हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 38, कुल 307 में से
संदर्भ में पढ़ें२० हठयोगप्रदीपिका
समस्तं भस्म कुर्यात् पाचयेदित्यर्थः । जठराग्निं जठरानलं जनयति प्रादुर्भावयति ।
कालकूटं विषं कालकूटवदपकारकान्नं समस्तं जारयेज्जीर्णं कुर्यात् पाचये-
दित्यर्थः ॥ ३१ ॥
उत्तानं शववद् भूमौ शयनं तच्छवासनम् ।
शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम् ॥ ३२ ॥
शवासनमाहार्धेन—उत्तानमिति । शवेन मृतशरीरेण तुल्यं शववदुत्तानं
भूमिसंलग्नं पृष्ठं यथा स्यात् तथा शयनं निद्रायामिव संनिवेशो यत् तच्छवासनं
शवाख्यमासनम् । शवासनप्रयोजनमाह उत्तरार्धेन । शवासनं श्रान्तिहरं श्रान्तिं
हठाभ्यासश्रमं हरतीति श्रान्तिहरं चित्तस्य विश्रान्तिर्विश्रामस्तस्याः कारकम् ॥ ३२ ॥
चतुरशीत्यासनानि शिवेन कथितानि च ।
तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम् ॥ ३३ ॥
वक्ष्यमाणासनचतुष्टयस्य श्रेष्ठत्वं वदन्नाह—चतुरशीतीति । शिवेनेश्वरेण
चतुरधिकाशीतिसंख्याकान्यासनानि कथितानि, चकाराच्चतुरशीतिलक्षाणि च ।
तदुक्तं गोरक्षनाथेन—
‘आसनानि च तावन्ति यावन्त्यो जीवजातयः ।
एतेषामखिलान् भेदान् विजानाति महेश्वरः ॥
चतुरशीतिलक्षाणि एकैकं समुदाहृतम् ।
ततः शिवेन पीठानां षोडशोनं शतं कृतम् ॥’ इति ।
तेभ्यः शिवोक्तचतुरशीतिलक्षासनानां मध्ये प्रशस्तानि यानि
चतुरशीत्यासनानि तेभ्य आदाय गृहीत्वा, सारभूतं श्रेष्ठभूतं चतुष्कमहं
ब्रवीमीत्यन्वयः ॥ ३३ ॥