सामग्री पर जाएँ
सर्वकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 42, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 42

२४ हठयोगप्रदीपिका
उन्मन्यवस्था । सा कलेवाहादकत्वाच्चन्द्रलेखेव निरायासादनायासात् स्वय-
मेवोत्पद्यत उदेति ॥ ४१ ॥
तथैकस्मिन्नेव दृढे बद्धे सिद्धासने सति ।
बन्धत्रयमनायासात् स्वयमेवोपजायते ॥ ४२ ॥
तथेति । तथोक्तप्रकारेणैकस्मिन्नेव सिद्धासने दृढे बद्धे सति बन्धत्रयं मूल-
बन्धोड्डीयानबन्धजालंधरबन्धरूपमनायासात् ‘पार्ष्णिभागेन संपीड्य योनिमाकुञ्च-
येद् गुदम्’ (III. 61) इत्यादिवक्ष्यमाणमूलबन्धादिष्वायासं विनैव स्वयमे-
वोपजायते स्वत एवोत्पद्यत इत्यर्थः ॥ ४२ ॥
नासनं सिद्धसदृशं न कुम्भः केवलोपमः ।
न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ ४३ ॥
नासनमिति । सिद्धेन सिद्धासनेन सदृशमासनं नास्तीति शेषः । केवलेन
केवलकुम्भकेनोपमीयत इति केवलोपमः कुम्भः कुम्भको नास्ति । खेचरीमुद्रासमा
मुद्रा नास्ति । नादसदृशो लयो लयहेतुर्नास्ति ॥ ४३ ॥
अथ पद्मासनम्—
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकये-
देतद् व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥ ४४ ॥
अथासनं वक्तुमुपक्रमते—अथेति । पद्मासनमाह—वामोरूपरीति ।
वामो य ऊरुस्तस्योपरि दक्षिणम् । चकारः पादपूरणे । संस्थाप्य सम्यगुत्तानं
स्थापयित्वा वामं सव्यं चरणं तथा दक्षिणचरणवद् दक्षो दक्षिणो य ऊरुस्तस्योपरि