हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 32, कुल 307 में से
संदर्भ में पढ़ें१४ हठयोगप्रदीपिका
लोलस्य भावः लौल्यं चाञ्चल्यम् । षड्भिरत्याहारादिभिरभ्यासप्रतिबन्धाद् योगो
विनश्यति विशेषेण नश्यति ॥ १५ ॥
उत्साहात् साहसाद् धैर्यात् तत्त्वज्ञानाच्च निश्चयात् ।
जनसङ्गपरित्यागात् षड्भिर्योगः प्रसिद्ध्यति ॥ १६ ॥
अथ योगसिद्धिकरानाह—उत्साहादिति । विषयप्रवणं चित्तं निरो-
त्स्याम्येवेत्युद्यम उत्साहः । साध्यत्वासाध्यत्वे अपरिभाव्य सहसा प्रवृत्तिः साहसम् ।
यावज्जीवनं सेत्स्यत्येवेत्यखेदो धैर्यम् । विषया मृगतृष्णाजलवदसन्तः ब्रह्मैव सत्य-
मिति वास्तविकं ज्ञानं तत्त्वज्ञानं, योगानां वास्तविकं ज्ञानं वा । शास्त्रगुरुवाक्येषु
विश्वासो निश्चयः, श्रद्धेति यावत् । जनानां योगाभ्यासप्रतिकूलानां यः सङ्गस्तस्य
परित्यागात् । षड्भिरेभिर्योगः प्रकर्षेणाविलम्बेन सिध्यतीत्यर्थः ॥ १६ ॥
अथ यमनियमाः—
[अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः ।
दयार्जवं मिताहारः शौचं चैव यमा दश ॥
तपः संतोष आस्तिक्यं दानमीश्वरपूजनम् ।
सिद्धान्तवाक्यश्रवणं ह्रीमती च जपो हुतम् ॥
नियमा दश संप्रोक्ता योगशास्त्रविशारदैः ।]
हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते ।
कुर्यात् तदासनं स्थैर्यमारोग्यं चाङ्गलाघवम् ॥ १७ ॥
आदावासनकथने संगतिं सामान्यतस्तत्फलं चाह—हठस्येति । हठस्य
- आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसंधानम्' इति
वक्ष्यमाणानि (I. 56) चत्वार्यङ्गानि । प्रत्याहारादिसमाध्यन्तानां नादानु-