सामग्री पर जाएँ
सर्वकोश
हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)

Hatha Yoga Pradipika with Jyotsna & Hindi Commentary

योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा

DevanagariSanskritpublished307 पृष्ठ

पृष्ठ 29, कुल 307 में से

संदर्भ में पढ़ें
पृष्ठ 29

हठयोगप्रदीपिका ११
द्वादिवत् समासः । स्थातव्यं स्थातुं योग्यम् । मठिकामध्ये इत्यनेन शीतातपादिजनि-
तक्लेशाभावः सूचितः । अत्र 'युक्ताहारविहारेण हठयोगस्य सिद्धये' इत्यर्धं
केनचित्क्षिप्तवान्न व्याख्यातम् । मूलश्लोकानामेव व्याख्यानम् । एवमग्रेऽपि
ये मया न व्याख्याता श्लोका हठप्रदीपिकायामुपलभ्येरन् ते सर्वे क्षिप्ता इति
बोद्धव्यम् ॥ १२ ॥
अल्पद्वारमरन्ध्रगर्तविवरं नात्युच्चनीचायतं
सम्यग्गोमयसान्द्रलिप्तममलं निःशेषजन्तूज्झितम् ।
बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितं
प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥ १३ ॥
अथ मठलक्षणमाह—अल्पद्वारमिति । अल्पं द्वारं यस्मिन् तत्तादृशम् ।
रन्ध्रो गवाक्षादिः, गर्तो निम्नप्रदेशः, विवरो मूषकाहिबिलं ते न सन्ति यस्मिन्
तत्तादृशम् । अत्युच्चं च तन्नीचं चात्युच्चनीचं, तच्च तदायतं चात्युच्चनीचायतम् ।
'विशेषणं विशेष्येण बहुलम्' (Pāṇ., II. 1. 57) इत्यत्र बहुलग्रहणाद्विशेष-
णानां कर्मधारयः । ननूच्चनीचायतशब्दानां भिन्नार्थकानां कथं कर्मधारयः ।
'तत्पुरुषः समानाधिकरणः कर्मधारयः' (Pāṇ., I. 2. 42) इति तल्लक्षणादिति
चेन्न । मठे तेषां सामानाधिकरण्यसंभवात् । न अत्युच्चनीचायतं नात्युच्चनीचायतं,
नशब्देन समासान्नलोपाभावः, नेति पृथक्पदं वा । अत्युच्चे आरोहणे श्रमः
स्यादतिनीचेऽवरोहणे श्रमो भवेत् । अत्यायते दूरं दृष्टिर्गच्छेत् तन्निराकरणार्थमुक्तं
नात्युच्चनीचायतमिति । सम्यक् समीचीनतया गोमयेन गोपुरीषेण सान्द्रं यथा
भवति तथा लिप्तम् । अमलं निर्मलम् । निःशेषा निखिला ये जन्तवो मशकम-
त्कुणाद्यास्तैरुज्झितं त्यक्तं रहितम् । बाह्ये मठाद्बहिःप्रदेशे । मण्डपः- शाला-
विशेषः, वेदिः परिष्कृता भूमिः, कूपो जलाशयविशेषः, तै रुचिरं रमणीयम् ।