हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 194, कुल 307 में से
संदर्भ में पढ़ें१७६ हठयोगप्रदीपिका
‘काष्ठे प्रवर्तितो वह्निः’ (IV. 98) इत्यादिभिः श्लोकैः राजयोगापरपर्यायो-
ऽसंप्रज्ञातः समाधिरुक्तः ॥ १०२ ॥
सर्वे हठलयोपाया राजयोगस्य सिद्धये ।
राजयोगसमारूढः पुरुषः कालवञ्चकः ॥ १०३ ॥
सर्व इति । हठश्च लयश्च हठलयौ तयोरुपाया हठलयोपाया हठोपाया
आसनकुम्भकमुद्रारूपा लयोपाया नादानुसंधानशांभवीमुद्रादयः । राजयोगस्य
मनसः सर्ववृत्तिनिरोधलक्षणस्य सिद्धये निष्पत्तये प्रोक्ता इति शेषः । राजयोगं
समारूढः सम्यगारूढः प्राप्तवान् यः पुरुषः स कालवञ्चकः कालं मृत्युं वञ्चयति
जयतीति तादृशः स्यादिति शेषः ॥ १०३ ॥
तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः ।
उन्मनी कल्पलतिका सद्य एव प्रवर्तते ॥ १०४ ॥
तत्त्वमिति । तत्त्वं चित्तं बीजं बीजवदुन्मन्यवस्थाङ्कुराकारेण परिणम-
मानत्वात् । हठः प्राणापानयोरैक्यलक्षणः प्राणायामः क्षेत्रं क्षेत्र इव प्राणायामे
उन्मनीकल्पलतिकोत्पत्तेः औदासीन्यं परवैराग्यं जलं तस्या उत्पत्तिकारणत्वात् ।
‘परवैराग्यहेतुकः संस्कारविशेषश्चित्तस्यासंप्रज्ञातः’ इति तल्लक्षणात् । एतैस्त्रिभि-
रुन्मन्यसंप्रज्ञातावस्था सैव कल्पलतिका सकलेष्टसाधनत्वात् सद्य एव शीघ्रमेव
प्रवर्तते प्रवृत्ता भवति उत्पन्ना भवति ॥ १०४ ॥
सदा नादानुसंधानात् क्षीयन्ते पापसंचयाः ।
निरञ्जने विलीयेते निश्चितं चित्तमारुतौ ॥ १०५ ॥
सदेति । सदा सर्वदा नादानुसंधानान्नादानुचिन्तनात् पापसंचयाः
पापसमूहाः क्षीयन्ते नश्यन्ति । निरञ्जने निर्गुणे चैतन्ये निश्चितं ध्रुवं चित्तमारुतौ
मनःप्राणौ विलीयेते विलीनौ भवतः ॥ १०५ ॥