत्सरा निष्क्रान्ता निर्मत्सरास्तेषां निर्मत्सराणा-
मन्यगुणद्वेषरहितानाम् । 'मत्सरोऽन्यगुणद्वेषः' इत्यमरः (III. 3. 172) ।
तादृशानां पुंसां सिध्येत् सिद्धिं गच्छेत् । मत्सरशालिनां मत्सरवतां तु न
सिध्येत् ॥ ९५ ॥
अथामरोली—
पित्तोल्बणत्वात् प्रथमाम्बुधारां
विहाय निःसारतयान्त्यधाराम् ।
निषेव्यते शीतलमध्यधारा
कापालिके खण्डमतेऽमरोली ॥ ९६ ॥
अमरोलीमाह—पित्तोल्बणत्वादिति । पित्तेनोल्बणोत्कटा पित्तोल्बणा
तस्या भावः पित्तोल्बणत्वं तस्मात् । यथा प्रथमा पूर्वा याऽम्बुनः शिवाम्बुनो धारा
तां विहाय शिवाम्बुनिर्गमनसमये किंचित् पूर्वा धारां त्यक्त्वा । निर्गतः सारो
यस्याः सा निःसारा तस्या भावो निःसारता तया निःसारतया निःसारत्वेनान्त्य-
धारा अन्त्या चरमा या धारा तां विहाय किंचिदन्त्यां धारां त्यक्त्वा । शीतला
पित्तादिदोषनिःसारत्वरहिता या मध्यधारा मध्यमा धारा सा निषेव्यते नितरां
सेव्यते । खण्डो योगविशेषो मतोऽभिमतो यस्य स खण्डमतस्तस्मिन् खण्डमते
कापालिकस्यायं कापालिकस्तस्मिन् कापालिके खण्डकापालिकसंप्रदाय इत्यर्थः ।
अमरोली प्रसिद्धेति शेषः ॥ ९६ ॥
अमरीं यः पिबेन्नित्यं नस्यं कुर्वन् दिने दिने ।
वज्रोलीमभ्यसेत् सम्यक् सामरोलीति कथ्यते ॥ ९७ ॥
अमरीमिति । अमरीं शिवाम्बु यः पुमान् नित्यं पिबेत् । नस्यं
कुर्वन् श्वासेनामर्या घ्राणान्तर्ग्रहणं कुर्वन् सन् दिने दिने प्रतिदिनं वज्रोलीं

११० हठयोगप्रदीपिका
“मेहनेन शनैः” (III. 85) इति श्लोकेनोक्तां सम्यगभ्यसेत् सामरोलीति
कथ्यते । कापालिकैरिति शेषः । अमरीपानामरीनस्यपूर्विका वज्रोल्यमरोली-
शब्देनोच्यत इत्यर्थः ॥ ९७ ॥
अभ्यासान्निःस्रुतां चान्द्रीं विभूत्या सह मिश्रयेत् ।
धारयेदुत्तमाङ्गेषु दिव्यदृष्टिः प्रजायते ॥ ९८ ॥
अभ्यासादिति । अभ्यासादमरोल्यभ्यासान्निःस्रुतां निर्गतां चान्द्रीं
चन्द्रस्येयं चान्द्री तां चान्द्रीं सुधां विभूत्या भस्मना सह साकं मिश्रयेत्
संयोजयेत् । उत्तमाङ्गेषु शिरःकपालनेत्रस्कन्धकण्ठहृदयभुजादिषु धारयेत् ।
भस्ममिश्रितां चान्द्रीमिति शेषः । दिव्या अतीतानागतवर्तमानव्यवहितविप्रकृष्ट-
पदार्थदर्शनयोग्या दृष्टिर्यस्य स दिव्यदृष्टिर्दिव्यदृक् प्रजायते प्रकर्षेण जायते ।
अमरीसेवनप्रकारविशेषाः शिवाम्बुकल्पादवगन्तव्याः ॥ ९८ ॥
पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यासपाटवात् ।
यदि नारी रजो रक्षेद् वज्रोल्या सापि योगिनी ॥ ९९ ॥
पुंसो वज्रोलीसाधनमुक्त्वा नार्यास्तदाह—पुंसो बिन्दुमिति । सम्यगभ्या-
सस्य सम्यगभ्यसनस्य पाटवं पटुत्वं तस्मात् पुंसः पुरुषस्य बिन्दुं वीर्यं समाकुञ्च्य
सम्यगाकृष्य नारी स्त्री यदि रजो वज्रोल्या वज्रोलीमुद्रया रक्षेत् , सापि नारी
योगिनी प्रशस्तयोगवती ज्ञेया । पुंसो बिन्दुसमायुक्तमिति पाठे तु एतद्रजसो
विशेषणम् ॥ ९९ ॥
तस्याः किंचिद् रजो नाशं न गच्छति न संशयः ।
तस्याः शरीरे नादश्च बिन्दुतामेव गच्छति ॥ १०० ॥

हठयोगप्रदीपिका १११
नारीकृताया वज्रोल्याः फलमाह—तस्या इति । तस्या वज्रोल्यभ्यसन-
शीलाया नार्या रजः किंचित् किमपि स्वल्पमपि नाशं न गच्छति नष्टं न भवति
पतनं न प्राप्नोतीत्यर्थः । अत्र संशयो न, संदेहो न । तस्या नार्याः शरीरे नादश्च
बिन्दुतामेव गच्छति मूलाधारादुत्थितो नादो हृदयोपरि बिन्दुभावं गच्छति ।
बिन्दुना सहैकीभवतीत्यर्थः । अमृतसिद्धौ—
'बीजं च पौरुषं प्रोक्तं रजश्च स्त्रीसमुद्भवम् ।
अनयोर्बाह्ययोगेन सृष्टिः संजायते नृणाम् ॥
यदाभ्यन्तरयोगः स्यात् तदा योगीति गीयते ।
बिन्दुश्चन्द्रमयः प्रोक्तो रजः सूर्यमयं तथा ॥
अनयोः संगमादेव जायते परमं पदम् ।
स्वर्गदो मोक्षदो बिन्दुधर्मदोऽधर्मदस्तथा ॥
तन्मध्ये देवताः सर्वास्तिष्ठन्ते सूक्ष्मरूपतः ॥' इति ॥ १०० ॥
स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ ।
वज्रोल्यभ्यासयोगेन सर्वसिद्धिं प्रयच्छतः ॥ १०१ ॥
स बिन्दुरिति । स पुंसो बिन्दुस्तद्रजो नार्या रजश्चैव वज्रोलीमुद्राया
अभ्यासो वज्रोल्यभ्यासः स एव योगस्तेनैकीभूय मिलित्वा स्वदेहगौ स्वदेहे
गतौ सर्वसिद्धिं प्रयच्छतः दत्तः ॥ १०१ ॥
रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी ।
अतीतानागतं वेत्ति खेचरी च भवेद् ध्रुवम् ॥ १०२ ॥
रक्षेद्दिति । या नार्याकुञ्चनाद्योनिसंकोचनादूर्ध्वमुपरि स्थाने नीत्वा रजो
. रक्षेत् । हीति प्रसिद्धं योगशास्त्रे । सा योगिन्यतीतानागतं भूतं भविष्यं च वस्तु

११२ हठयोगप्रदीपिका
वेत्ति जानाति ध्रुवमिति निश्चितं खेऽन्तरिक्षे चरतीति खेचर्यन्तरिक्षचरी च
भवेत् ॥ १०२ ॥
देहसिद्धिं च लभते वज्रोल्यभ्यासयोगतः ।
अयं पुण्यकरो योगो भोगे भुक्तेऽपि मुक्तिदः ॥ १०३ ॥
देहसिद्धिमिति । वज्रोल्या अभ्यासस्य योगो युक्तिस्तस्माद् देहस्य सिद्धिं
रूपलावण्यबलवज्रसंहननत्वरूपां लभते । अयं योगो वज्रोल्यभ्यासयोगः
पुण्यकरोऽदृष्टविशेषजनकः । कीदृशो योगः? भुज्यत इति भोगो विषयस्तस्मिन्
भुक्तेऽपि मुक्तिदो मोक्षदः ॥ १०३ ॥
अथ शक्तिचालनम्—
कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी ।
कुण्डल्यरुन्धती चैते शब्दाः पर्यायवाचकाः ॥ १०४ ॥
शक्तिचालनं विवक्षुस्तदुपोद्घाततया कुण्डलीपर्यायान् तया मोक्षद्वार-
विभेदनादिकं चाह सप्तभिः—कुटिलाङ्गीति । कुटिलाङ्गी । १ । कुण्डलिनी । २ ।
भुजङ्गी । ३ । शक्तिः । ४ । ईश्वरी । ५ । कुण्डली । ६ । अरुन्धती । ७ । चैते
सप्त शब्दाः पर्यायवाचका एकार्थवाचकाः ॥ १०४ ॥
उद्घाटयेत् कपाटं तु यथा कुञ्चिकया हठात् ।
कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ॥ १०५ ॥
उद्घाटयेदिति । यथा येन प्रकारेण पुमान् कुञ्चिकया कपाटार्गलोत्सारण-
साधनीभूतया हठाद् बलात् कपाटमररमुद्घाटयेदुत्सारयेत् । हठादिति देहलीदी-
पन्यायेनोभयत्र संबध्यते । तथा तेन प्रकारेण योगी हठाद्धठाभ्यासात् कुण्ड-

हठयोगप्रदीपिका ११३
लिन्या शक्त्या मोक्षद्वारं मोक्षस्य द्वारं प्रापकं सुषुम्नामार्गं विभेदयेद्विशेषेण भेद-
येत् । 'तयोर्ध्वमायन्नमृतत्वमेति' इति श्रुतेः (Ch. Up., VIII. 6. 6) ॥१०५॥
येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् ।
मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ॥ १०६ ॥
येनेति । आमयो रोगजन्यं दुःखं दुःखमात्रोपलक्षणं तस्मान्निर्गतं निरामयं
दुःखमात्ररहितं ब्रह्मस्थानं ब्रह्माविर्भावजनकं स्थानं ब्रह्मस्थानं ब्रह्मरन्ध्रम् ।
'तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः' (Mah. Nār., XI. 13) इति
श्रुतेः । येन मार्गेण सुषुम्नामार्गेण गन्तव्यं गमनार्हमस्ति तद्द्वारं तस्य मार्गस्य
द्वारं प्रवेशमार्गं मुखेनास्येनाच्छाद्य रुद्ध्वा परमेश्वरी कुण्डलिनी । प्रसुप्ता
निद्रितास्ति ॥ १०६ ॥
कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् ।
बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् ॥ १०७ ॥
कन्दोर्ध्व इति । कुण्डली शक्तिः कन्दोर्ध्वे कन्दस्योपरिभागे योगिनां
मोक्षाय सुप्ता, मूढानां बन्धनाय सुप्ता । योगिनस्तां चालयित्वा मुक्ता भवन्ति ।
मूढास्तदज्ञानाद् बद्धास्तिष्ठन्तीति भावः । तां कुण्डलिनीं यो वेत्ति स योगवित् ।
सर्वेषां योगतन्त्राणां कुण्डल्याश्रयत्वादित्यर्थः ॥ १०७ ॥
कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता ।
सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः ॥ १०८ ॥
कुण्डलीति । कुण्डली शक्तिः सर्पवद्भुजङ्गवत् कुटिल आकारः स्वरूपं
यस्याः सा कुटिलाकारा परिकीर्तिता कथिता योगिभिः । सा कुण्डली शक्तिर्येन
8

११४ हठयोगप्रदीपिका
पुंसा चालिता मूलाधारादूर्ध्वं नीता स मुक्तोऽज्ञानबन्धान्निवृत्तः । अत्रास्मिन्नर्थे
संशयो न संदेहो नास्तीत्यर्थः । 'तयोध्र्वमायन्नमृतत्वमेति' इति श्रुतेः
(Ch. Up., VIII. 6. 6) ॥ १०८ ॥
गङ्गायमुनोर्मध्ये बालरण्डां तपस्विनीम् ।
बलात्कारेण गृह्णीयात् तद्विष्णोः परमं पदम् ॥ १०९ ॥
गङ्गायमुनयोरिति । गङ्गायमुनयोराधाराधेयभावेन तयोर्भवनाद् गङ्गा-
यमुनयोरभेदेन भावनाद्वा गङ्गायमुने इडापिङ्गले तयोर्मध्ये सुषुम्नामार्गे तपस्विनीं
निरशनस्थितेः, बालरण्डां बालरण्डाशब्दवाच्यां कुण्डलीं बलात्कारेण हठेन
गृह्णीयात् । तत्तस्या गङ्गायमुनोर्मध्ये ग्रहणं विष्णोर्हरेर्व्यापकस्यात्मनो वा परमं
पदं परमपदप्रापकम् ॥ १०९ ॥
इडा भगवती गङ्गा पिङ्गला यमुना नदी ।
इडापिङ्गल्योर्मध्ये बालरण्डा च कुण्डली ॥ ११० ॥
गङ्गायमुनादिपदार्थमाह—इडेति । इडा वामनिःश्वासा नाडी भगवत्यै-
श्वर्यादिसंपन्ना गङ्गा गङ्गापदवाच्या, पिङ्गला दक्षिणनिःश्वासा यमुना यमुनाशब्द-
वाच्या नदी । इडापिङ्गल्योर्मध्ये मध्यगता या कुण्डली सा बालरण्डा बाल-
रण्डाशब्दवाच्या ॥ ११० ॥
पुच्छे प्रगृह्य भुजगीं सुप्तामुद्धोधयेच्च ताम् ।
निद्रां विहाय सा शक्तिरूर्ध्वमुत्तिष्ठते हठात् ॥ १११ ॥
शक्तिचालनमाह—पुच्छ इति । सुप्तां निद्रितां भुजगीं तां कुण्डलिनीं
पुच्छे प्रगृह्योद्धोधयेत् प्रबोधयेत् सा शक्तिः कुण्डली निद्रां विहाय हठादूर्ध्वं
तिष्ठत इत्यन्वयः । एतद्रहस्यं तु गुरुमुखादवगन्तव्यम् ॥ १११ ॥

हठयोगप्रदीपिका ११५
अवस्थिता चैव फणावती सा
प्रातश्च सायं प्रहरार्धमात्रम् ।
प्रपूर्य सूर्यात् परिधानयुक्त्या
प्रगृह्य नित्यं परिचालनीया ॥ ११२ ॥
अवस्थितेति । अवस्थितावार्क् स्थिता मूलाधारस्थिता फणावती
भुजङ्गी सा कुण्डली सूर्यादापूर्य सूर्यात् पूरणं कृत्वा परिधाने युक्तिस्तया
परिधानयुक्त्या प्रगृह्य गृहीत्वा । सायं सूर्यास्तसमये प्रातः सूर्योदयवेलायां
नित्यमहरहः प्रहरस्य यामस्यार्धं प्रहरार्धं प्रहरार्धमेव प्रहरार्धमात्रं मुहूर्तद्वयमात्रं
परिचालनीया परितश्चालयितुं योग्या । परिधानयुक्तिर्देशिकाद् बोध्या ॥ ११२ ॥
ऊर्ध्वं वितस्तिमात्रं तु विस्तारं चतुरङ्गुलम् ।
मृदुलं धवलं प्रोक्तं वेष्टिताम्बरलक्षणम् ॥ ११३ ॥
कन्दसंपीडनेन शक्तिचालनं विवक्षुरादौ कन्दस्य स्थानं स्वरूपं चाह—
ऊर्ध्वमिति । मूलस्थानाद् वितस्तिमात्रं वितस्तिप्रमाणमूर्ध्वमुपरि नाभिमेण्ढ्रयोर्मध्ये ।
एतेन कन्दस्य स्थानमुक्तम् । तथा चोक्तं गोरक्षशतके (16)—
‘ऊर्ध्वं मेढ्रादधो नाभेः कन्दयोनिः खगाण्डवत् ।
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ॥’
इति । याज्ञवल्क्यः—
‘गुदांतु द्व्यङ्गुलादूर्ध्वं मेढ्रात्तु द्व्यङ्गुलादधः ।
देहमध्यं तयोर्मध्यं मनुजानामितीरितम् ॥
कन्दस्थानं मनुष्याणां देहमध्यान्नवाङ्गुलम् ।
चतुरङ्गुलविस्तारमायामं च तथाविधम् ॥

११६ हठयोगप्रदीपिका
अण्डाकृतिवदाकारभूषितं च त्वगादिभिः ।
चतुष्पदां तिरश्चां च द्विजानां तुन्दमध्यगम् ॥' इति ।
(Yy., IV. 14, 16-17)
गुदाद् द्व्यङ्गुलोपर्य्येकाङ्गुलं मध्यं तस्मान्नवाङ्गुलं कन्दस्थानं, मिलित्वा
द्वादशाङ्गुलप्रमाणं वितस्तिमात्रं जातम् । चतुर्णामङ्गुलानां समाहारश्चतुरङ्गुलं
चतुरङ्गुलप्रमाणं विस्तारम् । विस्तारो दैर्घ्यस्याप्युपलक्षणम् । चतुरङ्गुलं दीर्घं
च मृदुलं कोमलं धवलं शुभ्रं वेष्टितं वेष्टनाकारीकृतं यदम्बरं वस्त्रं तस्य लक्षणं
स्वरूपमिव लक्षणं स्वरूपं यस्य तादृशं प्रोक्तं कथितम् । कन्दस्वरूपं योगिभिरिति
शेषः ॥ ११३ ॥
सति वज्रासने पादौ कराभ्यां धारयेद् दृढम् ।
गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् ॥ ११४ ॥
सतीति । वज्रासने कृते सति कराभ्यां हस्ताभ्यां गुल्फौ पादग्रन्थी
तयोर्देशौ प्रदेशौ तयोः समीपे गुल्फाभ्यां किंचिदुपरि । 'तद्ग्रन्थी घुटिके
गुल्फौ' इत्यमरः (II. 6. 72) । पादौ चरणौ दृढं गाढं धारयेत् गृह्णीयात् ।
चकाराद् धृताभ्यां पादाभ्यां तत्र कन्दस्थाने कन्दं प्रपीडयेत् प्रकर्षेण पीडयेत् ।
गुल्फादूर्ध्वं कराभ्यां पादौ गृहीत्वा नाभेरधोभागे कन्दं पीडयेदित्यर्थः ॥ ११४ ॥
वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् ।
कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत् ॥ ११५ ॥
वज्रासन इति । वज्रासने स्थितो योगी कुण्डलीं चालयित्वा शक्ति-
चालनमुद्रां कृत्वेत्यर्थः । अनन्तरं शक्तिचालनानन्तरं भस्त्रां भस्त्राख्यं कुम्भकं
कुर्यात् । एवंरीत्या कुण्डलीं शक्तिमाशु शीघ्रं बोधयेत् प्रबुद्धां कुर्यात् ।

हठयोगप्रदीपिका ११७
वज्रासने शक्तिचालनस्य पूर्वं विधानेऽपि पुनर्वज्रासनोपादानं शक्तिचालनानन्तरं
भस्त्रायां वज्रासनमेव कर्तव्यमिति नियमार्थम् ॥ ११५ ॥
भानोराकुञ्चनं कुर्यात् कुण्डलीं चालयेत् ततः ।
मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः ॥ ११६ ॥
भानोरिति । भानोर्नाभिदेशस्थस्य सूर्यस्याकुञ्चनं कुर्यात् । नाभेरा-
कुञ्चनेनैवास्याकुञ्चनं भवति । ततो भानोराकुञ्चनात् कुण्डलीं शक्तिं चालयेत् ।
मृत्योर्वक्त्रं मुखं गतस्यापि प्राप्तस्यापि तस्य पुंसो मृत्युभयं कालभयं कुतः ?
न कुतोऽपीत्यर्थः ॥ ११६ ॥
मुहूर्तद्वयपर्यन्तं निर्भयं चालनादसौ ।
ऊर्ध्वमाकृष्यते किंचित् सुषुम्नायां समुद्गता ॥ ११७ ॥
मुहूर्तद्वयेति । मुहूर्त्तयोर्द्वयं युग्मं घटिकाचतुष्टयात्मकं तत्पर्यन्तं तदवधि
निर्भयं निःशङ्कं चालनादसौ शक्तिः सुषुम्नायां समुद्गता सती किंचिदूर्ध्व-
माकृष्यते आकृष्टा भवति ॥ ११७ ॥
तेन कुण्डलिनी तस्याः सुषुम्नाया मुखं ध्रुवम् ।
जहाति तस्मात् प्राणोऽयं सुषुम्नां व्रजति स्वतः ॥ ११८ ॥
तेनेति । तेनोर्ध्वाकर्षणेन कुण्डलिनी तस्याः प्रसिद्धायाः सुषुम्नाया
मुखं प्रवेशमार्गं ध्रुवं निश्चितं जहाति त्यजति । तस्मान्मार्गत्यागादयं प्राणवायुः
स्वतः स्वयमेव सुषुम्नां व्रजति गच्छति । सुषुम्नामुखात् प्रागेव कुण्डलिन्या
निर्गतत्वादिति भावः ॥ ११८ ॥
तस्मात् संचालयेन्नित्यं सुखसुप्तामरुन्धतीम् ।
तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥ ११९ ॥

११८ हठयोगप्रदीपिका
तस्मादिति । यस्माच्छक्तिचालनेन प्राणः सुषुम्नां व्रजति तस्मात्
सुखेन सुप्ता सुखसुप्ता तां सुखसुप्तारुन्धतीं शक्तिं नित्यं प्रतिदिनं संचालयेत्
सम्यक् चालयेत् । तस्याः शक्तेः संचालनेनैव संचालनमात्रेण योगी रोगैः
कासश्वासज्वरादिभिः प्रमुच्यते प्रकर्षेण मुक्तो भवति ॥ ११९ ॥
येन संचालिता शक्तिः स योगी सिद्धिभाजनम् ।
किमत्र बहुनोक्तेन कालं जयति लीलया ॥ १२० ॥
येनेति । येन योगिना शक्तिः कुण्डली संचालिता स योगी सिद्धीनामणि-
मादीनां भाजनं पात्रं भवति । अत्रास्मिन्नर्थे बहुनोक्तेन बहुप्रशंसनेन किम् ? न किम-
पीत्यर्थः । कालं मृत्युं लीलया क्रीडयानायासेनेव जयत्यभिभवतीत्यर्थः ॥ १२० ॥
ब्रह्मचर्यरतस्यैव नित्यं हितमिताशिनः ।
मण्डलाद् दृश्यते सिद्धिः कुण्डल्यभ्यासयोगिनः ॥ १२१ ॥
ब्रह्मचर्येति । ब्रह्मचर्यं श्रोत्रादिभिः सहोपस्थसंयमस्तस्मिन् रतस्य तत्परस्य
नित्यं सर्वदा हितं पथ्यं मितं चतुर्थांशवर्जितमश्नातीति तस्य कुण्डल्यभ्यासः
शक्तिचालनाभ्यासः स एव योगः सोऽस्यास्तीति स तथा, तस्य मण्डला-
च्चत्वारिंशद्दिनात्मकादनन्तरं सिद्धिः प्राणायामसिद्धिर्दृश्यते ।
' नासादक्षिणमार्गवाहिपवनात् प्राणोऽतिदीर्घीकृत-
श्चन्द्राभः परिपूरितामृततनुः प्राग्घण्टिकायास्ततः ।
छित्त्वा कालविशालवह्निवशगं भ्रूरन्ध्रनाडीगतं
तत्कायं कुरुते पुनर्नवतरं छिन्नद्रुमस्कन्धवत् ॥' १२१ ॥
कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद् विशेषतः ।
एवमभ्यस्यतो नित्यं यमिनो यमभीः कुतः ॥ १२२ ॥

हठयोगप्रदीपिका ११५
कुण्डलीमिति । कुण्डलीं चालयित्वा शक्तिचालनं कृत्वा । अथानन्तरमेव
भस्त्रां भस्त्राख्यं कुम्भकं कुर्यात् । नित्यं प्रतिदिनम् । एवमुक्तप्रकारेणाभ्यस्यतो
यमिनो योगिनो यमभीर्यमाद्भयं कुतः ? न कुतोऽपीत्यर्थः । योगिनो देहत्यागस्य
स्वाधीनत्वादिति तात्पर्यम् ॥ १२२ ॥
द्वासप्ततिसहस्राणां नाडीनां मलशोधने ।
कुतः प्रक्षालनोपायः कुण्डल्यभ्यसनादृते ॥ १२३ ॥
द्वासप्ततीति । द्वाभ्यामधिका सप्ततिः, द्वासप्ततिसंख्याकानि सहस्राणि
द्वासप्ततिसहस्राणि तेषां तत्संख्याकानां नाडीनां मलशोधने कर्तव्ये सति
कुण्डल्यभ्यसनाच्छक्तिचालनाभ्यासादृते विना कुतः प्रक्षालनोपायः ? न
कुतोऽपि । शक्तिचालनाभ्यासेनैव सर्वासां नाडीनां मलशोधनं भवतीत्यभि-
प्रायः ॥ १२३ ॥
इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम् ।
आसनप्राणसंयाममुद्राभिः सरला भवेत् ॥ १२४ ॥
इयं त्विति । इयं मध्यमा नाडी सुषुम्ना योगिनां दृढाभ्यासेनासनं
स्वस्तिकादि प्राणसंयामः प्राणायामो मुद्रा महामुद्रादिका तैः सरला ऋज्वी
भवेत् ॥ १२४ ॥
अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना ।
रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति ॥ १२५ ॥
अभ्यास इति । समाधिनेतरवृत्तिनिरोधरूपेणैकाग्र्येण मनो धृत्वान्तः-
करणं धारणानिष्ठं कृत्वाभ्यासे मनःस्थितौ यत्ने, विगता निद्रा येषां ते तथा
तेषाम् । निद्रापदमालस्योपलक्षणम् । अनलसानामित्यर्थः । रुद्राणी शांभवी

१२० हठयोगप्रदीपिका
मुद्रा वा अथवा परान्या उन्मन्यादिका, भद्रां शुभां सिद्धिं योगसिद्धिं प्रयच्छति
ददाति । एतेन हठयोगोपकारको राजयोगः प्रोक्तः ॥ १२५ ॥
राजयोगं विना पृथ्वी राजयोगं विना निशा ।
राजयोगं विना मुद्रा विचित्रापि न शोभते ॥ १२६ ॥
राजयोगं विना आसनादीनां वैयर्थ्यमौपचारिकश्लेषेणाह—राजयोग-
मिति । वृत्त्यन्तरनिरोधपूर्वकात्मगोचरधारावाहिकनिर्विकल्पकवृत्ती राजयोगः ।
‘हठं विना राजयोगः’ (II. 76) इत्यत्र सूचितस्तत्साधनाभ्यासो वा तं विना
तमृते । पृथ्वीशब्देन स्थैर्यगुणयोगादासनं लक्ष्यते । तन्न राजते न शोभते ।
राजयोगं विना परमपुरुषार्थफलासिद्धेरिति हेतुरग्रेऽपि योजनीयः । राजयोगं
विना निशेव निशा कुम्भको न राजते, निशायां प्रायेण जनसंचाराभावात् ।
निशाशब्देन प्राणसंचाराभावलक्षणः कुम्भको लक्ष्यते । राजयोगं विना मुद्रा
महामुद्रादिरूपा विचित्रापि विविधापि विलक्षणापि वा न राजते न शोभते ।
पक्षान्तरे । राज्ञो नृपस्य योगो राजयोगो राजसंबन्धस्तं विना पृथ्वी भूमिर्न
राजते । शास्तारं विना भूमौ नानोपद्रवसंभवात् । राजा चन्द्रः । ‘सोमोऽस्माकं
ब्राह्मणानां राजा’ इति श्रुतेः (TS., 1. 8. 10. 2) । तस्य योगं संबन्धं विना
निशा रात्रिर्न राजते। राजयोगं विना नृपसंबन्धं विना मुद्रा राजभिः पत्रेषु क्रिय-
माणश्चिह्नविशेषः । विचित्रापि । पृथ्वीपक्षे रत्नादिजनकत्वेन विलक्षणापि, निशापक्षे
ग्रहनक्षत्रादिभिर्विचित्रापि, मुद्रापक्षे रेखाभिर्विचित्रापि न राजते ॥ १२६ ॥
मारुतस्य विधिं सर्वं मनोयुक्तं समभ्यसेत् ।
इतरत्र न कर्तव्या मनोवृत्तिर्मनीषिणा ॥ १२७ ॥
मारुतस्येति । मारुतस्य वायोः सर्वं विधिं कुम्भकमुद्राविधानं मनोयुक्तं
मनसा युक्तं समभ्यसेत् सम्यगभ्यस्येत् मनीषिणा बुद्धिमता पुंसा, इतरत्र

हठयोगप्रदीपिका १२१
मारुतस्य विक्षेपेऽन्यस्मिन् विषये मनोवृत्तिर्मनसो वृत्तिः प्रवृत्तिर्न कर्तव्या न
कार्या ॥ १२७ ॥
इति मुद्रा दश प्रोक्ता आदिनाथेन शंभुना ।
एकैका तासु यमिनां महासिद्धिप्रदायिनी ॥ १२८ ॥
मुद्रा उपसंहरति--इतीति । आदिनाथेन सर्वेश्वरेण शंभुना शं सुखं
भवत्यस्मादिति शंभुस्तेन । इत्युक्तरीत्या दश दशसंख्याका मुद्राः प्रोक्ताः
कथिताः । तासु मुद्रासु मध्ये एकैकापि प्रत्येकमपि या काचन मुद्रा
यमिनां यमवतां योगिनां महासिद्धिप्रदायिनी, अणिमादिप्रदात्री कैवल्यप्रदात्री
वा ॥ १२८ ॥
उपदेशं हि मुद्राणां यो दत्ते सांप्रदायिकम् ।
स एव श्रीगुरुः स्वामी साक्षादीश्वर एव सः ॥ १२९ ॥
मुद्रोपदेष्टारं गुरुं प्रशंसति--उपदेशमिति । यः पुमान् मुद्राणां
महामुद्रादीनां संप्रदायाद् योगिनां गुरुपरंपरारूपादागतं सांप्रदायिकमुपदेशं दत्ते
ददाति । स एव स पुमानेव श्रीगुरुः श्रीमान् गुरुः, सर्वगुरुभ्यः श्रेष्ठ इत्यर्थः ।
स्वामी प्रभुः स एव, साक्षात्प्रत्यक्ष ईश्वर एव सः । ईश्वराभिन्न एव स
इत्यर्थः ॥ १२९ ॥
तस्य वाक्यपरो भूत्वा मुद्राभ्यासे समाहितः ।
अणिमादिगुणैः सार्धं लभते कालवञ्चनम् ॥ १३० ॥
इति श्रीस्वात्मारामयोगीन्द्रविरचितायां हठयोगप्रदीपिकायां मुद्राविधानं नाम
तृतीयोपदेशः

१२२ हठयोगप्रदीपिका
तस्येति । तस्य मुद्राणामुपदेष्टुर्गुरोर्वाक्यपरो वाक्यमासनकुम्भकाद्यनु-
ष्ठानविषयकं युक्ताहारविहारचेष्टादिविषयकं च तस्मिन् परस्तत्परः, तत्परश्चादर-
वान् । आदरश्चावहिततया करणम् । भूत्वा संभूय मुद्राणां महामुद्रादीनामभ्यासः
पौनःपुन्येनावर्तनं तस्मिन् मुद्राभ्यासे समाहितः सावधानः पुरुषोऽणिमादि-
गुणैरणिमादिसिद्धिभिः सार्धं साकं कालस्य मृत्योर्वञ्चनं प्रतारणं लभते
प्राप्नोति ॥ १३० ॥
इति श्रीहठयोगप्रदीपिकाव्याख्यायां ब्रह्मानन्दकृतायां ज्योत्स्नाभिधायां मुद्राकथनं नाम
तृतीयोपदेशः

चतुर्थोपदेशः
नमः शिवाय गुरवे नादबिन्दुकलात्मने ।
निरञ्जनपदं याति नित्यं तत्र परायणः ॥ १ ॥
प्रथमद्वितीयतृतीयोपदेशोक्तानामासनकुम्भकमुद्राणां फलभूतं राजयोगं
विवक्षुः स्वात्मारामः श्रेयांसि बहुविघ्नानीति तत्र विघ्नबाहुल्यस्य संभवात्
तन्निवृत्तये शिवाभिन्नगुरुनमस्कारात्मकं मङ्गलमाचरति—नम इति । शिवाय
सुखरूपायेश्वराभिन्नाय वा । तदुक्तम्—‘नमस्ते नाथ भगवन् शिवाय गुरु-
रूपिणे’ इति । गुरवे देशिकाय यद्वा गुरवे सर्वान्तर्यामितया निखिलोपदेष्ट्रे
शिवायेश्वराय । तथा च पातञ्जलसूत्रम्—‘ [स] पूर्वेषामपि गुरुः कालेनानवच्छे-
दात्’ (1. 26) इति । नमः प्रह्लीभावोऽस्तु । कीदृशाय शिवाय ? गुरवे नाद-
बिन्दुकलात्मने । कांस्यघण्टानिर्ह्रादवदनुरणनं नादः । बिन्दुरनुस्वारोत्तरभावी
ध्वनिः । कला नादैकदेशः, ता आत्मा स्वरूपं यस्य स तथा तस्मै । नादबिन्दु-
कलात्मना वर्तमानायेत्यर्थः । तत्र नादबिन्दुकलात्मनि शिवे गुरौ नित्यं
प्रतिदिनं परायणोऽवहितः पुमान् । एतेन नादानुसंधानपरायण इत्युक्तम् ।
पूर्वपादेन गुरुशिवयोरभेदश्च सूचितः । अञ्जनं मायोपाधिस्तद्रहितं निरञ्जनं
शुद्धं, पद्यते गम्यते योगिभिरिति पदं ब्रह्म याति प्राप्नोति । तथा च वक्ष्यति
—‘ नादानुसंधानसमाधिभाजाम्’ (IV. 81) इत्यादिना ॥ १ ॥
अथेदानीं प्रवक्ष्यामि समाधिक्रममुत्तमम् ।
मृत्युघ्नं च सुखोपायं ब्रह्मानन्दकरं परम् ॥ २ ॥

१२४ हठयोगप्रदीपिका
समाधिक्रमं प्रतिजानीते—अथेति । अथासनकुम्भकमुद्राकथनानन्त-
रमिदानीमस्मिन्नवसरे समाधिक्रमं प्रत्याहारादिरूपं प्रवक्ष्यामि प्रकर्षेण विविच्य
वक्ष्यामीत्यन्वयः । कीदृशं समाधिक्रमम्? उत्तमं श्रीआदिनाथोक्तसपादकोटि-
समाधिप्रकारेष्कृष्टम् । पुनः कीदृशम् ? मृत्युं कालं हन्ति निवारयतीति मृत्युघ्नं
स्वेच्छया देहत्यागजनकं तत्त्वज्ञानोदयमनोनाशवासनाक्षयैः सुखस्य जीवन्मुक्ति-
सुखस्योपायं प्राप्तिसाधनम् । पुनः कीदृशम् ? परं ब्रह्मानन्दकरं प्रारब्धकर्मक्षये
सति जीवब्रह्मणोरभेदेनात्यन्तिकब्रह्मानन्दप्राप्तिरूपविदेहमुक्तिकरम् । तत्र निरोध-
समाधिना चित्तस्य ससंस्काराशेषवृत्तिनिरोधे शान्तघोरमूढावस्थानिवृत्तौ
“जीवन्नेव हि विद्वान् हर्षशोकाभ्यां विमुच्यते' इत्यादिश्रुत्युक्तनिर्विकारस्व-
रूपावस्थितिरूपा जीवन्मुक्तिर्भवति । परममुक्तिस्तु प्रारब्धभोगान्तेऽन्तःकरणगुणानां
प्रतिप्रसवेनौपाधिकरूपात्यन्तिकनिवृत्तावात्यन्तिकस्वरूपावस्थानं प्रतिप्रसवसिद्धम् ।
व्युत्थाननिरोधसमाधिसंस्कारा मनसि लीयन्ते । मनोऽस्मितायामस्मिता महति
महान् प्रधान इति चित्तगुणानां प्रतिप्रसवः प्रतिसर्गः स्वकारणे लयः ।
ननु जीवन्मुक्तस्य व्युत्थाने ब्राह्मणोऽहं मनुष्योऽहमित्यादिव्यवहारदर्श-
नाच्चित्तादिभिरौपाधिकभावजननादम्लेन दुग्धस्येव स्वरूपच्युतिः स्यादिति चेन्न ।
संप्रज्ञातसमाधावनुभूतात्मसंस्कारस्य निरोधसंस्कारस्य च तदानीं सत्त्वात् ।
ताभ्यां च व्युत्थानसंस्कारस्य दग्धबीजकल्पत्वाद् व्युत्थानव्यवहारस्यातात्त्विक-
त्वनिश्चयात् । अतात्त्विकान्यथाभावस्य विकारित्वाप्रयोजकत्वात् । अम्लेन
दुग्धस्य दधिभावस्तु तात्त्विक इति दृष्टान्तवैषम्याच्च । पुरुषस्य त्वन्तःकरणोपाधि-
कोऽहं ब्राह्मण इत्यादिव्यवहारः स्फटिकस्य जपाकुसुमसंनिधानोपाधिरुणिमेव
न तात्त्विकः । जपाकुसुमापगमे स्फटिकस्य स्वस्वरूपावस्थितिवदन्तःकरणस्य
सकलवृत्तिनिरोधे स्वस्वरूपावस्थितिरच्युतैव पुरुषस्य ॥ २ ॥

हठयोगप्रदीपिका १२५
राजयोगः समाधिश्च उन्मनी च मनोन्मनी ।
अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम् ॥ ३ ॥
अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम् ।
जीवन्मुक्तिश्च सहजा तुर्या चेत्येकवाचकाः ॥ ४ ॥
समाधिपर्यायान् विशेषेणाह—राजयोग इत्यादिना श्लोकद्वयेन ।
स्पष्टम् ॥ ३-४ ॥
सलिले सैन्धवं यद्वत् साम्यं भजति योगतः ।
तथात्ममनसोरैक्यं समाधिरभिधीयते ॥ ५ ॥
त्रिभिः समाधिमाह—सलिल इति । यद्वद्यथा सैन्धवं सिन्धुदेशोद्भवं
लवणं सलिले जले योगतः संयोगात् साम्यं सलिलसाम्यं सलिलैक्यं भजति
प्राप्नोति तथा तद्वदात्मा च मनश्चात्ममनसी तयोरात्ममनसोरैक्यमेकाकारता ।
आत्मनि धारितं मन आत्माकारं सदात्मसाम्यं भजति तादृशमात्ममनसोरैक्यं
समाधिरभिधीयते समाधिशब्देनोच्यत इत्यर्थः ॥ ५ ॥
यदा संक्षीयते प्राणो मानसं च प्रलीयते ।
तदा समरसत्वं च समाधिरभिधीयते ॥ ६ ॥
यदा संक्षीयत इति । यदा यस्मिन् काले जितप्राणस्य योगिनः
कुम्भककाले प्राणः शरीरान्तर्वर्ती वायुः कुम्भकेन निरुद्धवृत्तिकः प्राणः क्षीण
इत्युच्यते, संक्षीयते सम्यक् क्षीणो भवति । मानसं च मनश्च प्रलीयते प्रकर्षेण
लयं प्राप्नोति । आत्मनि स्थितस्य मनसः आत्माकारता लयः तदा तस्मिन् काले
समरसत्वम् एकाकारत्वं मनसश्च आत्मनि स्थितस्य आत्माकारपरिणामेनात्मा-
कारत्वम् । जपाकुसुमस्थस्य स्फटिकमणेर्जपाकुसुमाकारत्ववत् । तथा च पातञ्जलं

१२६ हठयोगप्रदीपिका
-सूत्रम् ‘क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः’
(1. 41) इति। चकारेण समरसत्वस्य स्थैर्यं समुच्चीयते । अत एव पातञ्जलभाष्ये
“विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते’ इत्युक्तम् (I. 1) ।
इत्थं चात्माकारमनोवृत्तेः स्थिरीभावः समाधिरभिधीयत इत्यर्थः । उक्ताभ्यां द्वाभ्यां
श्लोकाभ्यां संप्रज्ञातः समाधिरुक्तः । सम्यक् संभूय विपर्ययरहितत्वेन प्रज्ञायते
प्रकर्षेणापरोक्षतयानुभूयते भाव्यस्य स्वरूपमनेनेति संप्रज्ञातः समाधिः भावना-
विशेषः । भावना च भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनःपुनर्निवेशनम् ।
संप्रज्ञातः सालम्बनः सबीजो लयः--एते संप्रज्ञातस्य प्रसिद्धाः पर्यायाः ॥ ६ ॥
तत्समं च द्वयोरैक्यं जीवात्मपरमात्मनोः ।
प्रनष्टसर्वसंकल्पः समाधिः सोऽभिधीयते ॥ ७ ॥
तत्सममिति । तत्समं पूर्वोक्तसमं द्वयोरुभयोः जीवात्मा अन्तःकरणोपहितं
चैतन्यम्, परमात्मा सच्चिदानन्दलक्षणं, देशकालवस्तुपरिच्छेदशून्यं चैतन्यं,
तयोरैक्यमभेदः । ऐक्यं विशिनष्टि प्रनष्टसर्वसंकल्प इति । प्रकर्षेण नष्टाः निरुद्धाः
सर्वे ध्यातृध्यानध्येयादिरूपाः संकल्पाः सम्यक् कल्पनाः यस्मिन् तत्
तादृशमैक्यम्, पुंलिङ्गपाठे समाधेर्विशेषणम् । सः योगशास्त्रप्रसिद्धः समाधिः
निर्बीजः समाधिः अभिधीयते कथ्यते । तथा च पातञ्जलं सूत्रम्-‘तस्यापि
निरोधे सर्वनिरोधान्निर्बीजः समाधिः' (1. 51) इति । अनेनासंप्रज्ञातः
समाधिरुक्तः । अन्वर्थश्चायम्, न किमपि सम्यग् ध्यातृध्यानध्येयत्वादिना
प्रज्ञायतेऽस्मिन्निति असंप्रज्ञातः । असंप्रज्ञातो निरालम्बो निर्बीजो राजयोगो
निरोधश्चैते असंप्रज्ञातस्य प्रसिद्धाः पर्यायाः ॥ ७ ॥
राजयोगस्य माहात्म्यं को वा जानाति तत्त्वतः ।
ज्ञानं मुक्तिः स्थितिः सिद्धिर्गुरुवाक्येन लभ्यते ॥ ८ ॥

हठयोगप्रदीपिका १२७
अथ राजयोगप्रशंसा—राजयोगस्येति । राजयोगस्यानन्तरमेवोक्तस्य
माहात्म्यं प्रभावं तत्त्वतो वस्तुतः को वा जानाति ? न कोऽपि जानातीत्यर्थः ।
तत्त्वतो वक्तुमशक्यत्वेऽप्येकदेशेन राजयोगप्रभावमाह—ज्ञानमिति । ज्ञानं
स्वस्वरूपापरोक्षानुभवो मुक्तिर्विदेहमुक्तिः स्थितिर्निर्विकारस्वरूपावस्थितिरूपा
जीवन्मुक्तिः सिद्धिरणिमादिर्गुरुवाक्येन गुरुवचसा लभ्यते । राजयोगादिति
शेषः ॥ ८ ॥
दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् ।
दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥ ९ ॥
दुर्लभ इति । विशेषेण सिन्वन्त्यवबध्नन्ति प्रमातारं स्वसङ्गेनेति विषया
ऐहिका दारादय आमुष्मिकाः सुधादयस्तेषां त्यागो भोगेच्छाभावो दुर्लभः ।
तत्त्वदर्शनमात्मापरोक्षानुभवः दुर्लभम् । सहजावस्था तुर्यावस्था । सद्गुरोः ‘दृष्टिः
स्थिरा यस्य विनैव दृश्यम्’ इति वक्ष्यमाणलक्षणस्य करुणां दयां विनेति सर्वत्र
संबध्यते । दुर्लभा लब्धुमशक्या । ‘दुःस्यात् कष्टनिषेधयोः’ इति कोशः ।
गुरुकृपया तु सर्वं सुलभमिति भावः ॥ ९ ॥
विविधैरासनैः कुम्भैर्विचित्रैः करणैरपि ।
प्रबुद्धायां महाशक्तौ प्राणः शून्ये प्रलीयते ॥ १० ॥
विविधैरिति । विविधैरनेकविधैरासनैर्मत्स्येन्द्रादिपीठैर्विचित्रैर्नानाविधैः
कुम्भैः कुम्भकैः । विचित्रैरिति काकाक्षिगोलकन्यायेनोभयत्र संबध्यते । विचित्रैरने-
कप्रकारकैः करणैर्हठसिद्धौ प्रकृष्टोपकारकैर्महामुद्रादिभिर्महाशक्तौ कुण्डलिन्यां
प्रबुद्धायां गतनिद्रायां सत्यां प्राणो वायुः शून्ये ब्रह्मरन्ध्रे प्रलीयते प्रलयं
प्राप्नोति । व्यापाराभावः प्राणस्य प्रलयः ॥ १० ॥