हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 148, कुल 307 में से
संदर्भ में पढ़ें१३० हठयोगप्रदीपिका
भवः कुतः संभवति ? न कुतोऽपि । प्राणोन्द्रियमनोवृत्तीनां ज्ञानप्रतिबन्धकत्वादिति
भावः । प्राणो मनः, इदं द्वयं यो योगी विलयं नाशं नयेत् स मोक्षमात्यन्तिक-
स्वरूपावस्थानलक्षणं गच्छति प्राप्नोति । ब्रह्मरन्ध्रे निर्व्यापारस्थितिः प्राणस्य
लयः । ध्येयाकारावेशात् विषयान्तरेणापरिणमनं मनसो लयोऽन्यः । अलीन-
प्राणोऽलीनमनाश्च कथंचिदुपायशतेनापि न मोक्षं प्राप्नोतीत्यर्थः । तदुक्तं
योगबीजे—
‘ नानाविधैर्विचारैस्तु न साध्यं जायते मनः ।
तस्मात् तस्य जयोपायः प्राणस्य जय एव हि ॥' इति ।
नानामार्गैः सुदुष्प्रापं कैवल्यं परमं पदं सिद्धमार्गेण लभ्येत, नान्यथा
शिवभाषितमिति च । सिद्धमार्गो योगमार्गः । एतेन योगं विना ज्ञानं मोक्षश्च न
सिद्ध्यतीति सिद्धम् । श्रुतिस्मृतीतिहासपुराणादिषु चेदं प्रसिद्धम् । तथाहि—
‘ अथ तद्दर्शनाभ्युपायो योगः’ इति, तद्दर्शनमात्मदर्शनम् । ‘ अध्यात्मयोगाधि-
गमेन देवं मत्वा धीरो हर्षशोकौ जहाति' (Kaṭ. Up., II. 12) इति ।
‘ श्रद्धाभक्तिध्यानयोगादवेहि' (Kai. Up., 2) इति ।
‘ यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ।
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ॥
अप्रमत्तस्तदा भवति ।' (Kaṭ. Up., VI. 10-11)
‘ यदात्मतत्त्वेन तु ब्रह्मतत्त्वं दीपोपमेनेह युक्तः प्रपश्येत् ।
अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥'
(Śve. Up., II. 15)
‘ ब्रह्मणे त्वा महस ओमित्यात्मानं युञ्जीत' ।
(Mahānā. Up., 24. 2) इति