हठयोग प्रदीपिका (योगी स्वात्माराम - ज्योत्स्ना टीका सहित सटीक)
Hatha Yoga Pradipika with Jyotsna & Hindi Commentary
योगी स्वात्माराम / पं. मिहिरचन्द्र द्वारा
पृष्ठ 103, कुल 307 में से
संदर्भ में पढ़ेंहठयोगप्रदीपिका ८५
ततश्छेदनानन्तरं चूर्णिताभ्यां चूर्णीकृताभ्यां सैन्धवं सिन्धुदेशोद्भवं
लवणं पथ्या हरीतकी ताभ्यां प्रवर्षयेत् प्रकर्षेण घर्षयेच्छिन्नं शिराप्रदेशम् ।
सप्तदिनपर्यन्तं छेदनं सैन्धवपथ्याभ्यां घर्षणं च सायं प्रातर्विधेयम् । योगाभ्यासिनो
लवणनिषेधात् खदिरपथ्याचूर्णं गृह्णन्ति । मूले सैन्धवोक्तिस्तु हठाभ्यासात्
पूर्वं खेचरीसाधनाभिप्रायेण । सप्तानां दिनानां समाहारः सप्तदिनं तस्मिन् प्राप्ते
गते सति अष्टमे दिन इत्यर्थात् । ये प्राप्त्यर्थास्ते गत्यर्थाः । पुनः पूर्व-
छेदनापेक्षयाधिकं रोममात्रं समुच्छिनेत् ॥ ३५ ॥
एवं क्रमेण षण्मासं नित्यं युक्तः समाचरेत् ।
षण्मासाद्रसनामूलशिराबन्धः प्रणश्यति ॥ ३६ ॥
एवमिति । एवं क्रमेण पूर्वं रोममात्रच्छेदनं सप्तदिनपर्यन्तं तावदेव
सायंप्रातश्छेदनं घर्षणं च । अष्टमे दिनेऽधिकं छेदनमित्युक्तक्रमेण षण्मासं
षण्मासपर्यन्तं नित्यं युक्तः सन् समाचरेत् सम्यगाचरेत् । छेदनघर्षणे इति
कर्माध्याहारः । षण्मासादनन्तरं रसना जिह्वा तस्या मूलमधोभागो रसनामूलं
तत्र या शिरा कपालकुहररसनासंयोगप्रतिबन्धकीभूता नाडी तया बन्धो बन्धनं
प्रणश्यति प्रकर्षेण नश्यति ॥ ३६ ॥
कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् ।
सा भवेत् खेचरी मुद्रा व्योमचक्रं तदुच्यते ॥ ३७ ॥
छेदनादिना जिह्वावृद्धौ यत्कर्तव्यं तदाह—कलामिति । कलां जिह्वां
पराङ् मुखमग्रं यस्याः सा तथा तां पराङ्मुखीं प्रत्यङ्मुखीं कृत्वा तिसृणां
नाडीनां पन्थाः त्रिपथस्तस्मिन् त्रिपथे कपालकुहरे परियोजयेत् संयोजयेत् ।
सा त्रिपथे रसनापरियोजनरूपा खेचरी मुद्रा तद्व्योमचक्रमित्युच्यते,
व्योमचक्रशब्देनोच्यते ॥ ३७ ॥