हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 112, कुल 307 में से
संदर्भ में पढ़ें९४ हठयोगप्रदीपिका
सुषुम्नायामित्यध्याहार्यम् । तदेव बन्धविशेषमुड्डीयानामकं स्यात् । तत्र
तस्मिन् विषये बन्धोऽभिधीयते बन्धस्वरूपं कथ्यते मयेति शेषः ॥ ५६ ॥
उदरे पश्चिमं तानं नाभेरुर्ध्वं च कारयेत् ।
उड्डीयानो ह्यसौ बन्धो मृत्युमातङ्गकेसरी ॥ ५७ ॥
उड्डीयानबन्धमाह—उदर इति । उदरे तुन्दे नाभेरुर्ध्वं चकारादधः
उपरिभागेऽधोभागे च पश्चिमं तानं पश्चिमाकर्षणं नाभेरुर्ध्वाधोभागौ यथा
पृष्ठसंलग्नौ स्यातां तथा तानं ताननं नामाकर्षणं कारयेत् कुर्यात् । णिजर्थो-
ऽविवक्षितः । असौ नाभेरुर्ध्वाधोभागयोस्ताननरूप उड्डीयान उड्डीयानाख्यो
बन्धः । कीदृशः मृत्युरेव मातङ्गो गजस्तस्य केसरी सिंहः सिंह इव
निवर्तकः ॥ ५७ ॥
उड्डीयानं तु सहजं गुरुणा कथितं सदा ।
अभ्यसेत् सततं यस्तु वृद्धोऽपि तरुणायते ॥ ५८ ॥
उड्डीयानं त्विति । गुरुर्हितोपदेष्टा तेन गुरुणा उड्डीयानं तु सदा
सर्वदा सहजं स्वाभाविकं कथितम् । प्राणस्य बहिर्गमने सर्वदा सर्वस्यैव
जायमानत्वात् । यस्तु यः पुरुषस्तु सततं निरन्तरमभ्यसेत् । उड्डीयानमित्यत्रापि
संबध्यते । स तु वृद्धोऽपि स्थविरोऽपि तरुणायते तरुण इवाचरति
तरुणायते ॥ ५८ ॥
नाभेरुर्ध्वमधश्चापि तानं कुर्यात् प्रयत्नतः ।
षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः ॥ ५९ ॥
नाभेरिति । नाभेरुर्ध्वमुपरिभागेऽधश्चाप्यधोभागेऽपि प्रयत्नतः प्रकृष्टो
यत्नः प्रयत्नस्तस्मात् प्रयत्नतः । यत्नविशेषात् तानं पश्चिमतानं कुर्यात् ।