हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 203, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका १८५
पतञ्जलिना । भज्यते सेव्यते भगवदाकारमन्तःकरणं क्रियतेऽनयेति भक्ति-
रिति करणव्युत्पत्त्या
‘श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥’
(Bhāg., VII. 5. 23)
इति नवधोक्ता साधनभक्तिरभिधीयते । तस्या ईश्वरप्रणिधानरूपे नियमे-
ऽन्तर्भावः । तस्याश्च समाधिहेतुत्वं चोक्तं पतञ्जलिना । ‘ईश्वरप्रणिधानाद्वा’
(1. 23) इति । ईश्वरविषयकात् प्रणिधानाद् भक्तिविशेषात् समाधिलाभः
समाधिफलं भवतीति सूत्रार्थः । भजनमन्तःकरणस्य भगवदाकारतारूपं भक्तिरिति
भावव्युत्पत्त्या फलभूता भक्तिरभिधीयते । सैव प्रेमभक्तिरित्युच्यते । तल्लक्षणमुक्तं
नारायणतीर्थैः—‘प्रेमभक्तियोगस्तु ईश्वरचरणारविन्दविषयकैकान्तिकात्यन्तिक-
प्रेमप्रवाहोऽविच्छिन्नः’ इति । मधुसूदनसरस्वतीभिस्तु (Bh. Ra., p. 11)
‘द्रवीभावपूर्विका मनसो भगवदाकारतारूपा सविकल्पकवृत्तिर्भक्तिः’ इति ।
तस्यास्तु ‘श्रद्धाभक्तिध्यानयोगादवेहि’ (Kai. Up., 2) इति श्रुतेः । ‘भक्त्या
मामभिजानाति’ (BG., XVIII. 55) इति स्मृतेश्च । आत्मसाक्षात्कारद्वारा
मोक्षहेतुत्वम् । भक्तास्तु सुखस्यैव पुरुषार्थत्वाद् दुःखासंभिन्ननिरतिशयसुखधारा-
रूपा प्रेमभक्तिरेव पुरुषार्थ इत्याहुः । तस्यास्तु संप्रज्ञातसमाधावन्तर्भावः । एवं च
अष्टाङ्गयोगातिरिक्तं किमपि परमपुरुषार्थसाधनं नास्तीति सिद्धम् ॥ ११४ ॥
‘ग्राह्यमेव विदुषां हितं यतो भाषणं मम यदप्यसंस्कृतम् ।
रक्ष गच्छति पयो ऽनलाहितं ह्यम्ब इत्यभिहितं शिशोर्यथा ॥’ १ ॥
‘सदर्थद्योतनकरी तमस्तोमविनाशिनी ।
ब्रह्मानन्देन ज्योत्स्नेयं शिवाङ्घ्रियुगलेऽर्पिता ॥’ २ ॥
इति श्रीहठयोगप्रदीपिकाव्याख्यायां ब्रह्मानन्दकृतायां ज्योत्स्नाभिधायां समाधिनिरूपणं
नाम चतुर्थोपदेशः