हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 26, कुल 307 में से
संदर्भ में पढ़ें८ हठयोगप्रदीपिका
इति पूर्वोक्ता आदयो येषां ते तथा । आदिशब्देन तारानाथादयो
ग्राह्याः । महान्तश्च ते सिद्धाश्च अप्रतिहतैश्वर्या इत्यर्थः । हठयोगस्य प्रभावात्
सामर्थ्यादिति हठयोगप्रभावतः । पञ्चम्यास्तसिल् । कालो मृत्युः तस्य दण्डनं
दण्डः देहप्राणवियोगानुकूलो व्यापारः तं खण्डयित्वा छित्त्वा मृत्युं जित्वेत्यर्थः ।
ब्रह्माण्डमध्ये विचरन्ति विशेषेणाव्याहतगत्या चरन्तीत्यर्थः । तदुक्तं भागवते ।
‘ योगेश्वराणां गतिमाहुरन्तर्बहिखिलोक्याः पवनान्तरात्मनाम्’ इति ॥ ९ ॥
अशेषतापतप्तानां समाश्रयमठो हठः ।
अशेषयोगयुक्तानामाधारकमठो हठः ॥ १० ॥
हठस्याशेषतापनाशकत्वमशेषयोगसाधकत्वं च मठकमठरूपकेणाह—
अशेषेति । अशेषाः आध्यात्मिकाधिभौतिकाधिदैविकभेदेन त्रिविधाः । तत्रा-
ध्यात्मिकं द्विविधम् । शारीरं मानसं च । तत्र शारीरं दुःखं व्याधिजं, मानसं दुःखं
कामादिजम् । आधिभौतिकं व्याघ्रसर्पादिजनितम् । आधिदैविकं ग्रहादिजनितम् ।
ते च ते तापाश्च तैस्तप्तानां संतप्तानां पुंसां हठो हठयोगः । सम्यगाश्रयत इति
समाश्रयः, आश्रयः आश्रयभूतो मठः मठ इव । तथा हठः अशेषयोगयुक्तानाम्,
अशेषयोगयुक्ताः मन्त्रयोगकर्मयोगादियुक्तास्तेषामाधारभूतः कमठः कमठ इव ।
यथा तरणिकिरणतापतप्तानां पुंसामाश्रयो मठः । एवं त्रिविधतापतप्तानां पुंसा-
माश्रयो हठः । यथा च विश्वाधारः कमठः एवं निखिलयोगिनामाधारो हठ
इत्यर्थः ॥ १० ॥
हठविद्यां परं गोप्या योगिना सिद्धिमिच्छता ।
भवेद् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ ११ ॥
अथाखिलविद्यापेक्षया हठविद्याया अतिगोप्यत्वमाह—हठविद्येति ।
सिद्धिमणिमाद्यैश्वर्यमिच्छता यद्वा सिद्धिं कैवल्यसिद्धिमिच्छता वाञ्छता योगिना